स लक्ष्मणः ॥ ४।३१।१ ॥
साधुवृत्ते साधूनां वृत्ते स्थिरस्नेहतालक्षणे । कर्मणा जनितान्फलानुषङ्गानकण्टकराज्यभोगसंबन्धान्न मन्यते सख्यमूलानिति शेषः । अत एव वानरराज्यलक्ष्मीं न भोक्ष्यते । हि यस्मात्तस्मात्तथा तत्प्रकारा ऽस्य बुद्धिः प्रेमपरिपालने ऽत्यन्तं न क्रमते । “तथा हि नातिक्रमते” इति पाठः पाङ्क्तः ॥ ४।३१।२ ॥
तत्र हेतुमाह मतिक्षयादिति । मतिक्षये हेतुस्तवाप्रसादः । अतस्तस्य प्रतिकारबुद्धिः प्रत्युपकार बुद्धिर्न वर्तत इति शेषः । न देयम् दत्तं नानुपालनीयमित्यर्थः ॥ ४।३१।३ ॥
न धारये धारयितुं न शक्नोमि । वालिपुत्रो ऽङ्गदो विचयमन्वेषणम् । सुग्रीवं हत्वा तस्मै राज्यसमर्पणादिति भावः ॥ ४।३१।४ ॥
निवेदितार्थं विज्ञापितसुग्रीववधप्रवृत्तिम् । स्ववीक्षितं सुष्ट्ववीक्षितं समयोचितम् ॥ ४।३१।५ ॥
त्वद्विधो धर्मज्ञः पापं मित्रवधाध्यवसायरूपम् । आर्येण सम्यग्विवेकेन ॥ ४।३१।६ ॥
इदं मित्रघातरूपं वस्तु न ग्राह्यं न निश्चेयम् । साधुवृत्तं साधुत्वं तेन तां पूर्वकृतां प्रीतिमनुवर्तस्व, सुग्रीवे इति शेषः । पूर्ववृत्तं सङ्गतं च सख्यं च स्मरेति शेषः ॥ ४।३१।७ ॥
कालपर्यये कालातिक्रमे व्यतीतमतिक्रममेव कालो ऽतिक्रान्त इत्येव वक्तुमर्हसि नापरं किञ्चिदित्यर्थः ॥ ४।३१।८ ॥
अग्रजेन रामेण ॥ ४।३१।९ ॥
भवनं प्रतिजगाम । संरब्धो नाटितकालातिक्रमजकोपः ॥ ४।३१।१० ॥
कालान्तकोपमं कालादिवद्भयङ्करम् । सानुमान्मन्दर इव जगामेत्यन्वयः ॥ ४।३१।११ ॥
यथोक्तकारी रामस्येति शेषः । वचनं सुग्रीवं प्रति स्वेन वक्तव्यम् उत्तरं तदुपरि सुग्रीवेण वक्तव्यम् सोत्तरं तदुपरि स्ववक्तव्योत्तरसहितम् मत्वा ऽ ऽलोच्य ॥ ४।३१।१२ ॥
भ्रातू रामस्य यः कामो मनोरथस्तज्जन्यो यः क्रोधस्तद्विघातजन्यः क्रोधस्तत्समुत्थेन तज्जन्येन क्रोधाग्निना वृतः, अत एवाप्रीतः प्रभञ्जनो वायुरिव वेगेन प्रययौ ॥ ४।३१।१३ ॥
तरसोरुवेगेन पर्यस्यन्क्षिपन् । वेगितः सञ्जातवेगः ॥ ४।३१।१४ ॥
एकपदमेकैकपदं दूरं यथा भवति तथा त्यक्त्वा कार्यवशाद्द्रुतं ययौ ॥ ४।३१।१५ ॥
बलाकीर्णां वानरसेनाव्याप्ताम् । गिरिसङ्कटे भूधरमध्ये वर्तमानान् ॥ ४।३१।१६,१७ ॥
क्रुद्धलक्ष्मणदर्शनेन भीत्या शैलशृङ्गादिग्रहो वानराणाम् ॥ ४।३१।१८ ॥
द्विगुणं क्रुद्धः । मां दृष्ट्वेमे प्रणामं त्यक्त्वा प्रहरणं गृह्णन्तीति कोपद्वैगुण्यम् ॥ ४।३१।१९२२ ॥
ततः सचिवसन्दिष्टाः सुग्रीवं बोधयित्वा तदनुमत्या लक्ष्मणो ऽस्माभिर्यावत्प्रवेश्यते तावद्धठाल्लक्ष्मणप्रवेशं निरुन्धानास्तिष्ठत इत्येवं सचिवैर्हनूमदादिभिः सन्दिष्टा हरयो नगरान्निर्ययुः ॥ ४।३१।२३ ॥
विकृतदर्शना भीमदर्शनाः । विवृतदर्शनाः प्रकटदर्शनाः ॥ ४।३१।२४ ॥
दशगुणोत्तराः शतनागबला इत्यर्थः । नागसहस्रस्य तुल्यवर्चसो नागसहस्रतेजस्तुल्यतेजसः ॥ ४।३१।२५ ॥
दुरासदामपश्यदित्यन्वयः ॥ ४।३१।२६ ॥
प्राकाराद्बहिर्वर्तिनी परिखा तदन्तरात्तदवधेरपि बहिर्निष्कम्याविष्कृतं प्रकटितं यथा तथा तस्थुः ॥ ४।३१।२७ ॥
प्रमादं च चाद्वानरप्रतिरोधं च । पूर्वजस्य रामस्यार्थं च दृष्ट्वा विचार्य ॥ ४।३१।२८ ॥
दीर्घ उष्णो महानुच्छ्वासो यस्य ॥ ४।३१।२९ ॥
बाणस्य शल्यमेव स्फुरन्ती जिह्वा यस्य सः सायकासनं धनुरेव भोगो यस्य स्वतेजोरूपविषेण संभूतं व्याप्तः ॥ ४।३१।३० ॥
विषादमगमत् । एतावत्पर्यन्तं रामकार्यं न चिन्तितमिति विषादः ॥ ४।३१।३१ ॥
इत्युत एवंप्रकारेणेत्यर्थः ॥ ४।३१।३२ ॥
तं प्रकारं दर्शयति– एष इति ॥ ४।३१।३३ ॥
इदमुक्तं मम वाक्यं तस्मै इत्युक्तप्रकारेणोक्त्वा स वानरः सुग्रीवः साधु साधुकारी यथा भवति तथा क्रियताम् । अनन्तरं तस्यास्मासु यदि रुचिर्भवति तदा तस्य वाक्यं श्रुत्वा शीघ्रमागच्छ ॥ ४।३१।३४,३५ ॥
“लक्ष्मणस्य” इति श्लोकेन संक्षिप्योक्तस्यार्थस्य विस्तरः– अथेति । संभ्रान्तभावः संभ्रान्तचित्तः । परदीनवक्त्रः परमतिशयेन दीनं वक्त्रः यस्य सः । “परिदीन इति पाठान्तरम् । निर्गत्य लक्ष्मणसंनिहितदेशात्परावृत्येत्यर्थः । पूर्वं नृपतेस्ततो रुमायाः । इदमुपलक्षणम् तारायाश्चरणावित्यन्वयः ॥ ४।३१।३६ ॥
तदेव विस्तारयति– सङ्गृह्येति । मातुस्तारायाः ॥ ४।३१।३७ ॥
निद्रया क्लान्तः संवीतः व्याप्तश्चेत्यर्थः । न विबुद्धवान् तन्नर्ति तद्वचनं चेत्यर्थः । यतो मदनेन मोहितो मदमत्तश्च बभूवासीत् ॥ ४।३१।३८ ॥
ततो ऽङ्गदस्य सुग्रीवसमीपगमनानन्तरं वानराणां भयक्रोधादिजः शब्दसमूहः किलकिला । तं लक्ष्मणम् ॥ ४।३१।३९ ॥
ते लक्ष्मणं दृष्ट्वा महौघनिभं तच्छब्दसदृशशब्दं वज्रादिसदृशशब्दं च समं सह सिंहनादं चक्रुः सुग्रीवोद्बोधनायेति शेषः ॥ ४।३१।४०,४१ ॥
अथेति । वानरशब्देन प्रबुद्धस्य वानरेन्द्रस्य सुग्रीवस्य समीपमङ्गदवचः श्रुत्वा तेनाङ्गदेनैव सह मन्त्रिणौ वानरेन्द्रस्य समीपमागतौ संमतौ च तावुदारदर्शनौ च संमतोदारदर्शनौ ॥ ४।३१।४२ ॥
कौ तौ तत्राह प्लक्ष इत्यादि । अर्थधर्मयोर्विषय उच्चावचं स्वयं वक्तुं प्राप्तं लक्ष्मणं शशंसतुः ॥ ४।३१।४३ ॥
सार्थनिष्ठितैरर्थनिश्चयसहितैर्वचनैः प्रसादयित्वा शशंसतुरित्यन्वयः ॥ ४।३१।४४ ॥
राज्यार्हौ त्रिलोकीराज्यार्हौ । राज्यदायिनौ तवेति शेषः । मनुष्यभावं प्राप्तावित्यनेन वस्तुतो न मनुष्याविति सूचितम् ॥ ४।३१।४५ ॥
यस्य भीता यस्माद्भीताः ॥ ४।३१।४६ ॥
वाक्यं रामवाक्यं सारथिर्यस्य व्यवसायः कर्तव्यार्थनिश्चयः स रथो यस्य ॥ ४।३१।४७५० ॥
धर्मात्मा वदतीति शेषः । सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥ ४।३१।५१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥ ४।३१ ॥