०४६ दुन्दुभिवृत्तान्तः

गतेष्विति ॥ ४।४६।१ ॥

प्रणत आत्मा देहो यस्यास्तीति ॥ ४।४६।२ ॥

दुन्दुभिं नामेतिं । अत्र दुन्दुभिशब्देन महिषशब्देन च तत्पुत्रो मायाविनामा दानव उच्यते तद्वृत्तान्तस्यैवाग्रे वक्ष्यमाणत्वात् । “मायावी नाम तेजस्वी दुन्दुभेः पूर्वजः सुतः” इति प्रागुक्तेस्तस्य तत्पुत्रत्वम्, पितुर्माह्रिषाकाकारत्वात्तत्पुत्रस्य च तदाकारत्वमिति च बोध्यम् ॥ ४।४६।३ ॥

मलयं मलयगुहाम् ॥ ४।४६।४,५ ॥

आपुपूरे पूर्णम् ॥ ४।४६।६ ॥

निहत इति । गतबुद्धिः प्राप्तबुद्धिः जात इति शेषः । ततः– मयेत्यादि ॥ ४।४६।७ ॥

विनशिष्यतीत्यस्येति बुद्ध्येति शेषः । तस्य वालिनः ॥ ४।४६।८ ॥

तारां च प्राप्येति संबन्धः । वसाम्यवसम् ॥ ४।४६।९,१० ॥

परिकालयते सचिवैः सह धावन्तमनुधावति स्म ॥ ४।४६।११ ॥

ततस्तेन वालिना सो ऽहमनुबद्धो ऽनुद्रुतः प्रधावितः ॥ ४।४६।१२ ॥

ततो वै तदनुधावनहेतोर्मया गोष्पदवन्परिभ्राम्यमाणेयं पृथिव्यलातचक्रप्रतिमादर्शतलसङ्काशा च दृष्टा । गोष्पदवदित्यनेन लङ्घने ऽप्रयास उक्तः । अलातचक्रेत्यनेन स्वीयो भ्रमणवेगः । आदर्शतलेत्यनेन भूतचक्रवर्तिपदार्थस्य स्पष्ठमनुभव उक्तः ॥ ४।४६।१३ ॥

उक्तमेव विवृणोति– पूर्वां दिशमिति ॥ ४।४६।१४ ॥

अप्सरसशब्दो ऽकारान्तो ऽप्यार्षः ॥ ४।४६।१५ ॥

परिकाल्यमानः परिकालयमानः पलायमान इत्यर्थः अकारलोप आर्षः । पुनरावृत्योदयगिरिभुवः ॥ ४।४६।१६ ॥

तस्या दिशस्तां दिशं त्यक्त्वा ॥ ४।४६।१७ ॥

द्रुमान्तरे शैलान्तरे च तद्व्यवहितं वालिनं पश्यन्नपरां पश्चिमां दिशं समभिद्रुत इति शेषः ॥ ४।४६।१८ ॥

गिरिसत्तमम् अभिधावित इति शेषः ॥ ४।४६।१९ ॥

मेरुं महामेरुम् । न विन्दे न लभे ॥ ४।४६।२० ॥

किमब्रवीत्तदाह इदानीमिति । मे मया स्मृतम् । किं स्मृतं तदाह– यथेति ॥ ४।४६।२१ ॥

तदा पूर्वकाले । अस्मिन्नाश्रममण्डले वाली यदा प्रविशेत्तदास्य मूर्धा शतधा भवेदिति हरीश्वरो मतङ्गेन शप्तः ॥ ४।४६।२२ ॥

तत्र मतङ्गाश्रमे । निरुद्विग्नो निर्भयः । आसाद्य स्थितस्य मम समीपमिति शेषः, न विवेशेत्यन्वयः ॥ ४।४६।२३ ॥

तदा जातशापकृतादिति शेषः । गुहाम् ऋष्यमूकस्येति शेषः ॥ ४।४६।२४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षट्चत्वरिंशः सर्गः ॥ ४।४६ ॥