०५२ वानरैः स्वगमनहेतुकथनम्

इदं वचनं वक्ष्यमाणम् ॥ ४।५२।१ ॥

यदि चैतत्किं कार्यमित्यादि प्राक्पृष्टार्थतत्त्वम् ॥ ४।५२।२,३ ॥

सर्वलोकराजत्वेन तस्येश्वरत्वं सूचितम् ॥ ४।५२।४ ॥

बलाद्बलात्कारेण ॥ ४।५२।५,६ ॥

अङ्गदप्रमुखैर्वानरैः सह वयं प्रस्थापिताः ॥ ४।५२।७ ॥

सहिता मिलिताः सन्तो रावणं सीतया सह मार्गध्वमिति वयं चोदिताश्च स्मः ॥ ४।५२।८ ॥

तदाह– विचित्य त्विति । समुद्रं विचेतुकामा इति शेषः ॥ ४।५२।९ ॥

नाधिगच्छाम । हे इति स्वयंप्रभासंबोधनम् । नाध्यगच्छाम पारं चिन्तामहार्णवस्येति शेषः ॥ ४।५२।१०,११ ॥

सलिलरेणुभिः सलिलपद्मरेणुयुक्तपक्षैरुपलक्षिता इत्यर्थः । निष्पतन्ति निष्पतिताः ॥ ४।५२।१२ ॥

अनुमानं जलानुमापको हेतुरागतं मनःप्राप्तम् ॥ ४।५२।१३ ॥

अस्मिन्देशे ततो गच्छाम इत्युक्त्वा निबिडान्धकारत्वात्परस्परं हस्तैर्गाढं गृहीत्वा निपतिताः गुहामिति शेषः । “हस्ते” इति पाठे ऽपि हस्तैरित्येवार्थः । परिष्वज्येति पूर्वोक्तस्वरसात् ॥ ४।५२।१४ ॥

एतत्सीतान्वेषणरूपम् ॥ ४।५२।१५ ॥

यतो बुभुक्षिता अतः परिद्यूनाः क्षीणाः ॥ ४।५२।१६,१७ ॥

किं ते कुर्वन्तु प्रियमिति शेषः ॥ ४।५२।१८ ॥

परितुष्टास्मि प्रत्युपचिकीर्षावचनेनैवेति भावः । धर्मेण चरन्त्या धर्मानुष्ठानेन वर्तमानायाः ॥ ४।५२।१९ ॥

अत्र कतकस्तु द्विपञ्चाशत्सर्गसमाप्तिमाह । एवमुक्त इति ॥ ४।५२।२०,२१ ॥

समयः कालावधिर्मासरूपः । बिले च बिले एव ॥ ४।५२।२२ ॥

तस्माद्धेतोरस्माद्बिलादस्मानित्यन्वयः । गतायुषो नष्टजीवितान् तत्र हेतुः सुग्रीववचनादतिक्रान्तानिति सुग्रीवाज्ञप्तकालादतिक्रान्तकालानित्यर्थः ॥ ४।५२।२३२५ ॥

प्रविष्टेनेदं बिलं प्रविष्टेन प्राणिना जीवता ऽस्मान्निवर्तितुं दुष्करं मन्ये । तर्हि वयं किं कुर्मस्तत्राह तपस इति ॥ ४।५२।२६,२७ ॥

निमीलिताः सन्तो ऽकस्मादुन्मीलनभिया सुकुमाराङ्गुलैः करैः ॥ ४।५२।२८ ॥

सहसा दृष्टिं पिदधुः ॥ ४।५२।२९,३० ॥

इदमब्रवीत् दिङ्मोहशान्त्यर्थमिति भावः ॥ ४।५२।३१ ॥

प्रस्रवणः किष्किन्धासमीपप्रस्रवणादन्यो ऽयमित्याहुः । अत्युच्चत्वात्ततो ऽपि तस्य दर्शनमित्यन्ये । यत्रेच्छा तत्र गन्तव्यमिति तात्पर्यम् ॥ ४।५२।३२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥ ४।५२ ॥