इतीति ॥ ४।३६।१ ॥
तस्मिंस्तारानुनयवाक्ये ॥ ४।३६।२ ॥
माल्यं मालाम् । बहुगुणं बहुविधकाममदकरम् अत एव तच्छेदफलं विमदश्चासीदिति ॥ ४।३६।३ ॥
लक्ष्मणं संप्रहर्षयन्नित्यन्वयः ॥ ४।३६।४,५ ॥
शक्तः समर्थः । तस्य देवावतारस्य स्वेन कर्मणा धनुर्भङ्गवालिवधादिना ख्यातस्य । तादृशं तज्जनितोपकारसदृशम् ॥ ४।३६।६ ॥
सहायमात्रेणोपलक्षितम् । स्वयमेवार्थनिर्वाहकः, अहं तु परिकरमात्रमित्यर्थः ॥ ४।३६।७ ॥
सहायकृत्यं सहायसाध्यं कृत्यम् चेन पातालानि तत्स्थदैत्याश्च ॥ ४।३६।८,९ ॥
अनुयात्रां पश्चाद्गमनम् । सपुरःसरं युद्धाग्रे पुरःसरैः सहितं रावणम् ॥ ४।३६।१० ॥
विश्वासादयं न क्रूरो ऽमित्र इति विश्वासात्प्रणयेन वा यदि किञ्चिदतिक्रान्तमपराद्धं तदुक्तहेतुभ्यां प्रेष्यस्य दासस्य क्षमितव्यं क्षन्तव्यम् । यस्माद्यो दासो नापराध्यति तादृशदासासंभवः । स्वामिचित्तानुवर्तनस्य सर्वथासंभवात् ॥ ४।३६।१११३ ॥
शौचमिन्द्रियनिग्रहः ॥ ४।३६।१४,१५ ॥
उपपन्नं योग्यम् । युक्तं युक्तियुक्तम् ॥ ४।३६।१६ ॥
दोषज्ञो विद्वान्को रामसुग्रीवाभ्यामन्यो भवद्वाक्यसदृशं वाक्यं वक्तुमर्हति ॥ ४।३६।१७,१८ ॥
वयस्यं रामम् ॥ ४।३६।१९ ॥
स्वोक्तवाक्यानां रामोक्तत्वशङ्काव्यावृत्तये स्वोक्तित्वमेव बोधयन्स्वापराधं क्षमापयति यच्चेति । रामभाषितं सीतावियोगजविलापरूपम् ॥ ४।३६।२० ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥ ४।३६ ॥