ताराधिपतिवर्चसि तारे तथा ब्रुवति तुशब्दादङ्गदे प्रतिषेधाकरणात्तदनुमन्यमाने सति । अथानन्तरमङ्गदेन राज्यं सुग्रीवीयं कपिराज्यं हृतमिति मेने । तद्राज्यं स्वयंप्रभाबिलराज्यमित्यर्थ इत्यन्ये ॥ ४।५४।१ ॥
नन्वङ्गदे कथं राज्यापहारचिन्ता ऽत आह– बुद्ध्येति । अष्टाङ्गया ऽष्टगुणया । ते ऽत्र गुणाः “शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ " इति प्रसिद्धाः । चतुर्बलं “सामदानभेदनिग्रहरूपोपायचतुष्टयजम्” । चतुर्दशगुणम् “देशकालज्ञता दार्ढ्यं सर्वक्लेशसहिष्णुता । सर्वविज्ञानता दाक्ष्यमूर्जः संवृतमन्त्रता ॥
अविसंवादिता शौर्यं भक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममर्षित्वमचापलम् ॥ " इत्युक्तचतुर्दशगुणयुक्तम् ॥
४।५४।२,३ ॥
तारस्य वचः शुश्रूषमाणं यतो ऽपश्यत्ततो राज्यं हृतं मेने । शुक्रस्येव पुरन्दरम् विपरीतोपदेशग्रहे उपमैषा । शुक्रशब्दो ऽपि बृहस्पतिपर इति कश्चित् ॥ ४।५४।४ ॥
भर्तुः सुग्रीवस्यार्थे ऽर्थकरणे परिश्रान्तं विमुखम् । सर्वशास्त्रविशारद इति हनुमद्विशेषणम् । अभिसन्धातुं तारादिभ्यो भेदयितुम् ॥ ४।५४।५ ॥
स इति । अभिसन्धित्सुर्हनुमानित्यर्थः । द्वितीय उपायो भेदस्तमुपवर्णयन् हेतौ शता तदुपायावलम्बनहेतुना तान्सर्वानङ्गदानुवर्तिनः । वाक्यसंपदा भेदजननक्षमन्यायोपेतेन “हीनाश्रयो न कर्तव्यः कर्तव्यो महदाश्रयः” इत्यादिवाक्यसमूहेन ॥ ४।५४।६ ॥
कोपोपायो दण्डस्तत्समन्वितैः । “कोपापायसमन्वितैः” इति पाङ्क्तः पाठः । कोपापनयनसामर्थ्ययुक्तैरभीषयन्न्यायप्रदर्शनपूर्वं भयमुत्पादयामास ॥ ४।५४।७ ॥
भीषणमेव स्तुतिपूर्वं करोति– त्वमिति । त्वं पित्रा सुग्रीवेण युद्धे समर्थतरः । यद्वा त्वं पित्रा सदृश इति शेषः अत एव युद्धे समर्थतर इत्यर्थः । दृढं धारयितुं शक्तः । अस्य यदि सर्वे कपयस्त्वामनुवर्स्त्यन्तीति शेषः । कपिराज्यं किष्किन्धायां वा ऋक्षबिले वा ॥ ४।५४।८ ॥
न च तदस्तीत्याह– नित्यमिति । स्वभावादिति भावः । अस्थैर्ये कारणान्तरमप्याह पुत्रदारं विनेति । पुत्रदाराणां किष्किन्धावर्तिनां सुग्रीवायत्तत्वात्त्वया सह बिले ऽवस्थाने तद्वियोगस्य स्पष्टत्वात् । निगृह्य स्थापनमप्यशक्यमित्याह– त्वया ऽ ऽज्ञाप्यं त्वत्कर्तृकमाज्ञापनं न सहिष्यन्ति । त्वत्तो ऽप्यधिकबलत्वादिति भावः ॥ ४।५४।९ ॥
पुत्रदारं हित्वा एते त्वां नानुरञ्जेयुस्त्वयि नानुरक्ता भवेयुः । उक्तमर्थं स्पष्टं यथा भवति तथा प्रवदामि प्रदर्शयामि । तदेव दर्शयति– अयं जाम्बवानिति ॥ ४।५४।१० ॥
अहमिति स्वनिर्देशः । ते इमे सर्वे सामदानादिभिर्गुणैरुपायैस्त्वया सुग्रीवादपकर्षितुं शक्या न हि नापि दण्डेन ॥ ४।५४।११ ॥
ननु गच्छत यूयमपि, एकेनैव मया स्थेयमत आह– विगृह्येति । दुर्बलेन सह विगृह्य बलीयसा ऽ ऽसनं स्थितिः शक्येत्याहुः न तु दुर्बलस्य बलीयसा विगृह्यासनं शक्यम् । तस्मादात्मरक्षाकरः आत्मरक्षाकरणेच्छुः पुरुषो दुर्बलः सन्बलीयसा न विगृह्णीत ॥ ४।५४।१२ ॥
नन्वेषा गुहा न बलवतः साध्येत्याशङ्क्याह यामिति । यामिमां गुहां धात्रीं रक्षिकां मन्यसे नेयं रक्षिकेति शेषः । कुतस्तत्राह– यदेतद्बिलमृक्षबिलं निर्भयमिति ताराच्छ्रुतम् एतदेतद्विषयविदारणं लक्ष्मणबाणानामीषत्कार्यमीषत्करम् । खलभाव आर्षः ॥ ४।५४।१३ ॥
पुरा पूर्वं मायया भूतलान्तर्निर्मितैतत्पुरवर्तिमयवधार्थमशनिं तत्प्रदेशभुवि क्षिपतेन्द्रेण स्वल्पमेव कृतं मयवधमात्रं कृतम्, न तु पुरं भग्नम् । लक्ष्मणस्तु निशितैर्बाणैरेतत्पुरमपि पत्रपुटमिव भिन्द्यात् ॥ ४।५४।१४ ॥
कुतस्तत्राह– लक्ष्मणस्येति । तद्विधा इत्यस्य विवरणं वज्राशनीत्यादि । वज्रमिन्द्रकरस्थम्, अशनिर्मेघस्थः यद्वा तद्विधा वालिहन्तृबाणसदृशाः ॥ ४।५४।१५ ॥
यदैवात्र बिले त्वमवस्थानमासिष्यसि प्राप्स्यसि तदैव सर्वे हरयः कृतनिश्चयास्त्वां त्यक्ष्यन्ति ॥ ४।५४।१६ ॥
नित्योद्विग्ना रामलक्ष्मणसुग्रीवेभ्यः । बुभुक्षिताः पुत्रदारादिजसुखभोगेच्छवस्त्वया दुःखशय्याभिर्दुःखस्थित्यादिभिः खेदिताः सन्तस्त्वां पृष्ठतः करिष्यन्ति । सर्वथा त्यक्ष्यन्त्येवेत्यर्थः ॥ ४।५४।१७ ॥
स्पन्दमानात्तृणादपि लघुरिति शेषः । अत एव भृशोद्विग्नो भविष्यसि । यद्वा तादृशतृणात्तद्दृष्ट्वा भृशोद्विग्नः रामाद्यागमनशङ्कयेति भावः ॥ ४।५४।१८ ॥
अतो ऽत्युग्रवेगा निशिता घोरा लक्ष्मणसायका अपावृत्तं व्युत्थितं त्वां जिघांसन्तो भवेयुः । सर्वत्रात्र लक्ष्मणनामग्रहणं तस्य क्रूरस्वभावत्वात्, ईदृशानां रामालक्ष्यत्वाच्च ॥ ४।५४।१९ ॥
एवं वास्तवं भयं प्रदर्श्य सुग्रीवसमाश्रयणमेव हितमित्याह– अस्माभिरिति । आनुपूर्व्याज्ज्येष्ठपुत्रत्वप्रयुक्तानुक्रमात् ॥ ४।५४।२० ॥
राज्ये ऽवस्थाने हेतुमाह– धर्मेति । धर्मराजो धर्ममार्गवर्ती राजा तथा प्रीतिकाम एव त्वयि, न तु त्वद्वधकामः ॥ ४।५४।२१ ॥
इतश्च सर्वथैवमेवेत्याह– प्रियकाम इति । अस्य जीवितम् तदर्थं त्वन्मातुः प्रीतिसंपादनप्रयोजनम् गम्यताम् अस्माभिः सार्धमिति शेषः ॥ ४।५४।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुष्पञ्चाशः सर्गः ॥ ४।५४ ॥