०४३ उदीचीं प्रति शतबलिप्रेषणम्

तत इति ॥ ४।४३।१ ॥

सर्वज्ञो देशवृत्ताभिज्ञः ॥ ४।४३।२ ॥

वैवस्वतसुतैर्यमसुतैः ॥ ४।४३।३ ॥

विक्रान्तेति शतबलस्य संबुद्धिः । सर्वत इति सामान्यतो नियोगः ॥ ४।४३।४ ॥

विनिर्वृत्ते विशेषेणानुष्ठिते । कृतार्थाः कृतकृत्याः । अर्थविदां लब्धाभीष्टानाम् । सन्धिरार्षः ॥ ४।४३।५ ॥

अस्ति क्रियेत ॥ ४।४३।६ ॥

अर्थिनः स्वस्मात्प्रयोजनार्थिनः । कार्यनिर्वृत्तिं तत्प्रयोजनानुष्ठानम् । अकर्तुः पूर्वमुपकाराकर्तुरपि यश्चरेत्कुर्यात् ॥ ४।४३।७९ ॥

इमानि वक्ष्यमाणानि ॥ ४।४३।१० ॥

प्रस्थला भरताश्च देशविशेषाः । कुरून् दक्षिणकुरून् ॥ ४।४३।११,१२ ॥

लोध्रपद्मकखण्डेषु हैमवतेष्विति शेषः ॥ ४।४३।१३ ॥

तं कालाख्यं पर्वतम् ॥ ४।४३।१४ ॥

तस्य शैलेषु गण्डपर्वतेषु पर्वतेषु ततो महत्सु तेषु ॥ ४।४३।१५ ॥

तं कालपर्वतम् ॥ ४।४३।१६ ॥

ततः सुदर्शनात्परतः । पतगाः पक्षिणः ॥ ४।४३।१७,१८ ॥

तं देवसखपर्वतमतिक्रम्याकाशं शून्यदेशम् । शून्यत्वोपपादकम्– पर्वतेत्यादि ॥ ४।४३।१९ ॥

कान्तारमपर्वतवनत्वादिना । रोमहर्षणं भयङ्करत्वात् ॥ ४।४३।२०,२१ ॥

नलिनी सरसा ॥ ४।४३।२२।२३ ॥

तस्य कैलासस्य । पर्वतेषु गण्डपर्वतेषु ॥ ४।४३।२४ ॥

तस्य क्रौञ्चस्य । बिलं स्कन्दशक्तिकृतं विवरम् ॥ ४।४३।२५ ॥

तत्र क्रौञ्चगुहायाम् ॥ ४।४३।२६,२७ ॥

कामशैलं कामतपःस्थानशैलम् तद्विशेषणमवृक्षम् । मानसं तदाख्यम् तत्र मानसपर्वते ॥ ४।४३।२८ ॥

स चेति क्रौञ्चपर्वत इत्यर्थः । सानूनि प्रस्थाः, भूधराः पर्यन्तपर्वताः, तैः सहितः मैनाक इति मैनाको ऽयं समुद्रमग्नादन्यः ॥ ४।४३।२९३२ ॥

वैखानसं वैखानसानामिदम् ॥ ४।४३।३३ ॥

विचरितं सेवितम् । औपवाह्यो वाहनम् ॥ ४।४३।३४ ॥

तत्सरो ऽतिक्रम्य वर्तमानं व्योम । कियानवकाशश्चन्द्रादिसर्वज्योतिर्गणप्रकाशरहितः ॥ ४।४३।३५ ॥

नापि सान्धकार इत्याह– गभस्तिभिरिवेति । चन्द्रादिज्योतींष्यभिभूयार्कगभस्तिसदृशैः स्वीयैर्गभस्तिभिः प्रकाश्यते । के ते यैः स्वगभस्तिभिः प्रकाश्यते तत्राह– विश्राम्यद्भिरिति । सुखोपविष्टैः स्वतपःसिद्धैः, अत एव देवकल्पैः सूर्यादिदेवतुल्यैः स्वयंप्रभैश्च सूर्यादिवत्स देशः प्रकाश्यते । यत्तु तत्र चन्द्रादीनां सञ्चाराभाव एवेति, तन्न अग्रे सुप्रसिद्धचन्द्रादिसञ्चारवदुत्तरकुरूणां तदूर्ध्वमुपदेशानुपपत्तेः ॥ ४।४३।३६ ॥

निम्नगा अस्तीति शेषः । अन्तःसुषिरो वेणुः कीचकः ॥ ४।४३।३७ ॥

परं तीरम् शैलोदाया इति शेषः । कृतपुण्यानां प्रतिश्रया निवासभूताः । पद्मिनीभिः सरसीभिः कृतोदकाः कृतोदककार्याः ॥ ४।४३।३८ ॥

तत आरभ्योत्तरकुरुदेशस्य भोगभूमित्वकथनम् । दिव्यनद्यो ऽपि तत्र सन्तीत्याह– नीलेत्यादि ॥ ४।४३।३९ ॥

जलाशयास्तटाकादयः ॥ ४।४३।४० ॥

निस्तुलाभिर्वर्तुलाभिः । “निस्तुलं वृत्तम्” इत्यमरः ॥ ४।४३।४१ ॥

जातरूपैः स्वर्णैरुद्धृतपुलिना युक्तपुलिनाः । नगोत्तमैः पर्वतैरवगाढा व्याप्ताः ॥ ४।४३।४२ ॥

नगा वृक्षाः । पत्ररथैः पक्षिभिराकुला व्याप्ताः ॥ ४।४३।४३,४४ ॥

इत उत्तरं केचिच्छ्लोकाः “रमन्ते सततं तत्र नारीभिर्भास्वरप्रभाः” इत्यन्ताः प्रक्षिप्ताः, प्राचिनपुस्तकेष्वनुपलम्भादिति कतकः ॥ ४।४३।४५५१ ॥

असदविद्यमानं प्रियं यस्य तादृशः ॥ ४।४३।५२ ॥

अत्र सुमेर्वन्वेषणं नोक्तम्, तत्र रक्षसां वासासंभवादित्याहुः । मध्ये उत्तरसमुद्रमध्ये ॥ ४।४३।५३ ॥

स तु देशो विसूर्यो ऽपि सूर्यसञ्चाररहितो ऽपि तस्य भासा सोमगिरिप्रभया तपता विवस्वता युक्तदेश इव सूर्यलक्ष्म्या सूर्योपेतदेशश्रिया युक्तः प्रकाशते ॥ ४।४३।५४ ॥

विश्वमतति व्याप्नोतीति विश्वात्मा व्यापकस्तेन विष्णुरूपः । “विष्लृ व्याप्तौ” इत्यनुसारात् । स एव शंभुः शं भवत्यस्मात्स एवैकादशात्मक एकादशानुवाकार्थैकादशरुद्रात्मकः । एवं ब्रह्मा बृंहणत्वाज्जगत्स्रष्टृत्वात् । एवं रूपत्रयात्मा भगवांस्तत्र सोमगिरौ कार्यब्रह्मलोकत्वाद्वसतीत्यर्थः ॥ ४।४३।५५ ॥

नानुक्रामति वै गतिः । तस्य कार्यब्रह्मलोकत्वेन ब्रह्मर्षिव्यतिरिक्तस्य तत्रागतेः । ब्रह्मर्षिपदेन दहरादिमार्गेण ब्रह्मोपासका ऋषय उच्यन्ते ॥ ४।४३।५६ ॥

तदाह– देवानामपि दुर्गम इति ॥ ४।४३।५७,५८ ॥

तत्रापि मतिः क्रियतामिति अन्वेषणायेति भावः ॥ ४।४३।५९ ॥

प्रियमित्यस्य स्वस्येत्यादिः । विदेहजादर्शनजेन कर्मणा विदेहजादर्शनमुद्दिश्य जातेन कर्मणा । अन्वेषणकर्मणेति यावत् ॥ ४।४३।६० ॥

भूतधरा भूतैः प्राणिभिर्ध्रियन्ते ते भूतधराः । प्राणिभिरुपजीव्या इत्यर्थः ॥ ४।४३।६१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४।४३ ॥