०३८ राम-सुग्रीवसंवादः

प्रतिगृह्येति ॥ ४।३८।१ ॥

राघवं च कृतार्थमित्यनुषङ्गः ॥ ४।३८।२,३ ॥

विनिष्क्रामेति । प्रार्थने लोट् ॥ ४।३८।४ ॥

स्थेयम् तन्न हातव्यमित्यर्थः ॥ ४।३८।५,६ ॥

एहि एतेत्यर्थः ॥ ४।३८।७ ॥

स्त्रीदर्शनक्षमाः स्त्रीसमूहे ऽपि राजदर्शनक्षमाः अत्याप्ता इति यावत् ॥ ४।३८।८११ ॥

हरिभिर्वाहकैः । सलक्ष्मण इत्येनेनैकवाहनारोहणात्सख्यातिशयः सूचितः ॥ ४।३८।१२१६ ॥

वानराश्च तथाभवन् कृताञ्जलिपुटा अभवन्नित्यर्थः । आह्लादकत्वात्तटाकोपमा तुदपमेयं वानराणां महत्सैन्यम् ॥ ४।३८।१७२१ ॥

वृक्षाग्रे सुप्तः पतितः सन्यथा प्रतिबुध्यते, तथा कामपरो राज्यभ्रष्टः सन्प्रतिबुध्यत इत्यर्थः ॥ ४।३८।२२ ॥

त्रिवर्गो धर्मार्थकामलक्षणस्तस्य तत्फलस्य च यथाकालं भोक्ता ॥ ४।३८।२३ ॥

सञ्चिन्त्यताम् सीतान्वेषणादिप्रतिज्ञापरिपूर्त्युपायश्चिन्त्यतामित्यर्थः ॥ ४।३८।२४,२५ ॥

हे देव तव प्रसादात्तव भ्रातुः प्रसादाच्चेत्यर्थः । पुरुषाणां मध्ये स एव दूषकः धर्मनाशक इत्यर्थः ॥ ४।३८।२६ ॥

आदायाहूय ॥ ४।३८।२७२९ ॥

शतैरित्यादौ “केचित्” इत्यध्याहारः । परिवृता इत्यर्थकम् “आवृताः” इति च सर्वत्र योज्यम् । शतसहस्रं लक्षम् । लक्षशतं कोटिः । दशसहस्रमयुतम् । कोटिलक्षं शङ्कुः ॥ ४।३८।३० ॥

शङ्कुसहस्रमर्बुदम् । अर्बुदाद्दशगुणं मध्यम् तस्माद्दशगुणो ऽन्त्यः ततो विंशतिगुणः समुद्रः ततस्त्रिंशद्गुणः परार्धस्तेनासङ्ख्यत्वमुक्तम् ॥ ४।३८।३१,३२ ॥

ये आनयिष्यन्ति ते त्वामभिगमिष्यन्तीत्यन्वयः ॥ ४।३८।३३ ॥

प्रबुद्धनीलोत्पलतुल्यदर्शनो विकसितनीलोत्पलसदृशनेत्रः ॥ ४।३८।३४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे ऽष्टात्रिशः सर्गः ॥ ४।३८ ॥