अथेति ॥ ४।४२।१ ॥
श्वशुरत्वात्प्राञ्जलिः प्रणम्याब्रवीत् । एतद्विशेषकथनायैव पुनरब्रवीदित्युक्तिः ॥ ४।४२।२ ॥
महर्षिपुत्रं मारीचं महर्षेर्मरीचेः पुत्रम् अर्चिष्मन्तमर्चिष्मदाख्यम् अयं तेषु प्रधानः अर्चिर्माल्याख्या अन्ये ऽपि मरीचिपुत्राः ॥ ४।४२।३ ॥
मारीचशब्दस्य व्युत्पत्त्यन्तरसंभवान्मरीचिपुत्रानित्युक्तम् ॥ ४।४२।४,५ ॥
परिमार्गथ मार्गध्वम् । चन्दचित्रानिति शूरान् । “भीमान्” इति पाठान्तरम् । देशविशेषा इमे ॥ ४।४२।६ ॥
विपुलानि विशालानि । कुक्षिर्देशविशेषः ॥ ४।४२।७ ॥
प्रत्यक्स्रोतोवहाः पश्चिमाभिमुखप्रवाहाः ॥ ४।४२।८ ॥
कान्तारगिरयः कान्तारयुक्ता गिरयः । त्थल्यकृत्रिमा भूः । शिशिराः शीतलाः ॥ ४।४२।९ ॥
तत्रादर्शने ततः किञ्चित्पश्चिमं गत्वा समुद्रं द्रष्टुमर्हथ । तत्र समुद्रं द्रक्ष्यथेति निश्चय एव ॥ ४।४२।१०,११ ॥
कपयो भवत्सैनिकाः ॥ ४।४२।१२,१३ ॥
अवन्त्यङ्गलेपे पुर्यौ । आलक्षिताख्यं वनम् ॥ ४।४२।१४ ॥
महाद्रुमो महान्तो द्रुमा यस्मिन् सः ॥ ४।४२।१५ ॥
सिंहास्तदाख्याः पक्षगमाः पक्षिणः स्थिताः ते पक्षिणस्तिमिमत्स्यगजान्नीडानि स्ववासस्थानान्यारोपयन्ति प्रापयन्ति ॥ ४।४२।१६,१७ ॥
तोयपूर्णे प्रस्थे ॥ ४।४२।१८ ॥
कोटिं शृङ्गम् । समुद्रस्य मध्ये इति शेषः ॥ ४।४२।१९,२० ॥
घोराणाम्, अत एव पापकर्मणां संहर्तृ़णाम् । पावकार्चिःप्रतीकाशाः कोट्यः समवेता इत्यन्वयः ॥ ४।४२।२१ ॥
नात्यासादयितव्या न द्रष्ट्व्या नापराद्धव्या वा । नादेयं न ग्राह्यम् ॥ ४।४२।२२,२३ ॥
यत्नः कर्तव्यः मार्गण इति शेषः । ननु पापकारित्वात्तदनासादने कथं तत्र मार्गणसंभवः अत आह नहि तेभ्य इति । तद्देशे मृगपक्ष्यादिवत्प्राकृतमृगस्वभावे तिष्ठतामित्यर्थः, अत एव नापराद्धव्या इति पूर्वं व्याख्याताम् ॥ ४।४२।२४ ॥
वैदूर्यवर्ण आभा च यस्य सः । वज्रवत्कटिनसंस्थानेन संस्थितः ॥ ४।४२।२५ ॥
समुदितः प्रतिष्ठितः । समम् आयामतो विस्तारतश्च शतयोजन इत्यर्थः ॥ ४।४२।२६ ॥
चर्तुभागे चतुर्थभागे गत इति शेषः ॥ ४।४२।२७ ॥
तत्र चक्रवत्पर्वते । पञ्चजनं तदाख्यम्, हयस्येव ग्रीवा यस्य तं च ॥ ४।४२।२८३० ॥
तत्र वराहपर्वते । जातरूपं स्वर्णम् ॥ ४।४२।३१,३२ ॥
काञ्चनान्तरदर्शनं काञ्चनगर्भा अन्तरा निर्दरा यस्मिंस्तस्य दर्शनं भविष्यतीति शेषः ॥ ४।४२।३३ ॥
तं प्राप्य स्थिता गजादयस्तेन शब्देन स्वध्वनिजप्रतिध्वनिशब्देन दर्पिताः सर्वतो ऽभिगर्जन्ति ॥ ४।४२।३४ ॥
सः सौवर्ण इत्युक्तः ॥ ४।४२।३५३७ ॥
तेषां षष्टिसहस्रपर्वतानां मध्ये राजेव मेरुवत्काञ्चनः पर्वतो ऽस्ति एनं सावर्णिमेरुरिति वदन्ति ॥ ४।४२।३८ ॥
कीदृशो वरस्तात्राह– तेनैवमिति । आदित्येनैवमुक्त इत्येवंशब्दार्थः सर्व एवेति ॥ ४।४२।३९ ॥
ते भक्ताः मयीति शेषः । काञ्चनप्रभाश्च भविष्यन्ति ॥ ४।४२।४० ॥
विश्वेदेवादयस्तमुत्तमपर्वतं मेरुं सावर्णिमेरुमागत्य तत्र स्थित्वा पश्चिमां सन्ध्यां प्राप्यादित्यमुपतिष्ठन्तीत्यग्रिमेणान्वयः ॥ ४।४२।४१ ॥
इतः पूर्वभागस्था अनुक्ता अपि द्वीपा विचेतव्या इत्यर्थतः सिद्धम् ॥ ४।४२।४२ ॥
ततः परं दशयोजनसहस्रे ऽस्ताचल इत्याह– योजनानामिति । तान्युक्तसङ्ख्यायोजनानि अतीत्येति शेषः । मुहूर्तार्धमेका घटी तया तं शिलोच्चयमस्तमभियाति ॥ ४।४२।४३ ॥
अथ वरुणपुरवर्णनम्– शृङ्ग इति ॥ ४।४२।४४,४५ ॥
दशशिरा दशस्वन्धः ॥ ४।४२।४६,४७ ॥
यत्र मेरौ ब्रह्मणा समो महामेरुवर्तिप्रजापतिसमः ॥ ४।४२।४८ ॥
मैथिलीं प्रति प्रवृत्तिं मैथिलीसंबन्धिप्रवृत्तिं प्रष्टव्य इत्यन्वयः ॥ ४।४२।४९ ॥
एतावदुदयाचलमारभ्य मेरुसावर्णिपर्यन्तम् ॥ ४।४२।५०,५१ ॥
निवर्तत निवर्तध्वम् ॥ ४।४२।५२,५३ ॥
दिष्टं सन्दिष्टम् ॥ ४।४२।५४ ॥
प्रमाणं कर्तव्याकर्तव्यनिश्चायकाः । अथाप्येनं सुषेणं प्रमाणं संस्थाप्य ॥ ४।४२।५५ ॥
कृतस्य प्रतिकर्मणोपकारप्रत्युपकारेण अस्य कार्यस्येति । रावणवधान्तरामकार्यस्येत्यर्थः ॥ ४।४२।५६,५७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥ ४।४२ ॥