इत्युक्त्वा का त्वं भवनमित्यादि पृष्ट्वा ॥ ४।५१।१ ॥
किमब्रवीत्तदाह इदमिति । सहसा हठात् ॥ ४।५१।२ ॥
उक्तमेवार्थं प्रपञ्चयति– महदिति । भावान्पदार्थान् ॥ ४।५१।३६ ॥
कस्य तेजसा संभूता इति शेषः ॥ ४।५१।७ ॥
आत्मनः तवेत्यर्थः । कस्य वा अन्यस्य वेत्यर्थः ॥ ४।५१।८ ॥
अजानतामेतत्स्वरूपमजानताम् ॥ ४।५१।९,१० ॥
मायया विचित्रनिर्माणशक्त्या । को मय इत्याशङ्क्य तत्प्रसिद्धिमाह– पुरेति । विश्वकर्मा शिल्पी ह प्रसिद्धम् ॥ ४।५१।११ ॥
येनेदं निर्मितं स दानवानां विश्वकर्मेत्यन्वयः । निर्माणशक्तिबीजमाह– स त्विति ॥ ४।५१।१२ ॥
वरं विचित्रसृष्टिसामर्थ्यरूपम् । अपि च सर्वमौशनसं धनं निर्माणसाधनपदार्थजातं निर्माणसाधनशिल्पं शास्त्रज्ञानं च लेभे । शिल्पशास्त्रस्योशनःप्रणीणतत्वात्तद्धनत्वव्यपदेशः । बलवानुक्तरूपबलवान् । सर्वकामेश्वरः स्वसृष्टिभोग्यविशेषाणामीश्वरो भोक्ता ॥ ४।५१।१३ ॥
सुखितो ऽत्रोवास । हेमायां तदाख्याप्सरसि सक्तम् ॥ ४।५१।१४ ॥
दानवपुङ्गवमशनिं गृह्य गृहीत्वा विक्रम्यैव युद्धं कृत्वैव पुरन्दरो जघान । यद्यप्यसुरसुशिल्पी मयो नित्य इति कथं हननं तस्य, तथापि य एवासुरशिल्पिपदस्थः सर्वो ऽपि मयाख्य इति “प्रवाहनित्यतैव तस्येन्द्रवत्” इति न दोषः । तस्मिंश्च हते इदं वनं शाश्वतः कामभोग इदं गृहं च मयभुक्तायै हेमायै न्यायप्राप्तत्वाद्भगवता ब्रह्मणा दत्तमित्यर्थः । एतेन विचित्रनिर्माणसामर्थ्यगुणयोगादत्र ब्रह्मशब्दो मयदानवपर इत्यपास्तम् । हतेन दानासंभवात् ॥ ४।५१।१५ ॥
स्वयंप्रभेत्यन्वर्थं नाम तस्याः, तेन सुर्यावलोकाभावे ऽपि प्रकाशवत्त्वमुपपादितम् । तस्या हेमाया भवनमित्यन्वयः ॥ ४।५१।१६ ॥
ननु त्वं किमर्थं रक्षसि तत्राह– मम प्रियसखीति ॥ ४।५१।१७ ॥
दत्तवरा रक्षणसामर्थ्यवत्त्वात्सेखित्वेन प्रार्थितरक्षणा च । एवं स्ववृतान्तमुक्त्वा हनूमदादिवृत्तान्तं पृच्छति– किमिति ॥ ४।५१।१८ ॥
अभ्यवहाराण्यभ्यवहार्याणि ॥ ४।५१।१९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चशः सर्गः ॥ ४।५१ ॥