अथेति ॥ ४।४०।१ ॥
विनिविष्टाश्चेति स्वस्वसेनानिवेश इति शेषः, निवेशिता इत्यर्थः । मद्विषयवासिनो मम विषये वानरराज्ये वासिनः ॥ ४।४०।२ ॥
बहुविक्रान्तैर्बहुषु स्थलेषु कृतपराक्रमैः अत एव भीमविक्रमैः स्वयूथैः सहेति शेषः ॥ ४।४०।३ ॥
ख्यातं कर्मणि युद्धे ऽपदानं शौर्यं येषाम् ॥ ४।४०।४ ॥
अम्बुचराः समुद्रमध्यद्वीपचराः । कोट्योघा इत्यसङ्ख्यत्वोपलक्षणम् ॥ ४।४०।५ ॥
गुरुहिते स्वामिहिते तवाभिप्रेतमनुष्ठातुं शक्ष्यन्ति समर्था इत्यर्थः ॥ ४।४०।६ ॥
अनेकैः सहेति शेषः ॥ ४।४०।७ ॥
प्राप्तकालं कालोचितं तदुच्यताम् । मन्नियोगः कार्य इत्यर्थः । नन्विदं त्वत्सैन्यं न मन्नियोज्यतामर्हति तत्राह– त्वत्सैन्यमिति ॥ ४।४०।८ ॥
इदं कार्यं सीतान्वेषणरूपम् ॥ ४।४०।९११ ॥
तस्मिन्काले वृत्तान्तावगत्यनन्तरकाले ॥ ४।४०।१२ ॥
अस्मिन्कार्ये वानरप्रेषणरूपे । अस्य कार्यस्येति सिद्धेरिति शेषः ॥ ४।४०।१३ ॥
मम कार्यविनिश्चयं ज्ञात्वेति शेषः । हे वीर त्वं मम सुहृदित्यन्वयः ॥ ४।४०।१४ ॥
द्वितीयः सुहृल्लक्ष्मणापेक्षया ॥ ४।४०।१५,१६ ॥
सोमसूर्यनिभैस्तत्सदृशकान्तिभिः ॥ ४।४०।१७ ॥
नयो नीतिः । विज्ञः तज्ज्ञस्त्वमिति शेषः ॥ ४।४०।१८ ॥
निलयं रावणस्य निलयस्थानम् । यद्वा चतुर्दिक्षु रावणवासस्थानमनेन सूचितम् ॥ ४।४०।१९ ॥
मार्गध्वमिति सामान्यतो नियोगः । विशेषेणाह– नदीमित्यादि । द्वितीयान्तानां प्राप्येति शेषः ॥ ४।४०।२० ॥
कालिन्दीं यमुनाम् । यामुनो गिरिर्यमुनोत्पत्तिस्थानभूतः कलिन्दगिरिः ॥ ४।४०।२१ ॥
महीकालमह्यौ नद्यौ । अथ प्राच्यदेशानाह– ब्रह्ममालानिति । हिमवद्विन्ध्यमध्यवर्त्यार्यावर्तापेक्षया प्राच्यादिविभागो ऽत्र विवक्षित इत्याहुः ॥ ४।४०।२२ ॥
कोशकाराणां भूमिं कौशेयकतन्तूत्पादकजन्तूत्पत्तिस्थानभूतां भूमिम् । रजताकरां रजतखनिम् ॥ ४।४०।२३ ॥
एतानि प्राप्य एतत्पूर्वोक्तं सर्वं सर्वावयवं विचेतव्यम् । तत्र किं विचेतव्यं तत्राह– रामस्य दयितामिति ॥ ४।४०।२४ ॥
समुद्रमवगाढान्समुद्रान्तर्गतान् । पत्तनानि समुद्रद्वीपवर्तीनि । आलया ग्रामाः ॥ ४।४०।२५ ॥
कर्णप्रावरणाः प्रावरणं वस्त्रं तद्वद्विशालश्रवणपुटाः ओष्ठकर्णका ओष्ठपर्यन्तकर्णाः । लोहमुखाः लोहवत्कठिनकृष्णमुखाः । एकपादका एकपादकाः सन्तो जवना वेगगतयः ॥ ४।४०।२६ ॥
अक्षया अक्षयसन्तानाः एते उक्ताः पुरुषाः तथैव पुरुषादका रक्षोभेदाः तीक्ष्णसूच्यग्रसदृशतैक्ष्ण्यवती चूडाकेशपाशो येषाम् ॥ ४।४०।२७ ॥
आममीनाशना अपक्वमत्स्यभुजः नरव्याघ्रा अधःप्रदेशे नराकारा एव सन्त उपरिभागे व्याघ्राकाराः, अत एव घोराः ॥ ४।४०।२८ ॥
काननौकस इति संबोधनम् । गिरिभिर्ये च गम्यन्ते गिरीनाकम्य ये देशा द्वीपाश्च गम्यन्ते, ये च प्लवनेन कूर्दनेन गम्यन्ते, ते च प्लवेनोडुपेन गम्यन्ते, ते च विचेया इत्यन्वयः ॥ ४।४०।२९ ॥
ततः परं यत्नवन्तो भूत्वा सप्तराज्योपशोभितं यवद्वीपम्, तथा सुवर्णद्वीपम्, रूप्यकद्वीपम् । निचेतव्यमिति शेषः । सुवर्णकरमण्डितमिति सुवर्णं कुर्वन्ति ये तैः शोभितम् ॥ ४।४०।३० ॥
ततः परं यवाख्यद्वीपमतिक्रम्य शिशिरनामा पर्वतो ऽस्ति ॥ ४।४०।३१ ॥
एतेषामुक्तद्वीपानाम् ॥ ४।४०।३२ ॥
ततः समुद्रस्य पारं गत्वा रक्तवर्णजलम्, अत एव शोणाख्यं नदं प्राप्य ॥ ४।४०।३३ ॥
तस्य तीर्थेष्ववतारभेदेषु ॥ ४।४०।३४ ॥
बहुनिष्कुटा बहुपवनप्रदेशाः । दरीमन्तो दरीयुक्ताः ॥ ४।४०।३५ ॥
समुद्रद्वीपानुक्तदेशात्परिवर्तीक्षुसमुद्रद्वीपान् । ऊर्मिमन्तम्, अत एव क्रोशन्तं महाघोषम् ॥ ४।४०।३६ ॥
तत्रेक्षुमुद्रविशेषं समनुज्ञाताः समनुज्ञातच्छायाद्वारकग्रहणसामर्थ्यादिमन्तः, छायागृहीतप्राणिभक्षणानुमतिकाश्च ॥ ४।४०।३७ ॥
इक्षुरसस्यापि श्यामत्वात्तदुदघेः कालमेघप्रतिमत्वम् । तीर्थेनोपायेनाभिगम्य प्राप्य ॥ ४।४०।३८ ॥
ततः इक्षुसागरात्परतः रक्तजलं रक्तवर्णजलम् अत एव लोहिताख्यम् । कूटशान्मलीं शाल्मलीद्वीपत्वप्रयोजकवृक्षम् । जम्बूद्वीपं जम्बूवत् ॥ ४।४०।३९ ॥
तत्र कूटशाल्मलीसमीपे ॥ ४।४०।४० ॥
शैलशृङ्गेषु सुरासमुद्रान्तर्वर्तिशैलशृङ्गेषु लम्बन्ते अधोमुखा इति शेषः ॥ ४।४०।४१ ॥
सूर्यस्योदयनं प्रति सूर्योदयं प्राप्योर्ध्वमुखाः सूर्येण युध्यमानाः सूर्येणाभितप्तास्तन्मण्डलब्रह्मतेजोभितप्ताः ब्रह्मतेजोभिरहन्यहनि त्रैवर्णिकप्रवर्तितैर्ब्रह्मविद्यातेजोभिर्निहताः सन्तः सुरोदजले पतन्ति । ततः पुनरुज्जीविता लम्बन्ते स्म । शैलशृङ्गेष्विति शेषः । अत्र कतककृतः “शैलशृङ्गेषु लम्बन्ते” इत्यादि श्लोकद्वयं प्रक्षिप्तम् । “तानि रक्षांसि मन्देहारुणे द्वीपे प्रक्षिपन्ति” इति श्रुतावरुणद्वीपे तत्प्रक्षेपोक्तेरत्रारुणद्वीपप्रसङ्गाभावात्प्राचीनपुस्तकेष्वदर्शनाच्चेत्याहुः । ततः– पाण्डुरेति । अत्र सुराक्षीरोदयोर्मध्ये सर्पिर्दधिसमुद्रयोर्विवेचनानुक्तिस्तत्र विचेतव्यदुर्गस्थलाभावादिति कतकः । अनुक्तमपि तदुभयविवेचनमर्थतो ऽवगन्तव्यमिति तीर्थः ॥ ४।४०।४२,४३ ॥
मुक्ताहारमिव ऊर्मिभिस्तद्वन्तमिवेत्यर्थः ॥ ४।४०।४४ ॥
सरश्च नाम्ना सुदर्शनमित्यन्वयः ॥ ४।४०।४५ ॥
नामशब्दः प्रसिद्ध्यर्थः ॥ ४।४०।४६ ॥
नलिनीयुक्तं सुदर्शनं सर इत्यर्थः ॥ ४।४०।४७ ॥
जलोदं शुद्धजलरूपोदकम् । तत्र जलसमुद्रे तत्कोपजमौर्वब्रह्मर्षिकोपजं हयमुखं वडवामुखं तेजो ब्रह्मणा कृतमस्ति ॥ ४।४०।४८ ॥
अस्याद्भुतं महावेगं सचराचरं सर्वं जगद्युगान्ते ओदनं वदन्ति अनेन तस्य ब्रह्मरूपता सूचिता । तद्वडवामुखं दृष्ट्वा तत्र पतनमीत्या विक्रोशतामसमर्थानाम्, चात्समर्थानामपि, सागरौकसां भूतानां यो नादो ऽभूत्सः श्रूयते ॥ ४।४०।४९ ॥
स्वादूदस्य शुद्धोदकस्य समुद्रस्य । “उत्तरे तीरे” इति पाङ्क्तः पाठः ॥ ४।४०।५० ॥
चन्द्रप्रतीकाशं श्वेतवर्णम् ॥ ४।४०।५१,५२ ॥
त्रिशिराः शिरःप्रदेशवर्तित्रिस्कन्धवान् । सवेदिक आधारवेदिबन्धसहितः ॥ ४।४०।५३ ॥
अयमेव तालः पूर्वस्यां दिशि पूर्वदिग्व्यवस्थाया निर्माणं कृतम् अभिज्ञाशङ्कुवत्प्रमाणनिर्माणं कृतमित्यर्थः ॥ ४।४०।५४ ॥
कोटिः शिखरम् सवेदिका साधारपर्वता ॥ ४।४०।५५,५६ ॥
तत्र शतयोजनदीर्घे उदयगिरिशिखरे ॥ ४।४०।५७ ॥
तत्र सौमनसे शृङ्गे । त्रिविक्रमे त्रिभिः पदैस्त्रिलोक्या आक्रमणप्रस्तावे प्रथमं पदं तत्र कृत्वा द्वितीयं पदं मेरोः शिखरे चकार ॥ ४।४०।५८ ॥
अस्तानन्तरमुत्तरेण जम्बूद्वीपं परिक्रम्य तन्महोच्छ्रयं शिखरं सौमनसाख्यं प्राप्य स्थितो दिवाकरो जम्बूद्वीपवर्तिनां भूयिष्ठं दृश्यो भवति । सौमनसे शिखरे इत्यर्थः । इदं सत्ययुगाभिप्रायम् । त्रेतायां क्षीरसागरमध्यगस्य द्वापरे सुरोदमध्यगस्य कलौ लङ्कामध्यगस्य जम्बूद्वीपस्थमनुष्यदृश्यताया अन्यत्रोक्तत्वात् ॥ ४।४०।५९,६० ॥
यस्य पुरः पुरस्तात्समीपे एवायं प्रागुक्तसुदर्शनसरश्चिह्नो द्वीपः प्रकाशते, तस्मिन्सौमनसशिखरे भगवत्युदिते सर्वप्राणभृतां प्राणिनां तेजःसंबन्धो भवति, चक्षुश्च प्रकाशते ॥ ४।४०।६१,६२ ॥
काञ्चनशैलस्य सूर्यस्य च तेजसा ऽ ऽविष्टा समाक्रान्ता पूर्वा सन्ध्योदयावच्छिन्ना पूर्वा दिग्रक्ता सती प्रकाशते ॥ ४।४०।६३ ॥
तदेवाह पूर्वमिति । चो हेतौ । यतो भुवनस्य प्रकाशनहेतोः सूर्यस्योदयनमवेक्ष्य पूर्वं प्रथमं पृथिव्या एतद्द्वारमूर्ध्वस्थानां पृथिवीप्रवेशस्य द्वारं पृथ्वीस्थानां भुवनस्य ब्रह्मभुवनस्य प्रवेशद्वारमेतदुदयगिरिरूपं कृतम्, अत एषा पूर्वा दिगुच्यते । अन्ये तु– एतद्द्वारमेतद्दिग्वर्ति महद्भूविवरं सृष्टं ब्रह्मणा, तस्मादेषा पूर्वा दिगुच्यते ॥ ४।४०।६४ ॥
तस्य शैलस्योदयशैलस्य ॥ ४।४०।६५ ॥
ततः परमुदयाद्रेः पुरस्तात्त्रिदशावृता तद्दिगधिष्ठात्रिन्द्रादित्रिदशाधिष्ठिता । उदयाचलात्परमगम्यत्वे हेतुमाह– रहितेति ॥ ४।४०।६६ ॥
उक्तार्थोपसंहारः– शैलेष्वित्यादि ॥ ४।४०।६७६९ ॥
सिद्धार्थाः कृतान्वेषणकृत्याः ॥ ४।४०।७०,७१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥ ४।४० ॥