॥ ४।३५।१ ॥
तवेति । तव सुहृदो वक्त्रात् मुखादित्यर्थः ॥ ४।३५।२ ॥
नार्हतीत्यत्र हेतुः– नैवेत्यादि । अनृतकथो ऽनृतवाक् ॥ ४।३५।३५ ॥
यदि न कृतघ्नः, कथं तर्हि कालात्ययानभिज्ञस्तत्राह सुदुःखेति । सुतरामनुभूतदुःखः । प्राप्तकालमवश्यं कर्तव्यम् ॥ ४।३५।६ ॥
घृताच्यामिति । अहो दिनम् । यद्यपि पूर्वं बालकाण्डे मेनकासंबन्ध उक्तस्तथाप्येतद्वचनाद्घृताचीसंबन्धो ऽपि तस्य ज्ञेय इत्याहुः ॥ ४।३५।७,८ ॥
देहधर्मा आहारनिद्रामैथुनानि । “पशुधर्म” इति पाठे ऽप्ययमेवार्थः ॥ ४।३५।९ ॥
निश्चयार्थं कर्तव्यार्थनिश्चयम् ॥ ४।३५।१०,११ ॥
रोषेण समुत्पन्नः संरम्भः क्षोभः ॥ ४।३५।१२१४ ॥
कथमयं रावणं हनिष्यतीत्यत्र तत्साहाय्यकसाध्यत्वात्तद्वधस्येत्याह शतेति । एषा सङ्ख्या विवक्षितैव । दशकोटिः समुद्रः शतकोटिर्मध्यं मध्यानां सहस्रं तथा षष्टिसहस्राधिकत्रिलक्षाणि तदुपरि षट्त्रिंशत्सहस्राणि तदुपरि तावन्ति शतनीत्यर्थः ॥ ४।३५।१५,१६ ॥
तावतां वधे परमशूरस्यापि सहायापेक्षास्तीत्याह ते इति । यस्मादसहायेन रामेण ते हन्तुमशक्या यस्माद्रावणश्च क्रूरकर्मा क्रूरपराक्रमस्तस्माद्विशेषतः सुग्रीवेण सहायेन प्रयोजनमस्ति । तत्समप्रतिसेनाघटनस्य सुग्रीवाधीनत्वात्सर्वेषां मनुष्यावध्यत्वाच्चेति भावः । यत्तु तीर्थः सुग्रीवेण सहायेन ते राक्षसा हन्तुमश्क्याः, रावणश्च हन्तुमशक्यः, इत्यन्वयं कृत्वा वाली किलोक्तवान्रावणवधाय सुग्रीवं वृथा प्रार्थयते रामस्तस्यासावशक्य इति कथां च कल्पयति तदपार्थकम् । रामस्य सहायापेक्षासमर्थनस्यैव प्रस्तुतत्वात् ॥ ४।३५।१७ ॥
नन्वेषा रक्षःसङ्ख्या त्वया कथं ज्ञाता तत्राह एवमिति । आगमस्तु न मे व्यक्तः, रावणस्यैवं बलप्राप्तिप्रकारस्तु न मया ज्ञातः सङ्ख्यामात्रं प्रङ्गात्पूर्वं श्रुतम् । तस्य श्रवणात्तन्मुखतो वाक्यश्रवणात् ॥ ४।३५।१८ ॥
ननु सहायसंपत्तिप्रवृत्तेरस्मिन्नदर्शनात्कोपो नस्तत्राह त्वदिति ॥ ४।३५।१९ ॥
राघवार्थं तान्प्रतीक्षमाणस्तिष्ठति, अत एवेदानीं न निर्याति ॥ ४।३५।२० ॥
ते तर्हि कदागमिष्यन्ति तत्राह कृतेति । सुसंस्था शोभनागमनकालमर्यादा पुरा पूर्वं दूतप्रेषणसमये यथा कृता तथा तैः सर्वैरद्यागन्तव्यम् ॥ ४।३५।२१ ॥
रक्षः सेनापेक्षया स्वसेनाधिक्यमाह– ऋक्षेति । शतकोटिर्मध्यं तद्दशगुणात्मिका
सहस्रकोटिस्तत्सङ्ख्या ऋक्षाः गोलाङ्गूलानां शतानि च शतकोटिः अन्ये कपयो ऽनेकाः कोट्यः असङ्ख्या इत्यर्थः ॥ ४।३५।२२ ॥
प्रथमभयस्य तत्सदृशभयस्य वालिवधवत्सुग्रीववधभयस्य । षष्ठ्यार्षी ॥ ४।३५।२३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥ ४।३५ ॥