०४७ त्रिदिशात् वानरप्रत्यागमनम्

यथोक्तम् । स्वस्वान्वेषणीयतयोक्तं देशमनतिक्रम्येत्यर्थः ॥ ४।४७।१ ॥

आकाशं वनगिर्यनावृतप्रदेशमित्यर्थः । नदीदुर्गानिति । नदीप्रवाहैर्गन्तुमशक्या देशा नदीदुर्गास्तान् ॥ ४।४७।२,३ ॥

दिवसमित्यत्यन्तसंयोगे द्वितीया । धृता उद्युक्ताः । मेदिन्यां सर्वाधारभूतायां निद्रासौकर्यार्थमिति भावः ॥ ४।४७।४ ॥

तेषु देशेषु सर्वर्तुकान्नित्यसंनिहितसर्वर्तुयुक्तान्, अत एव सदा सफलद्रुमान्सर्वेष्वहःसु विचयनसमये समासाद्य कामं प्राप्य, रजनीं रजन्यां शय्यां चक्रुः । तादृशवृक्षवत्त्वं च देशस्य रामप्रसादात् ॥ ४।४७।५ ॥

तदहः प्रस्थानदिवसं प्रथमं कृत्वा गताः । पुनर्मासे गते निराशाः सीतालाभे प्रस्रवणं गता आगताः, कपिराजेन सङ्गम्य स्थिता इत्यन्वयः ॥ ४।४७।६८ ॥

उपचक्रमे प्राप्तः ॥ ४।४७।९,१० ॥

सागरान्ताः सागरमद्यवर्तिद्वीपाः ॥ ४।४७।११ ॥

लताविततैर्लताप्रतानैः सन्तताः समन्ताद्व्याप्तास्तादृशा महागुल्मा लतागृहविशेषाः ॥ ४।४७।१२,१३ ॥

दिक्त्रयासत्त्वसिद्धनिश्चयमर्थमनुवदति उदारेति ॥ ४।४७।१४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४।४७ ॥