अङ्गदस्येति ॥ ४।३२।१ ॥
गुरुलाघवं गुरुत्वलघुत्वे इत्यर्थः ॥ ४।३२।२ ॥
दुर्व्याहृतमनुचितवचनमुक्तम् । दुरनुष्ठितमनुचितं कृत्यं कृतमिति शेषः ॥ ४।३२।३ ॥
कोपकारणमुन्नयति– असुहृद्भिरिति । असुहृदः शत्रवः अमित्रा अपकारिणः अन्तरं छिद्रम् असंभूताननुत्पन्नान् श्रावितः नूनमिति शेषः ॥ ४।३२।४ ॥
अत्र लक्ष्मणकोपविषये । तावत्प्रथमतः । यथा तत्त्वात्मिका बुद्धिर्ज्ञानं यस्मिन्निश्चये स भावस्य कोपस्य निश्चयस्तात्त्विककोपनिमित्तस्य निश्चयो विज्ञेयः कर्तव्यः ॥ ४।३२।५ ॥
त्रासः । मदपराधमूल इति शेषः । कुतस्तर्हि त्रासो ऽत आह– मित्रमिति । अस्थाने ऽकाण्डे वास्तवापराधाभावे ऽपि रिपुकृतमिथ्योपजापेन कुपितं सञ्जातकोपं मित्रं संभ्रमं भयं जनयत्येव ॥ ४।३२।६ ॥
रिपुजोपजापपरिहारेण सख्यपालनं दुष्करमित्याह– सर्वथेति । अल्पे ऽपि उपजापे इति शेषः ॥ ४।३२।७ ॥
अतोनिमित्तमस्मान्निमित्तात् । अथ स्वदोषशङ्कानिवृत्तये कृतज्ञतां मन्त्रिभ्यो दर्शयति रामेण त्विति ॥ ४।३२।८ ॥
अथ मुख्यमन्त्री हनूमान्कोपनिमित्तं निश्चित्याह– सुग्रीवेणेति । तर्को युक्तिः ॥ ४।३२।९ ॥
अथ निश्चयं विवक्षुः स्वस्य गुणग्राहित्वरूपं मन्त्रिलक्षणं प्रकटयति– सर्वथेति ॥ ४।३२।१० ॥
उपकारमेवाह– राघवेणेति । भयं वालिपराक्रमजं वालिनश्छलेन वधकृतं लोकापवादजं वा ॥ ४।३२।११ ॥
प्रणयात्क्रुद्धः । न तु त्वद्रिपूपजापत इत्यर्थः ॥ ४।३२।१२ ॥
प्रणयकोपस्यापि निमित्ताभासं दर्शयति– त्वमिति । कालं प्रतिज्ञातं सीतान्वेषणकालम् । प्रवृत्ता प्रकर्षेण वृत्ता गतप्रायेति यावत् ॥ ४।३२।१३,१४ ॥
व्यक्तं ज्ञात्वेति शेषः ॥ ४।३२।१५ ॥
पुरुषान्तराल्लक्ष्मणाच्छ्रुतं परुषं वचनं ते त्वया मर्षणीयम् । तत्संभावनमालक्ष्यायमुपदेशः ॥ ४।३२।१६,१७ ॥
नियुक्तैः हितोपदेशे इति शेषः । भयं त्यक्त्वा ब्रवीमि राजानमपि कार्यवशात्परस्मा अञ्जलिं कुर्विति वचो ऽवधृतं निश्चितं वदामि ॥ ४।३२।१८,१९ ॥
यः पुनः प्रसाद्यो भवेत्स कोपयितुं न क्षमो न युक्तः ॥ ४।३२।२०,२१ ॥
अपोहितुमुपेक्षितुम् । सराघवस्य सलक्ष्मणस्यास्य रामस्य मानुषं मनुष्यमतिक्रान्तं बलं ते मनो ज्ञास्यति जानात्येव वालिवधादिनेति भावः ॥ ४।३२।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥ ४।३२ ॥