तमिति । अप्रतिहतं केनाप्यप्रतिबद्धम् ॥ ४।३४।१,२ ॥
महान्महेन्द्रध्वजो यथालङ्कृतः ॥ ४।३४।३ ॥
अनूत्पेतुः पश्चादुत्थितवत्यः ॥ ४।३४।४ ॥
सञ्चचार संमुखमाजगाम । अवस्थितो बभूवेत्यस्य लक्ष्मण इति शेषः । कल्पवृक्षोपमया सर्वहितत्वं व्यङ्ग्यम् ॥ ४।३४।५ ॥
सतारं शशिनमिव स्थितम् ॥ ४।३४।६ ॥
सत्त्वाभिजनाम्यां संपन्नः । तल्लक्षणानि सानुक्रोशत्वादीनि ॥ ४।३४।७ ॥
अधर्मे स्थित इत्यन्वयः अधर्ममार्गस्थः । नृशंसतरः क्रूरतरः ॥ ४।३४।८ ॥
प्रकृतोपयुक्तमसत्यदोषमाह शतमिति । एकाश्वनिमित्तके ऽनृते दानादिप्रतिज्ञाविघाते सति सो ऽनृतवाक् । शतं हन्ति शताश्वहननदोषभाक् । गोविषयानृते गोसहस्रहननभाक् । एवं पुरुषानृते पुरुषविषयकिञ्चित्प्रतिज्ञाहानौ स पुरुषः प्रथममात्मानं हन्त्यात्मघातदोषभाक् । निजं पुण्यलोकं नाशयति वा । तथा स्वजनस्य पित्रादेः पुण्यलोकं च नाशयति ॥ ४।३४।९ ॥
अथ कृतघ्नदोषमाह– पूर्वमिति । कृतार्थः मित्रैरिति शेषः । सर्वभूतानां सर्वलोकानां वध्यः सर्वलोकबहिष्कार्य इत्यर्थः ॥ ४।३४।१० ॥
नायमर्थः स्वकल्पनामात्रकल्पित इत्याह गीत इति । ब्रह्मणा हिरण्यगर्भेणायं श्लोकः पूर्वोक्तः सर्वलोकनमस्कृतः ब्रह्मवदेव सर्वस्मर्तृसंमत इत्यर्थः । अथ रामवचनमाह त्वां कृतघ्नं दृष्ट्वा क्रुद्धेन रामेण यदुक्तं तच्छृणु ॥ ४।३४।११ ॥
किं तत्तत्राह गोघ्न इति ॥ ४।३४।१२ ॥
कुतो ऽहं कृतघ्नस्तत्राह पूर्वमिति ॥ ४।३४।१३ ॥
मिथ्यावादित्वं दर्शयति– नन्विति । यत्नः प्राक्प्रतिज्ञातः । कृतमिच्छता कृतस्य प्रतिकृतं कर्तुमिच्छता ॥ ४।३४।१४ ॥
मण्डूकराविणं स्वगृहीतमुखस्थमण्डूकशब्देन शब्दवन्तं सर्पं यथा जनो ऽनवलोकनान्मण्डूकमेव जानीते, न तु सर्पम्, तथा तव स्वरूपं रामो नाज्ञासीदिति भावः । कश्चित्तु– मण्डूकग्रहणार्थं सर्पो मण्डूकवद्रौति तेन स्वरेण स्वगण इति विस्रब्धः स्वसमीपमागतो मण्डूकस्तेन गृह्यते । एवं वञ्चकं त्वां नाज्ञासीदित्यर्थ इत्याह । तत्तु तथालोकाप्रसिद्ध्योपेक्ष्यम् ॥ ४।३४।१५ ॥
पापस्त्वमित्यन्वयः ॥ ४।३४।१६१८ ॥
शरान्नूनं न पश्यसि, यतो ग्राम्यसुखं निषेवसे तेन च सुखी सन्रामकार्यं मनसापि नावेक्षसे ॥ ४।३४।१९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥ ४।३४ ॥