सर्वानिति ॥ ४।४५।१ ॥
उक्तिप्रकारः– एवमिति ॥ ४।४५।२ ॥
प्राप्तनियोगानामुद्योगः–शलभा इवेति ॥ ४।४५।३ ॥
यः सीताभ्यधिगमे तद्वृत्तान्तज्ञाने ऽवधिभूतः कृतस्तं मासमित्वन्वयः । गिरिराजो हिमालयः ॥ ४।४५।४७ ॥
यथातथं यथायोग्यमित्यर्थः । मुमोद चिक्रीड ॥ ४।४५।८ ॥
अभिप्रेत्योद्दिश्य ॥ ४।४५।९ ॥
नादादयः शब्दावान्तरभेदाः ॥ ४।४५।१० ॥
आनीयिष्यामह इत्यादेरूचुरित्यनेनान्वयः ॥ ४।४५।११,१२ ॥
श्रमेण वेपमानामिति जनकजाविशेषणम् ॥ ४।४५।१३,१४ ॥
अहं योजनेत्येकस्य वाक्यम् । शतयोजनेत्यन्यस्य ॥ ४।४५।१५,१६ ॥
एकैकः एकश इत्यर्थः ॥ ४।४५।१७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४।४५ ॥