०४८ विन्ध्यपर्वते सीतान्वेषणम्

प्रचक्रमे अन्वेष्टुमिति शेषः ॥ ४।४८।१३ ॥

अन्वेषमाणास्ते विविधानि फलान्यपि भक्षयन्तः सीतां न ददृशुः ॥ ४।४८।४,५ ॥

यत्र निर्जलत्वादिवद्गहनं तादृशान्यपि दुरन्वेष्याणि विचित्येत्यन्वयः । भृशपीडिता निर्जलारण्यान्वेषणेन क्षुत्पिपासाभ्यां पीडिताः । स देशो निर्जलादिदेशो यद्यपि दुरन्वेष्यः, अथापि तं विचित्य ततस्तं देशं त्यक्त्वा ऽन्यदेशं विविशुरित्यग्रिमेणान्वयः ॥ ४।४८।६,७ ॥

वन्ध्यफला अनुत्पन्नफलाः ॥ ४।४८।८,९ ॥

वल्लयो वृक्षाद्याश्रिताः । वीरुधो भूम्याधाराः । स्थलं यत्र स्थलं नेत्यनुकर्षः ॥ ४।४८।१० ॥

भ्रमरैर्विवर्जिता विगतं वर्जितं यासु ताः संयुक्ता इत्यर्थः । तादृशाः फुल्लपङ्कजाश्च यत्र न सन्ति । यत्र वने कण्डुर्नाम महर्षिरासीत् ॥ ४।४८।११ ॥

वने पूर्वमिति शेषः । इदानीमुक्तलक्षणः ॥ ४।४८।१२ ॥

जीवितान्ताय जीवितान्तं गत्वा प्रनष्टस्तेन बालदुर्मरणेन क्रुद्धो मुनिरभूत् ततस्तेन धर्मात्मना शापानुग्रहसमर्थप्रबलधर्मवता । तत्र काले शप्तमभूत् ॥ ४।४८।१३ ॥

शापस्वरूपमाह अशरण्यमनावासम् । ते वानरास्तस्य काननान्तान्विचिन्वन्तीत्यन्वयः ॥ ४।४८।१४ ॥

नदीनां प्रभवान्युत्पत्तिस्थानानि ॥ ४।४८।१५ ॥

ते प्रविश्य वनान्तरमिति शेषः । तमसुरं ददृशुरित्यन्वयः ॥ ४।४८।१६ ॥

सुरेभ्यो निर्भयः सुरनिर्भयः तथा वरदानादिति भावः ॥ ४।४८।१७ ॥

गाढं परिहिता दृढं परिबद्धवस्त्राः संनद्धा इति यावत् ॥ ४।४८।१८२१ ॥

सर्वं विचितं ज्ञात्वेति शेषः ॥ ४।४८।२२,२३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ ४।४८ ॥