प्रश्रितं विनीतम् । स्वामिसत्कारसंयुक्तं सुग्रीवसन्मानयुक्तमिति हनुमद्वाक्यविशेषणम् ॥ ४।५५।१ ॥
आत्ममनसोः शौचं कामादिदोषराहित्यम् ॥ ४।५५।२ ॥
तदनुपपत्तिमेव दर्शयति भ्रातुरिति । ज्येष्ठस्य भ्रातुर्भार्यां धर्मेण मातरं धर्ममार्गेण वर्तमानां ज्येष्ठभ्रातृपत्नीं तां मातृतुल्यां जीवतो मम समक्षम् अनेन “देवराच्च सुतोत्पतिम्” इत्यतो ऽपि धर्मत्वं वारितम् । यद्वा जीवतो महिषीमिति महिषयुद्धकालिकस्वीकारपरम् । यः स्वीकरोति कथं स धर्मं जानीत इत्यन्वयः । एतेन हनूमदुक्तं धर्मराजत्वं प्रत्याख्यातम् । एतद्वचो ऽङ्गदस्य केवलरोषमूलं त्रैवर्णिकातिरिक्तधर्मास्मरणमूलकम् ॥ ४।५५।३ ॥
स उक्तजुगुप्सितकर्मकारी । धर्माज्ञाने उपपत्त्यन्तरमप्याह युद्धाय युद्धार्थं गच्छता भ्रात्रा ऽभिनियुक्तेन । बिलरक्षणनियुक्तेनेत्यर्थः ॥ ४।५५।४ ॥
सत्यादग्निसाक्षिकतया पाणिगृहीतो मित्रं कृतो राघवो ऽपि येन विस्मृतः, स कस्य सुकृतमुपकारं स्मरेत् न कस्यापीत्यतः कथं कृतज्ञ इत्यर्थः ॥ ४।५५।५ ॥
ननु तत्कार्ये प्रवृत्तत्वात्कथं न कृतज्ञो ऽत आह– लक्ष्मणस्येति । भयौपाधिक्येषा प्रवृत्तिर्न धर्ममूलेति भावः । “धर्ममस्मिन्” इति पाठे धर्मं धर्मधीमूलं प्रवर्तनमित्यर्थः ॥ ४।५५।६ ॥
स्मृतिभिन्ने स्मृतिर्मन्वादीनां भिन्ना त्यक्ता येन । चलात्मनि चञ्चलान्तःकरणे । तत्कुलीनो तज्ज्ञातिकोटिप्रविष्टः ॥ ४।५५।७ ॥
तदेव विवृणोति राज्ये इति । सुग्रीवः सुगुणो निर्गुणो वा ऽस्तु, न मे तद्विचारेण किञ्चित्, अपि तु शत्रुकुलीनं मां पुत्रं राज्ये प्रतिष्ठाप्य कथं सुग्रीवो जीवयिष्यति न कथमपीत्यर्थः ॥ ४।५५।८ ॥
इतो ऽपि न जीवयिष्यतीत्याह भिन्नेति । भिन्नो बिलप्रवेशरूपो मन्त्रो यस्य सः । एवं मन्त्रस्य यस्य कस्यापि मुखाच्छ्रवणे ऽवश्यंभाविनि स्पष्टमपराद्धश्च भवामि । हीनशक्तिः सुग्रीवापेक्षया हीनबलः हनुमदुक्तरीत्या सहायबलहीनश्च ॥ ४।५५।९ ॥
उपांशुदण्डस्यैव रूपम् बन्धनेनेति । पुत्र इति कृत्वा वधाभावः । अपराद्ध इति च बन्धननिश्चयः ॥ ४।५५।१० ॥
तदेव द्रढयन्नाह बन्धनादिति । अवसादो बन्धनजं दुःखम् ॥ ४।५५।११,१२ ॥
राजा सुग्रीवः कुशलमेव वाच्य इत्यनुकर्षः । न त्विदानीं दुःखवशादुक्तमित्यर्थः । राघवौ कुशलं वाच्यौ ॥ ४।५५।१३ ॥
अथ मातुः कुशलविज्ञापनाशेषतया, आरोग्यपूर्वकत्वविशेषाभिधित्सया च पुनः सुग्रीवे कुशलविज्ञापनमाह वाच्यस्तात इति ॥ ४।५५।१४,१५ ॥
वृद्धाञ्जाम्बवदादीन् ॥ ४।५५।१६,१७ ॥
सुग्रीवं निन्दन्तः अङ्गदपक्ष्या इति शेषः ॥ ४।५५।१८ ॥
व्यवसन् व्यवास्यन्नित्यर्थः ॥ ४।५५।१९,२० ॥
हरिश्रेष्ठा अपि एतत्प्रायोपवेशनमेवास्माकमद्य क्षमं युक्तमिति मन्यन्ते स्मेति शेषः । स्वामिनि म्रियमाणे तं परित्यज्यास्माकं गमनमयुक्तमिति तत्क्षमत्वव्यवसायः । रामस्य वनवासमित्यादिना ऽग्रिमसर्गार्थसङ्क्षेपः ॥ ४।५५।२१ ॥
भयमागतम् संपातिजं वक्ष्यमाणं भयमित्यर्थः ॥ ४।५५।२२ ॥
भृशं नदद्भिः संपातिजभयादिति शेषः ॥ ४।५५।२३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकिय आदिकाव्ये किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥ ४।५५ ॥