सहेति ॥ ४।५०।१ ॥
विषमेषु क्लेशजनकेषु ॥ ४।५०।२ ॥
दक्षिणपश्चिमो कोटिं नैऋत्यभागीयशृङ्गम् स कालः सुग्रीवकल्पितः कालः व्यत्यवर्तत व्यतिक्रान्तः ॥ ४।५०।३ ॥
स देशो नैर्ऋत्यविन्ध्यकोटिप्रदेशः ॥ ४।५०।४ ॥
परस्परेण रहिताः प्रत्येकमन्योन्यस्याविदूरतो भूत्वा हनूमान्गजादयश्च विचिन्वन्ति स्म ॥ ४।५०।५,६ ॥
विवृतमनावृतद्वारम् ॥ ४।५०।७ ॥
दुर्गं दुर्गमम् । दानवेन मयेन ॥ ४।५०।८ ॥
तत्र ततः निष्क्रमन्निराक्रमन् ॥ ४।५०।९ ॥
सुगन्धि, बिलान्तर्वक्ष्यमाणदिव्यगन्धपुष्पसंबद्धवातसङ्गात् ॥ ४।५०।१० ॥
सञ्जातपरिशङ्काः सञ्जातजलसंभावनाः ॥ ४।५०।११ ॥
दैत्येन्द्रनिलयः पातालम् ॥ ४।५०।१२,१३ ॥
कान्तारवनकोविदस्तत्प्रवेशादौ समर्थः ॥ ४।५०।१४१६ ॥
इत्युक्ताः हनूमतेति शेषः ॥ ४।५०।१७ ॥
निशाम्यावलोक्य ॥ ४।५०।१८ ॥
न सज्जते न प्रतिबध्यते । तेजः प्रभावः । अन्ये तु तेषां दृष्टिर्न सज्जते तत्रत्यपदार्थेष्विति शेषः, तिमिरावृतत्वात्, अत एव तेजःपराक्रमयोरपि कुण्ठितगमनम् । यद्यपि वायोरिव गतिस्तथा ऽपि यतो दृष्टिस्तमसि प्रतिबद्धा वर्तते, अतो वेगेन परस्परहस्तग्रहणपूर्वकं प्रविष्टा इत्यर्थः । अत एव “गृह्य हस्तैः परस्परम्” इत्यग्रे हनुमदुक्तिरित्याहुः ॥ ४।५०।१९२१ ॥
अन्योन्यं संपरिष्वज्य तिमिरदेशविनिर्गमजसन्तोषवशादिति शेषः । यद्वा ऽन्योन्यं हस्तावलम्बनं कृत्वा हस्तेन परस्परस्योरआदि सम्यग्धृत्वेति यावत् पूर्वोक्तस्यैव विस्तरः । नष्टसञ्ज्ञास्तृषावशात्, तदाह तृषिता इति ॥ ४।५०।२२ ॥
परिपेतुरिति अधोमार्गावलम्बनान्धकारे गताः ॥ ४।५०।२३ ॥
आलोकमेव ददृशुः, न तु जलम् । जीविते निराशा यदा बभूवुस्तदोच्यमानलक्षणं देशमागम्य काञ्चनान्वृक्षांश्च ददृशुः । यद्वा जीविते निराशा बभूवुस्तदा भगवत्कृपया लोकं ददृशुरुच्यमानविशेषणे देशे काञ्चनान्वृशान्ददृशुः ॥ ४।५०।२४२६ ॥
आपीडैः स्तबकशेखरैर्लताभिश्च संयुक्तान्पादपान्ददृशुः ॥ ४।५०।२७ ॥
पद्मिनीः पद्मलताः ॥ ४।५०।२८,२९ ॥
पद्मादियुता नलिनीः सरांसि च ददृशुः ॥ ४।५०।३० ॥
मुक्ताजालैर्मुक्ताखचितजालैरावृतानि । हैमेत्यादि गृहमुख्यानीत्यस्य विशेषणम् ॥ ४।५०।३१३५ ॥
यानानि शिबिकादीनि ॥ ४।५०।३६३८ ॥
व्यवतिष्ठन्त तूष्णीमवस्थिता बभूवुः ॥ ४।५०।३९ ॥
पप्रच्छ हनूमानित्यर्थस्यैव सविशेषप्रतिपादनम्– ततो हनुमानिति ॥ ४।५०।४० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥ ४।५० ॥