अथ सुग्रीवेणापरिमितदूतप्रेषणमनेककोटिनिजसेनासंमेलनम्– एवमिति ॥ ४।३७।१,२ ॥
पर्वतेषूक्तातिरिक्तेषु । तथा पश्चिमस्या तु ये दिशि पश्चिमस्यामित्यार्षम् ॥ ४।३७।३ ॥
आदित्यभवने गिरौ ये स्थिताः उदयाचलास्ताचलयोरित्यर्थः । पद्माचलो गिरिविशेषः ॥ ४।३७।४,५ ॥
महाशैलस्तदाख्यपर्वतः ॥ ४।३७।६,७ ॥
तापसाश्रमरम्येषु रम्यतापसाश्रमेषु । यद्वा तै रम्येष्विति वनविशेषणम् ॥ ४।३७।८ ॥
क्षिप्रमानयेत्युक्ते मयैव गन्तव्यमित्याशङ्क्याह– “सामदानादिभिः कल्पैर्वानरैर्वेगवत्तरैः” इत्यादिना दुष्टे दण्डः । कल्पैरुपायैः । आनयेत्यस्य चानाययेत्यर्थ इति कतकः ॥ ४।३७।९ ॥
ननु प्रेषिता एव पूर्वं दूता इत्यत्राह– प्रेषिता इति । प्रथमं पूर्वं ये महाजवा दूताः प्रेषितास्ते मया ज्ञाता एव, तथा ऽपि तेषां त्वरणार्थमपरान्हरीश्वरान्प्रेषय ॥ ४।३७।१० ॥
कामेषु तद्भोगेषु प्रसक्ता ये च दीर्घसूत्रा विलम्बितव्यापाराः आनयस्वानायय ॥ ४।३७।११ ॥
ये दूताः ॥ ४।३७।१२ ॥
प्रेषणीयदूतसङ्ख्यामाह– शतानीति । एतेन दूतानन्त्यमुक्तम् ॥ ४।३७।१३ ॥
तदेव स्पष्टयति छादयन्त इवाम्बरमिति ॥ ४।३७।१४ ॥
गतिं गत्वा वेगवत्तरां गतिं गत्वा ॥ ४।३७।१५,१६ ॥
विष्णुविक्रान्तं पदमाकाशम् । पतत्रिज्योतिरध्वगाः पक्षिणां नक्षत्राणां च मार्गगाः ॥ ४।३७।१७,१८ ॥
मृत्युकालोपमस्य निग्रहविषय इति शेषः ॥ ४।३७।१९ ॥
तस्माद्गिरेरञ्जनगिरेः ॥ ४।३७।२०२४ ॥
असङ्ख्यं बलमित्याह– तेषां सङ्ख्या न विद्यत इति ॥ ४।३७।२५,२६ ॥
ये च त्वरयितुं याता हनुमत्प्रेषिता महाद्रुममतिप्रसिद्धभगवद्धामभूतं माहेश्वरयज्ञवाटस्थं ददृशुः । पूर्वं नीलप्रेषितान्दूतांश्च ददृशुरिति शेषः । अतस्तेषां तत एव परावृत्तिः ॥ ४।३७।२७ ॥
माहेश्वरो यज्ञो महेश्वरदेवत्यो दिव्यो ऽश्वमेध इति कतकः । सर्वदेवानां मनस्तोषो यत्र सः ॥ ४।३७।२८ ॥
अन्ननिस्यन्दाद्धोमद्रव्याज्यादिस्रवणाज्जातानि ॥ ४।३७।२९,३० ॥
औषधानि सञ्जीवन्यादीनि ॥ ४।३७।३१,३२ ॥
ते तु सर्वे दूतरूपा यूथानामग्रतः स्वप्रेरितबलानामागमनात्पूर्वमित्यर्थः ॥ ४।३७।३३,३४ ॥
ते हनुमत्प्रेष्यसहिता नीलप्रेषिता दूताः ॥ ४।३७।३५३७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥ ४।३७ ॥