इतीति ॥ ४।३९।१ ॥
उपकर्तृत्वं तव सहजधर्म एवेति भगवान्सुग्रीवं स्तैति यदिति । वर्षत इति यत्तन्न चित्रम् स्वाभाविकत्वादिति शेषः ॥ ४।३९।२ ॥
निर्मलां रविकिरणजतापरहिताम् । त्वद्विधः सात्त्विको मित्राणां प्रत्युपकारेण प्रीतिं कुर्यादिति यत्तदपि न चित्रम् ॥ ४।३९।३ ॥
एवं त्वयि मित्रप्रत्युपकारार्थं सेनामेलनं यत्तन्न चित्रम् । हे सौम्य शोभनं भद्रं जातम् ॥ ४।३९।४ ॥
सङ्ख्ये युद्धे ॥ ४।३९।५ ॥
यथा पौलोमीपितरं वञ्चयित्वा कृतानुमतिकं कृत्वा शचीं यो ऽनुह्लादो जहारात्मविनाशाय । इन्द्रस्तत्पितरमनुमन्तारं हर्तारं चानुह्लादं हत्वा शचीं प्रत्यनीतवानिति पुराणगाथा । एवं य आत्मविनाशाय मैथिलीं जहार मारीचेन मां वञ्चयित्वा तं न चिराच्छीघ्रमरिहेन्द्र इव वधिष्यामि । पौलोम्याः पितरमिवेत्यनेन रावणकृतो जानक्यतिक्रमाभावः सूचितः ॥ ४।३९।६,७ ॥
अभिवर्तताभ्यवर्तत ॥ ४।३९।८१० ॥
उक्तमेव प्रपञ्चयति निमेषेति ॥ ४।३९।११ ॥
वनवासिभिः उक्ततालादिवनवासिभिः ॥ ४।३९।१२ ॥
हेमा हेमाचलः ॥ ४।३९।१३,१४ ॥
तारापिता सुषेणः ॥ ४।३९।१५ ॥
रुमापिता तारः ॥ ४।३९।१६१८ ॥
गोलाङ्गूलो वानरावान्तरजातिः ॥ ४।३९।१९२९ ॥
ताराद्युतिर्नक्षत्रप्रभः । अयं रुमापितुरन्यस्तारः ॥ ४।३९।३०४० ॥
शिरोभिर्न्यवेदयन् बहुसंमर्दाद्दूरे स्थित्वा नमस्कारेणैवात्मानं न्यवेदयन्नित्यर्थः ॥ ४।३९।४१ ॥
अपरे सङ्गम्य समीपदेशं प्राप्य यथोचितं निवेद्य जग्मुः । अपरे हनूमदङ्गदादयः समागम्य निकटमागत्य स्थिताः ॥ ४।३९।४२ ॥
धर्मज्ञो राजधर्मज्ञः रामाभिमुखं प्राञ्जलिः स्थितो भूत्वा सर्वान्यूथपतीन्निवेदयित्वा यूथपानब्रवीत् ॥ ४।३९।४३ ॥
भो वानरेन्द्राः पर्वतादिषु यथासुखं स्वानि बलानि निवेशयित्वा तेषु यो बलज्ञो बलतत्त्वज्ञः प्रतिपत्तुं क आगतः को नागत इति ज्ञातुमीष्टे ईशो भवेत् । लिङर्थे लट् ॥ ४।३९।४४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥ ४।३९ ॥