०४४ रामेण मुद्रिकाप्रदानम्

हनूमत्यर्थस्य सविशेषमुक्तौ हेतुः– स हीति । अर्थसाधने तद्विषये निश्चितार्थः तादृशार्थतद्विषयकनिश्चयवान् ॥ ४।४४।१ ॥

उक्तिप्रकारं दर्शयति– अब्रवीच्चेति । सर्ववनौकसाम् मध्य इति शेषः ॥ ४।४४।२ ॥

अन्तरिक्षं पृथिव्यासन्नपक्षिमार्गः । अम्बरं मेघमार्गः । अमरालयः स्वर्गः गतिसङ्गं गतिप्रतिबन्धम् ॥ ४।४४।३ ॥

सर्वलोकविशेषणम् सासुरा इत्यादि ॥ ४।४४।४ ॥

लाघवं क्षिप्रकारित्वम् ॥ ४।४४।५ ॥

भूतं प्राणी । तत्तस्माद्यथा सीता लभ्यते तदर्थजातं त्वमेवानुचिन्तय ॥ ४।४४।६ ॥

बलं शारीरम् पराक्रम उत्साहः देशकालानुवृत्तिस्तदुचितकर्मानुष्ठानम् नये नीतिशास्त्रे पण्डितेति संबुद्धिः ॥ ४।४४।७ ॥

तत एवं सुग्रीववचनात्कार्यसमासङ्गं कार्यसिद्धिसंबन्धमवगम्य स्वयं च तत्सामर्थ्याद्यनुभवेन तस्मिन्कार्यसाधकत्वं विदित्वा, चात्तद्गम्यदेश एव सीतां विदित्वा चिन्तयामास अस्मिन्स्वकर्तव्यसमर्पणं युक्तमिति विचारयामास ॥ ४।४४।८ ॥

चिन्ताप्रकारमाह– सर्वथेति । निश्चितार्थं एतदर्थविषयकनिश्चयवान् । स्वतो ऽप्ययमतिशयेन कार्यसाधने निश्चितार्थः ॥ ४।४४।९ ॥

प्रस्थितस्य भर्त्रा प्रस्थापितस्य । परिज्ञातस्य परीक्षितस्य परिगृहीतस्य श्रेष्ठतयेति शेषः । कार्यस्य फलोदयः सीतादर्शनप्राप्तिरूपः स ध्रुवो निश्चितार्थः ॥ ४।४४।१० ॥

व्यवसायोत्तरं कार्यसाधने श्रेष्ठं तं हरिं हनूमन्तं समीक्ष्य प्रहृष्टेन्द्रियमानसो बभूव ॥ ४।४४।११ ॥

ततो निश्चितकार्यसाधकत्वादेव हेतो राजपुत्र्या अभिज्ञानं प्रत्यभिज्ञासाधनं ददौ ॥ ४।४४।१२,१३ ॥

तावत्पर्यन्तं मद्गमननिश्चयः कथमत आह व्यवसायश्चेति ॥ ४।४४।१४ ॥

तदभिज्ञानपदार्थम् ॥ ४।४४।१५ ॥

स तद्धरिणाम् । दीर्घाभाव आर्षः । महद्बलं प्रकर्षन् ॥ ४।४४।१६ ॥

हरिवरविक्रम श्रेष्ठसिंहविक्रम अतिबलपवनसुत हनूमन् तवैव बलमाश्रितो ऽहमस्मि, अतो ऽनल्पैर्विक्रमैर्जनकसुता यथा ऽधिगम्यते तथा कुरुष्व । इत्यब्रवीदिति शेषः । रामसुग्रीवयोः साधारणमिदं वचः ॥ ४।४४।१७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४।४४ ॥