०५३ प्रायोपवेशनिश्चयः

तत इति ॥ ४।५३।१ ॥

गिरिदुर्गम् ऋक्षबिलाख्यम् । समयः कालावधिः ॥ ४।५३।२ ॥

तदा शिशिरारम्भसमये ॥ ४।५३।३ ॥

पुष्पातिभारयुक्तान्यग्राणि येषाम् । वासन्तिकान्वसन्तकाले फलवत आम्रादीन् ॥ ४।५३।४ ॥

भयकृतशङ्कां विवृणोति– ते इति । वसन्तमनुप्राप्तं प्रकृतशिशिरकालस्योत्तरकालमासन्नतया प्राप्तप्रायम् । नष्टः सन्देशकाले राजसन्दिष्टमासरूपे काले ऽनुष्ठेयो ऽर्थो येषां ते ॥ ४।५३।५ ॥

तान्भयेन भूतले पिततान् शिष्टान्वृद्धेभ्यो ऽन्यान् अनुमान्य संपूज्य ॥ ४।५३।६ ॥

प्राज्ञ अङ्गद इत्यार्षम् ॥ ४।५३।७ ॥

शासनव्यतिक्रमं दर्शयति– मास इति । अन्वेषणावधित्वेन दत्त इत्यर्थः । किं न बुद्ध्यत नाबुद्ध्यत कालात्ययमिति शेषः ॥ ४।५३।८ ॥

कालात्ययमेवाह– वयमिति । आश्वयुजे अतीतप्राये इति शेषः । “कार्तिके समनुप्राप्ते त्वं रावणवधे यत” इत्युक्तेः । ततः पञ्चदशरात्रकालसङ्ख्यया प्रवर्तितदूतैर्व्यवस्थिता मिलिताः । एवं चामान्तमानेनाश्विनस्योत्तरे दीपोत्सवामायुते पक्षे सर्वसेनागमनं किष्किन्धायाम् । रामस्य क्रोधस्तु तत्रैव पक्षे कार्तिकसंनिधावां तदुद्यमाभावकृतः । ततः कार्तिके ऽवधिरन्वेषणस्य । ततो– मार्गशुक्ल इदं वचनम् । प्रायस्तद्वर्षे पौषः क्षयमासः । “कार्तिकादित्रये नान्यतः” इत्युक्तेः अतो मार्गशुक्ल एव आम्नादीनां पुष्पोद्गमः उत्पाततो वा । तादृशरीत्या पुष्पोद्गमं दृष्ट्वा ऽपि वसन्तासन्नतानुमानेन भयोपपत्तिः । कतकादयस्तु– अन्वेषणे ऽवधित्वेन दत्तः पौषो मासः । “आश्वयुजे” इत्यस्य तत्प्रत्यासन्नकार्तिकान्ते इत्यर्थः । कालसङ्ख्येति कार्तिकोत्तरं पञ्चदशरात्रसङ्क्याकालेनावधिना वानरानयनाय दूतप्रेषणम् । ततः पूर्णिमान्तमानेन मार्गशुक्लेन सर्ववानरागमनम् । ततः पौषाद्यदिने दिक्ष्वन्वेषणाय वानरप्रस्थानम् । तत्र पौषे माघकृष्णीयकिञ्चिद्दिनसहिते ऽतीते इदं वाक्यमित्याहुः । तेषां सीतानयनोत्तरं सीतां प्रति द्वादश मासा रावणावधिरिति स्पष्टमेव, पम्पायां चैत्रे आगमनमित्यस्योक्तत्वात् । ततः पूर्वं फाल्गुने सीतापहार इति च स्पष्टमेव । एवं च माघकृष्णे तच्छुक्लादौ वा हनूमतः सीतासमीपगमने हनूमन्तं प्रति “वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम” इति सीतोक्तिविरोधः । किं च हनूमतो लङ्काप्रवेशदिने प्रदोषसमय एव पूर्णकल्पचन्द्रोदयवर्णनं च विरोध इत्याहुः ॥ ४।५३।९ ॥

उक्तमेव विस्तरेणाह भवन्त इति । प्रत्ययमन्वेषणार्थराजनियोगं प्राप्ता ज्ञातवन्तो भवन्तो मां पुरस्कृत्य निर्याता इत्यन्वयः ॥ ४।५३।१०,११ ॥

तस्य कालस्य च बिले गतत्वादिदानीमकृतार्थानामस्माकं मर्तव्यं मरणमेवानुष्ठेयम् । कुतस्तत्राह हरिराजस्येति ॥ ४।५३।१२ ॥

प्रायोपवेशनं युक्तम् प्राणत्यागायेति शेषः ॥ ४।५३।१३ ॥

स्वामिभावे निग्रहानुग्रहकृद्राजभावे व्यवस्थितो ऽपराधः कालातिक्रमरूपः गतान्स्वसमीपं प्राप्तान् ॥ ४।५३।१४ ॥

अप्रवृत्तौ प्रवृत्तिप्रतिपादनाभावे । पापं वधरूपम् ॥ ४।५३।१५ ॥

पुत्रादि त्यक्त्या प्रायोपवेशनं गन्तुं कर्तुं क्षमं युक्तमित्यन्वयः । तत्र हेतुः– ध्रुवमिति ॥ ४।५३।१६ ॥

अप्रितिरूपेणापराधमूलत्वेनास्य वधस्याप्रतिरूपत्वम् । ननु युवराजत्वेनाभिषिच्य कथमसौ त्वां हनिष्यतीत्यत आह न चाहमिति ॥ ४।५३।१७ ॥

पूर्वं मां प्रति बद्धवैरः स राजा सुग्रीवो व्यतिक्रममाज्ञालङ्घनं दृष्ट्वा घातयिष्यत्येव ॥ ४।५३।१८ ॥

जीवितान्तरे राजाज्ञया जीवितनाशावधौ काले प्राप्ते मम व्यसनं पश्यद्भिरपि सुहृद्भिः किं कार्यमिति किं साध्यमित्यर्थकं शेषः । यदेवमतः– इहैवेति ॥ ४।५३।१९,२० ॥

प्रियायां रक्तो ऽनुरक्तः । तस्मिन्समये ऽन्वेषणावधिकाले ॥ ४।५३।२१,२२ ॥

अपराद्धानां कृतापराधानाम् । स्वामिपार्श्वतः स्वामिपार्श्वे सुग्रीवस्य प्रधानभूताः सेवका वयमिह समागताः ॥ ४।५३।२३ ॥

उपलभ्य वा गच्छाम । नो चेदिहैव स्थित्वा यमगृहं गमिष्यामः ॥ ४।५३।२४ ॥

बिलं स्वयंप्रभाया बिलम् ॥ ४।५३।२५ ॥

कथमत्र प्राणत्राणमत आह– इदं हीति । नो इति लोकोक्तौ ॥ ४।५३।२६ ॥

अङ्गदस्यापि अपिना तारस्य । असक्तमविलम्बम् ॥ ४।५३।२७ ॥

इदि श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥ ४।५३ ॥