अथैवं हनुमद्वचनानन्तरम् । प्रतिसमादिष्टो ऽङ्गदात्प्रतिसन्देशं प्राप्तः ॥ ४।३३।१ ॥
स्थिता हरयः प्राञ्जलयो बभूवुरित्यन्वयः ॥ ४।३३।२ ॥
पर्यवारयन् भयेन लक्ष्मणं परिवार्य गन्तुं नाशक्नुवन्नित्यर्थः ॥ ४।३३।३ ॥
पुष्पितानि काननानि यस्यां सा ताम् रत्नसमाकीर्णामनेकोत्तमवस्त्वाक्रान्ताम् ॥ ४।३३।४ ॥
तस्यैव प्रपञ्चः हर्म्येति । सर्वकामफलैः सर्वदा ऽपेक्षितफलयुक्तैः ॥ ४।३३।५,६ ॥
पाण्डुरेण पद्मं पद्मकाख्यं गन्धद्रव्यम् सुरभिगन्धितां सुगन्धिताम् । मधूनां च सन्घैरिति शेषः ॥ ४।३३।७१३ ॥
पाण्डुरेण शैलेन परिक्षिप्तं स्फटिकशिलामयवप्रेण वेष्टितम् ॥ ४।३३।१४,१५ ॥
महेन्द्रदत्तैर्वृक्षैः कल्पवृक्षैः ॥ ४।३३।१६१८ ॥
सप्तकक्ष्या इत्यस्यातिक्रम्येति शेषः ॥ ४।३३।१९,२० ॥
तन्त्रीगीतेन वीणावाद्यघोषेण सहितं मधुरस्वनं मुरजादेः शुश्राव ॥ ४।३३।२२,२२ ॥
अभिजनसंपन्ना आभिजात्ययुक्ताः वरमाल्यकृतव्यग्रा वरमाल्यानामुत्तमस्रजां कृतं करणं तत्र व्यग्राः ॥ ४।३३।२३ ॥
अव्यग्रान्परिचर्यात्वरारहितान् अनुदात्तपरिच्छदान्प्रशस्तालङ्काररहितान् ॥ ४।३३।२४ ॥
लज्जितो ऽभवत् । अयोध्यातो ऽप्यधिकसौभाग्यदर्शनाल्लज्जा । परस्त्रीदर्शनकृता लज्जेत्यन्ये ॥ ४।३३।२५ ॥
रोषवेगेन प्रकुपितः नेदानीमपि कामभोगं त्यजतीति कोपवृद्धिः । “रोषवेगप्रचलितः” इति पाठान्तरम् । अर्थस्तुल्यः । आभरणस्वनं श्रुत्वा स्त्रीणां ततो निवृत्तये ज्यास्वनं चकार ॥ ४।३३।२६ ॥
तदेवाह चारित्रेणेति । चारित्रेण स्त्रीगोष्ठ्यां प्रवेष्टुं नोचितमित्याचारपर्यालोचनया ऽपकृष्टो निवर्तितान्तःपुरप्रवेशः सन्नेकान्तमाश्रित्य रामकोपसमन्वितो रामकार्याप्रवृत्तिदर्शनजकोपेन । समन्वितस्तस्थौ ॥ ४।३३।२७२९ ॥
समाख्यातो बोधितलक्ष्मणागमनः । उपशुष्यतोपाशुष्यत ॥ ४।३३।३०,३१ ॥
सरोष इव सरोष एव ॥ ४।३३।३२ ॥
रोषस्थानं रोषकारणं ममापराधमित्यर्थः ॥ ४।३३।३३ ॥
अस्माभिः कृतं यत्किञ्चिदित्यन्वयः ॥ ४।३३।३४ ॥
निर्निमित्तकोपासंभवान्निमित्तं चानिर्णीय स्वस्य समीपगमनमनुचितमिति पक्षान्तरं गृह्णाति अथवेति । स्वयमेव मां विहायेत्यर्थः ॥ ४।३३।३५ ॥
विशुद्धात्मा गतक्रोधचित्तः ॥ ४।३३।३६ ॥
उपक्रान्तमुपक्रान्तक्षमापनम् ॥ ४।३३।३७ ॥
प्रस्खलन्ती मदालसतया पदे पदे स्खलन्ती मदविह्वलाक्षी भोगार्थं कृतमधुपानमदेनालसचकितनेत्रा प्रलम्बे काञ्चीगुणहेमसूत्रे यस्याः काञ्चिगुणो रशना नमिताङ्गयष्टिः स्तनभारेणेति शेषः ॥ ४।३३।३८ ॥
हरीशपत्नीं सुग्रीवपत्नीं ताराम् ॥ ४।३३।३९ ॥
प्रणयप्रगल्भं मैत्रीसमर्थनसमर्थम् । परिसान्त्वरूपं परितः सान्त्वरूपम् । “पतिसान्त्व” इति पाठः सुगमः ॥ ४।३३।४० ॥
वाङ्निदेशे ऽनुशिष्टकार्यानुष्ठाने । आपतन्तं दग्ध्वा तिष्ठन्तम् ॥ ४।३३।४१ ॥
भूयो ऽधिकं प्रणयप्रकाशपूर्वं दृष्टो ऽर्थो यस्मिंस्तत् ॥ ४।३३।४२ ॥
अयं ते भर्ता लुप्तधर्मार्थसङ्ग्रहो वर्तते । अर्थो ऽत्र मित्ररूपः एनं किं न बुध्यसे ॥ ४।३३।४३ ॥
लुप्तधर्मादित्वमेवाह नेति । राज्यार्थं राज्यस्थैर्यार्थं सामान्या परिषद्यस्य तादृशः भूत्वेति शेषः ॥ ४।३३।४४ ॥
विहरंस्त्वया क्रीडन् ॥ ४।३३।४५,४६ ॥
पानादर्थादिनाशमुपपादयति धर्मेति । महान्धर्मलोपः प्रतिज्ञाहानिरूपः । कृते उपकारे ऽप्रतिकुर्वतः प्रत्युपकारमकुर्वतः । तावत्प्रथमम् ततो गुणवतो मित्रस्य मैत्रीनाशे महानर्थलोपो भवति ॥ ४।३३।४७ ॥
अर्थगुणश्रेष्ठं मित्रार्थसाधनलक्षणश्रेष्ठगुणवत् सत्यधर्मपरायणमेतद्गुणद्वयवन्मित्रं हि प्रसिद्धम् तद्द्वयं गुणद्वयमपि तव भर्त्रा परित्यक्तम्, न तु धर्मे मैत्रीपालनरूपे धर्मे व्यवस्थितम् ॥ ४।३३।४८ ॥
तत्तस्तस्मादेवं सति प्रस्तुते कार्ये प्रस्तुतकार्यसिद्धिनिमित्तमिति उत्तरं यदस्माभिः कार्यं तत्कार्यमुदाहर्तुमर्हसि ॥ ४।३३।४९ ॥
धर्मार्थसमाधियुक्तं तत्संबन्धयुक्तम् । अगतार्थे भ्रष्टप्रयोजने मनुजेन्द्रकार्ये तद्विषये विश्वासयुक्तं यथा तथा भूयः पुनरुवाच ॥ ४।३३।५० ॥
न कोपकालः अर्थस्यानीतत्वादिति भावः । प्रमादमज्ञातभूतमपराधम् ॥ ४।३३।५१ ॥
तस्य सोढव्यतां समर्थयति कोपं कथं नामेति । अपकृष्टसत्त्वे हीने सत्त्वावरुद्धः सहजसत्त्वगुणावरुद्धविपरीतव्यापारः । “सत्त्वाविरुद्धः” इति पाठे सहजगुणाविरुद्धव्यापारः । अत एव तपसः प्रसूतिः ॥ ४।३३।५२ ॥
जानामि कोपमिति । हरिवीरबन्धो रासस्य कोपं कोपनिमित्तं कार्यस्य कालसङ्गं विलम्बं च जानामि । त्वयि यदायत्तं नः कार्यं राज्यदानलक्षणं त्वया कृतं तदपि जानामि । यदत्र विषये कार्यं प्रतिकर्तव्यरूपं तदपि जानामि ॥ ४।३३।५३ ॥
तव कोपस्यायुक्तत्वे हेतुमपि जानामीत्याह तच्चापीति । शरीरजस्य कामस्य तथा ऽविषह्यं बलं तच्चापि जानामि । एवं सुग्रीवं यस्मिञ्जने स्त्रीजने कामेनावबद्धं संभावयसि तं च जानामि । तथाद्यान्यत्र कृत्ये ऽसक्तमव्यापारं च जानामि ॥ ४।३३।५४ ॥
नन्वेवं सति मम कोपस्यायुक्तता कथमत आह नेति । यथा त्वं वै निश्चयेन मन्युवशं प्रपन्नो दृश्यसे तथा जानामि । कामतन्त्रे कामस्वभावपरिज्ञाने तव बुद्धिर्नास्ति चिरकालं स्त्रीसङ्गाभावादिति भावः । तमेव कामस्वभावमाह नेति । हि प्रसिद्धम् । यथा देशकालौ भोगायोग्यौ न जानाति तथार्थधर्मावपि नावेक्षते । मनुष्य इति मनुष्यो ऽपि न जानाति किमुत तिर्यग्जन्तुरिति भावः ॥ ४।३३।५५ ॥
मम संनिकृष्टं स्वभार्याया मम समीपे कामवशाद्वर्तमानम् कामाभियोगः कामावेशः क्षमस्वेति । परवशप्रवृत्तापराधत्वात्स्वभ्रातृत्वाच्च क्षमैवात्र योग्या, न तु कोप इत्याशयः ॥ ४।३३।५६ ॥
कामवशत्वं नास्यैवेत्याह महर्षय इति । कामे कामभोगे ऽनुकामो ऽभिलाषो येषां ते, अत एव स्त्रीषु प्रतिबद्धमोहाः । कपिस्तत्रापि राजा ॥ ४।३३।५७ ॥
भर्तुर्हितम् उद्दिश्येति शेषः ॥ ४।३३।५८ ॥
चिराज्ञप्तः त्वदागमनात्पूर्वमेवेति शेषः ॥ ४।३३।५९ ॥
कामविधेयस्योद्योगाज्ञा ऽपि न विश्वसनीयेत्यत आह आगता इति । कोटीः शतेत्यस्य बहुत्वे तात्पर्यम् ॥ ४।३३।६० ॥
चारित्रं रक्षितं झटित्यन्तःपुरागमनेन । अच्छलं छलमधर्मः, स नेत्यर्थः । मित्रभावेन, न तु विकारेण ॥ ४।३३।६१ ॥
त्वरया रामाज्ञाकरणत्वरया ॥ ४।३३।६२६४ ॥
प्रमदाभिः समं ददर्शेत्यन्वयः । ततः संरब्धतररक्ताक्षो बभूवेत्यन्वयः ॥ ४।३३।६५ ॥
परिरभ्यावस्थित एव सन्ददर्शेत्यन्वयः ॥ ४।३३।६६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥ ४।३३ ॥