तत इति । अभिलक्षितान्कार्यसमर्थत्वेन निर्मितान् ॥ ४।४१।१३ ॥
अयं सुषेणस्तारापितुरन्यः । हुताशनसुताविति अग्नित्वव्याप्यं हुताशनत्वमित्यग्निहुताशनयोर्भेदः ॥ ४।४१।४ ॥
विशेषविदन्वेष्टव्यदेशविशेषवित् ॥ ४।४१।५ ॥
अग्रेसरं मुख्यम् । “असङ्ग्रहम्” इति पाठे ऽसङ्कोचप्रभुमित्यर्थः । दक्षिणां दिशमादिशत् अन्वेष्टव्यत्वेनेति शेषः ॥ ४।४१।६ ॥
तस्यां दिशि ये दुर्गमास्तान्समुदाहरदुवाच ॥ ४।४१।७ ॥
अत्राप्यार्यावर्तापेक्षया दक्षिणत्वम् । तदाह सहस्रशिरसं सहस्रशिखरम् ॥ ४।४१।८ ॥
गोदावरीं विन्ध्यपूर्वप्रदेशवर्तिगोदावरीं नदीम् । मेखलादयो देशभेदाः ॥ ४।४१।९ ॥
“ऋष्टिकान्” इति पाठः ॥ ४।४१।१० ॥
मत्स्याश्च कलिङ्गाश्च तान् ॥ ४।४१।११ ॥
नदीं गोदावरीं दण्डकारण्यवर्तिगोदावरीप्रदेशम् ॥ ४।४१।१२ ॥
अयोमुख इति मलयस्य नामान्तरम् सुचन्दनवनत्वलिङ्गात् ॥ ४।४१।१३,१४ ॥
तस्यायोमुखपर्यायस्य ॥ ४।४१।१५ ॥
अगस्त्यमिति यद्यपि पञ्चवटीत उदग्भागे ऽगस्त्याश्रमः पूर्वमुक्तस्तथाप्यत्रापि बोध्यः । वाल्मीकेरनेकदेशेष्वाश्रमवत्समाननामान्य एवायमित्यन्ये ॥ ४।४१।१६ ॥
ग्राहजुष्टामित्यादि ताम्रपर्णीविशेषणम् चन्दनैः प्रच्छन्नानि द्वीपानि वारि च यस्याः सा प्रच्छन्नद्वीपवारिणी प्रच्छन्नशरीरेति यावत् ॥ ४।४१।१७ ॥
अत एव युवती कान्तेव ॥ ४।४१।१८ ॥
युक्तं पुरप्राकारघटितम् । अर्थे समुद्रतरणरूपे निश्चयं रक्ताशक्तनिश्चयं संप्रधार्यं कृत्वा ॥ ४।४१।१९ ॥
तत्र प्लवनसाधनभूतः पर्वत उपदिश्यते अगस्त्येनेति । सागरे ऽन्तरे सागरखातसंबन्धिन्यन्तरे ऽवकाशे ऽगस्त्येन विनिवेशितः प्रतिष्ठापितो महेन्द्रः पर्वतोत्तमो ऽस्ति । श्रीमान्सुन्दरः ॥ ४।४१।२० ॥
अवगाढः प्रविष्टैकपार्श्वः ॥ ४।४१।२१,२२ ॥
तद्युक्तविशेषणविशिष्टम् । सहस्राक्ष उपैतीत्यनेन महेन्द्राधिष्ठितत्वादन्वर्थनामकत्वं महेन्द्रस्य सूचितम् । अपरे पारे ऽपरे परतीरे । अपरशब्दो विशेषवाची । परतीरविशेषे प्रतिष्ठित इति शेषः । द्वीप इति । उत्तरभागे दक्षिणे लवणसमुद्र इति तस्य द्वीपत्वम् । सगरखातो ऽप्येकदेशेनोदग्भागे च समुद्रसंबद्धः ॥ ४।४१।२३ ॥
दीप्तः स्वर्णभूयिष्ठत्वात्तत्र द्वीपे सर्वात्मना सर्वप्रकारेण । विशेषत एकदेशमप्यनुपेक्ष्य ॥ ४।४१।२४,२५ ॥
समुद्रसंबद्धत्वात्सागरो ऽपि समुद्रत्वेन समुद्रश्च सागरत्वेन व्यवह्रियत इत्यविरोधः । तस्य तु रावणस्य तु भोजनी भोक्तुशीला? ॥ ४।४१।२६ ॥
संशयान्संशयविषयान्देशान्निःसंशयान्सम्यगन्वेषणेन कृत्वा, ततो नष्टसंशया आप्तसत्त्वासत्वनिश्चयास्तत्रासत्वे सति तं लङ्काद्वीपमतिक्रम्य मृगयध्वम् ॥ ४।४१।२७ ॥
क्व मार्गणीया तत्राह– लक्ष्मीवानिति ॥ ४।४१।२८,२९ ॥
तस्य काञ्चनं शृङ्गमस्ति । यं भगवान्सूर्यः सेवते नित्यं संनिहितो भवति । शृङ्गशब्दो ऽर्धर्चादिः । अतश्चन्द्रसूर्याधिष्टितत्वात्तं कृतघ्ना न पश्यन्ति ॥ ४।४१।३०,३१ ॥
चतुर्दशेति तैरुपलक्षित इत्यर्थः ॥ ४।४१।३२३४ ॥
तत्र कुञ्जरपर्वते । अगस्त्यभवनवर्णनम्– योजनेत्यादि । इदं तृतीयमगस्त्यस्थानम् ॥ ४।४१।३५ ॥
शरणं गृहम् अगस्त्यस्येति शेषः । तत्र कुञ्जरपर्वत एव । आलयशब्दो नित्यं पुल्लिङ्गः । यद्यपि भोगवती रसातले प्रसिद्धा, तथापि रावणस्य जनस्थानवत्सर्पाणामपि भोगवत्याख्यपुरं भूमावप्यस्तीति वासुकेर्भुव उपर्यपि योगवैभवात्स्थितिरिति चेत एवावगन्तव्यम् । यथा ऽगस्त्यस्य कुञ्जरपर्वतावच्छिन्ने विश्वकर्मनिर्मितभवने नक्षत्रपदे मलये पञ्चवटी दक्षिणभागे च वासस्तथेति ध्येयम् ॥ ४।४१।३६,३७ ॥
निर्याय विशेषतो गत्वा ॥ ४।४१।३८ ॥
समावृता गुप्तास्ते च मार्गितव्याः । ऋषभसंस्थितिर्ऋषभाकारसंस्थानवान् ॥ ४।४१।३९ ॥
गोशीर्षकादयश्चन्दनभेदाः ॥ ४।४१।४०,४१ ॥
तच्चन्दनास्प्रष्टृत्वे हेतुः– रोहिता इति ॥ ४।४१।४२,४३ ॥
ततः ऋषभात्परतः पृथिव्या अन्ते पुण्यकर्मणां निवासस्तत्र स्वर्गजित एव स्थिता भवन्ति, अतो हतोस्ततः परं पितृलोको न सेव्यो ऽगम्यः ॥ ४।४१।४४४७ ॥
बहुशः कृतापराधो ऽपीत्यर्थः ॥ ४।४१।४८ ॥
लभध्वं लप्स्यध्वम् । तथा तत्कार्यमुद्दिश्याधिगुणमधिकगुणोपेतं पुरुषार्थं पुरुषयत्नमारभध्वम् ॥ ४।४१।४९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥ ४।४१ ॥