समाश्वास्य वानरानिति शेषः ॥ ४।४९।१,२ ॥
रक्षस्तद्रूपोपहर्तेत्याद्यर्थः ॥ ४।४९।३ ॥
नो महान्यातः मासमध्य इति शेषः । तन्मध्ये ऽल्पो ऽवशिष्ट इति भावः । परावृत्य गमने महदनिष्टमित्याह– सुग्रीवश्चेति ॥ ४।४९।४ ॥
तथा विचिनुध्वम्, यथा सीतां पश्याम इत्यन्वयः ॥ ४।४९।५ ॥
अनिर्वेदमखेदम् दाक्ष्यं सामर्थ्यम् अपराजयं कार्यापराङ्मुखत्वम् । एतद्वक्ष्यमाणम् ॥ ४।४९।६ ॥
हे वनौकसः इदं दुर्गवनमद्यापि विचिन्वन्तु भवन्तः । आदरात्पुनराह– खेदं त्यक्त्वा पुनर्विधिन्वताम् ॥ ४।४९।७ ॥
निर्वेदं खेदम् । नोन्मीलनमनुन्मीलनमनुद्योग इति यावत् । न क्षमं न युक्तम् ॥ ४।४९।८ ॥
तत्र हेतुः– सुग्रीव इति ॥ ४।४९।९ ॥
यदि मदुक्तमतेन्न रोचते तर्हि यदन्यत्क्षमं तदुच्यताम् ॥ ४।४९।१०,११ ॥
वो युष्माकम् । यदङ्गद उवाच तत्सदृशम् तस्यैवेति शेषः ॥ ४।४९।१२१७ ॥
तस्य रजतपर्वतस्य ॥ ४।४९।१८ ॥
दृष्टिगतं दृष्टिगोचरम् । अध्यारोहन्त अवारोहन्तेत्यर्थः ॥ ४।४९।१९२१ ॥
आदितस्तावद्विन्ध्यं विचेरुः अन्वेषणायोति शेषः । तावच्छब्दो वाक्यालङ्कारे ॥ ४।४९।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥ ४।४९ ॥