॥ ४।३०।१,२ ॥
कालं सेनोद्योगकालम् । मुमोह व्याकुलचित्तो बभूव ॥ ४।३०।३ ॥
सञ्ज्ञां चित्तस्वास्थ्यम् । मनस्थां मनःसंनिहितामपि चिन्तयामास । जीवति न वा कथमेनां प्रत्यानेष्यामीति चिन्ता ॥ ४।३०।४ ॥
सारसशब्दैः संघुष्टं शब्दवद्व्योम दृष्ट्वेति संबन्धः ॥ ४।३०।५ ॥
हेमवर्णा धातवो हेमधातवः ॥ ४।३०।६ ॥
सारसनादसदृशनादवती या सा सारसानामारावाय परस्परसमाह्वानाय कृतैर्नादैर्या रमते आश्रमे ॥ ४।३०।७ ॥
काञ्चनानिव काञ्चनपुष्पानिव निर्मलानासनवृक्षान्दृष्ट्वा सौन्दर्यातिशयात्पुनः पुनस्तान्पश्यन्ती तदा च मामपश्यन्ती कथं वर्तते ॥ ४।३०।८ ॥
कलेन शब्देन बुध्यत इत्यन्वयः । कलभाषिणी कोमलशब्दवती ॥ ४।३०।९ ॥
निशम्य श्रुत्वा ॥ ४।३०।१० ॥
काननवनयोः कान्तरोपवनात्मना भेदः ॥ ४।३०।११ ॥
अपि तामित्यादि । शरद्गुणनिरन्तरः शरद्गुणर्निरन्तरप्रवृत्तः कामः माद्वियोगसौकुमार्यातिशयाभ्यां हेतुभ्यां सुदूरमतिशयेन पीडयेदेव ॥ ४।३०।१२ ॥
सारङ्गाख्यचातकविहङ्गस्तृषितो यथा त्रिदशेश्वराज्जलं काङ्क्षमाणो विलपति स्म, एवं सीताप्राप्तिं काङ्क्षमाणो विललाप ॥ ४।३०।१३ ॥
ततस्तत्र काले । रम्येषु गिरिसानुषु चञ्चूर्य भ्रातृदुःखेन गर्हितं चरित्वा । यङ्लुगन्तादार्षो ऽसमासे ल्यप् । पर्युपावृत्तो लक्ष्मणो ऽग्रजं रामं ददर्श ॥ ४।३०।१४ ॥
विषादाद्विषादर्शनात् ॥ ४।३०।१५ ॥
अथ लक्ष्मणः कर्मयोगज्ञानयोगावेव पौरुषवृद्धये दुःखशान्तये चानुतिष्ठेति स्मारयति– किमार्येत्यादि । हे आर्य कामस्य वशंगतेन त्वया किं कर्म कृतं स्यात्, अपि चैवं कामवशत्वेनात्मपौरुषस्य स्वपौरुषस्याभिभवेन किं प्रयोजनं साधितं स्यात्, तस्मात्कामवशत्वं त्यक्त्वा कर्मयोगं कुरु । किञ्च स्नानादिकर्मयोगोत्तरकालमवसरप्राप्तो ऽयं समाधिर्ब्रह्मानुसन्धानम् । ह्रिया हरतीति ह्रीः शोकस्तेन किमर्थं संह्रियते । अत्रास्यामवस्थायां योगेन समाधिना सर्वं दुःखमिति शेषः, किं न निवर्तते अपि तु निवर्तते एवेत्यर्थः । एवमेव पाङ्क्तः पाठ इति कतककृत् । पाठान्तरं त्वस्य योजनाशक्त्या कल्पितमिति च सः ॥ ४।३०।१६ ॥
उक्तमेव विवृणोति– क्रियाभियोगमिति । क्रियाणां शौचस्नानादीनामभितः कार्त्स्न्येन योगमनुष्ठानं मनसः प्रसादं चास्थाय, कालं सर्वकालं समाधियोगानुगतं तेन संबद्धमेव कुरुष्व । तथा ऽदीनसत्त्वो ऽक्षीणसत्त्वः सन्स्वकर्महेतुं पौरुषवृद्धेः कारणं सहायसामर्थ्यं तद्धटनरूपं स्वकर्म देवार्चनादिरूपकर्मयोगं च कुरुष्व । अनेन
यावत्फलं निदिध्यासनजातकर्मसमुच्चय उक्तः ॥ ४।३०।१७ ॥
त्वया सनाथा नाथवती जानकी परेण न सुलभा न सुग्रहा । ज्वलितामग्निचूडामग्निशिखामुपेत्य स्पृष्ट्वा कश्चिदपि न दह्यते इति न, अपि तु वह्निव्यतिरिक्तः सर्वो ऽपि दह्यत एव । अतो या नीता सा तत्प्रतिकृतिरेव, सा तु त्वदुपासिताग्राविति व्यङ्ग्यम् ॥ ४।३०।१८ ॥
रामो ऽप्रधृष्यं न्यायोपेतत्वादविचाल्यं स्वभावजं तत्त्वार्थकं वाक्यमुक्तवन्तं लक्षणसहितं लक्ष्मणमुवाच । किमुवाच– यत्त्वया प्रत्युक्तं वाक्यं तद्धितं तत्कालसुखम् पथ्य कालान्तरे ऽपि सुखम् नयप्रसक्तं राजनीत्युपेतम् । सामसहितधर्मार्थाभ्यां समाहितं सङ्गतम् ॥ ४।३०।१९ ॥
तस्मात्त्वदुक्तं निःसंशयं कार्यं त्वद्वाक्यार्थो ऽनुष्ठेय एव । अनुष्ठेयमाह– अवेक्षितव्यं समाधियोगेन भगवत्तत्त्वं द्रष्टव्यम् । क्रियाविशेषः कर्मयोगः, सो ऽप्यनुवर्तितव्यो ऽनुष्ठेयः । हे कुमार न तु कर्मज्ञानयोगौ हित्वा प्रकर्षेण वृद्धिं प्राप्तस्य, अत एव दुरासदस्य वीर्यस्य वीर्यवतः कर्मणः फलं च फलमेव चिन्त्यमपेक्षणीयम् । अनेन यावत्फलं निदिध्यासनकर्मसमुच्चय उक्तः ॥ ४।३०।२० ॥
लक्ष्मणवचसा तत्कालं स्वस्थस्यापि पुनर्मैथिलीं स्मृत्वा किद्यमानस्य शरदनुभववर्णनम्– अथेत्यादि ॥ ४।३०।२१ ॥
निर्वर्तयित्वा संपाद्य । अहं त्वकृतकर्मेति व्यङ्ग्यम् ॥ ४।३०।२२ ॥
गच्छन्तीति गमाः पचाद्यच् । शैलद्रुमपुर इति द्वितीयाबहुवचनान्तम् तान्गच्छन्ति तथा भूत्वा सलिलं विसृज्य परिशान्ताः ॥ ४।३०।२३ ॥
नीलोत्पलदलश्यामा इति पयोधरविशेषणम् । अहं त्वशान्तकामवेग इति व्यङ्ग्यम् । एवमग्रे ऽप्यूह्यम् ॥ ४।३०।२४ ॥
वृष्टिसहितवाताः समुद्यता अपि विरताः ॥ ४।३०।२५,२६ ॥
महामेघैरभिवृष्टाः, अत एव निर्मलाः ॥ ४।३०।२७ ॥
श्रियं विभज्येति शाखाप्रभालीलासु त्रिधा विभागं कृत्वेत्यर्थः ॥ ४।३०।२८ ॥
अनेकपदार्थाश्रयाश्चित्राः शोभा यस्याः सा । अग्रहस्ताः प्रथमविसृतकिरणाः ॥ ४।३०।२९ ॥
पवनमनुसरति तच्छीलः विनेप्यञ्जलं शोषयन् शरत्काल इति शेषः । मत्तद्विपानां दर्पमधिकं कुर्वन्विभाति ॥ ४।३०।३० ॥
मानससरस्तः स्वेन सहाभ्यागतैश्चक्रवाकैः सह क्रीडन्ति ॥ ४।३०।३१ ॥
विमुक्तं त्यक्तं बर्हरूपमाभरणं यैः । अरक्ता रागरहिताः ॥ ४।३०।३२ ॥
प्रियकैरसनवृक्षैः ॥ ४।३०।३३ ॥
कुसुमोद्गतानां सप्तच्छदकुसुमाघ्राणप्रवृत्तानाम् । “उद्गतानाम्” इत्येव पाङ्क्तः पाठः । “उद्धतानाम्” इति कल्पित इति कतककृतः । मदोत्कटा अधिकमदाः, अत एव मदलालसाः मदशब्देन तज्जन्यः कामभोगस्तत्रेच्छावन्तः ॥ ४।३०।३४ ॥
शस्त्रवदुत्तेजितासिवद्विधौतो विमलो वर्णो नैल्यं यस्य तत् । कह्लारशीताः कह्लाराश्च शीताश्चेत्यर्थः ॥ ४।३०।३५ ॥
सूर्यातपस्य क्रामणं संबन्धः । चिरेणोद्धाटितः प्रकाशितः सान्द्रो रेणुर्यया अनेन शरदुत्तरार्धकालो ऽयमिति ज्ञायते ॥ ४।३०।३६,३७ ॥
आप्यायिते वर्धिते रूपशोभे येषाम् । पांसुसमुत्थिताङ्गाः पांसुयुक्ताङ्गाः ॥ ४।३०।३८ ॥
समन्मथत्वादिविशेषणचतुष्टयं करेण्वाः । करेणूरिति दीर्घत्वमार्षम् ॥ ४।३०।३९ ॥
विभूषितं विभूषणम् । विमना मयूराः मनःपर्यायो मनशब्दो ऽकारान्तो ऽपि द्विरूपकोशात् ॥ ४।३०।४० ॥
बुद्धाम्बुजानि विकसितकमलानि ॥ ४।३०।४१ ॥
ससारसाश्च तास्तदारावविनादिताश्च तासु ॥ ४।३०।४२ ॥
अतिप्रवृद्धानिलो महावायुः । बर्हिणा मयूराः । प्लवङ्गमा भेकाः ॥ ४।३०।४३ ॥
अनेके वर्णा येषां ते । नवोदितेष्वम्बुधरेषु सुविनष्टकायाः सुतरां नष्टदेहयात्राः, अत एव नष्टा मृतप्रायाः ॥ ४।३०।४४ ॥
चञ्चतां शोभमानानां चन्द्रकिरणानां स्पर्शेन यो हर्षस्तेनोन्मीलिता ईषत्प्रकाशितास्तारका नक्षत्राणि नेत्रकनीनिका च यया सा । रागवती रक्तवर्णानुरक्ता च । अम्बरमाकाशं वस्त्रं च । समासोक्तिरलङ्कारः । कान्तकरस्पर्शसुखादर्धोन्मीलितनयनायास्तदनुरागवशात्स्वतो विगलितवसनायाः कामुक्या वृत्तान्तस्य सन्ध्यायामारोपादिति बोध्यम् ॥ ४।३०।४५ ॥
शशाङ्कोदितेति उदितशशाङ्केत्यर्थः । तारागणा एवोन्मीलितानि चारुणि नेत्राणि यस्याः सा ॥ ४।३०।४६ ॥
शालिप्रसवा व्रीहयः । मालेव नभः समाक्रामति ॥ ४।३०।४७ ॥
सुप्तैकहंसमिति चन्द्रप्रतिबिम्बवत् ॥ ४।३०।४८ ॥
प्रकीर्णा हंसा एवाकुला मेखला यासाम् । वाप्युत्तमानामुत्तमवापीनाम् ॥ ४।३०।४९ ॥
वेणुस्वररूपेण व्यञ्जितेन व्यक्तेन तूर्येण वाद्यघोषेण मिश्रः प्रत्यूषकाले प्रातःकाले ऽनिलेन संप्रवृत्तस्तत्संबन्धेन जातः संमूर्च्छितो व्याप्तो गह्वराणां गिरिगह्वराणां गोवृषाणां च वनवर्तिनां शब्दो ऽन्योन्यमापूरयतीव वर्धयतीव । गह्वरगोवृषशब्दाः साजात्यात्परस्परवर्धका इत्यर्थः । “गह्वरगोवृषाणाम्” इतिपाठः ॥ ४।३०।५० ॥
नदीनां कूलानि मृदुमारुतेन व्याधूयमानैः कम्पितैः कुसुमप्रहासैः कुसुमविकासैर्युतैः काशैरुपशोभितानि ॥ ४।३०।५१ ॥
प्रचण्डाः प्रगल्भाः । शौण्डा मत्ताः । पद्मानामसनपुष्पाणां च रेणुभिर्गौराः पीताः पवनानुयात्रां कुर्वन्ति । गन्धलोभादिति भावः ॥ ४।३०।५२ ॥
कुसुमरूपः प्रहासो यस्य तम् । शालिवन शालिसमूहः । वर्षस्य व्यपनीतं व्यपनयो यस्मिंस्तं कालम् ॥ ४।३०।५३ ॥
मीना एवोपसन्दर्शिता मेखला यासाम् ॥ ४।३०।५४ ॥
चक्रवाकशैवलकाशा रोचनापत्ररेखादुकूलस्थानीयाः ॥ ४।३०।५५ ॥
सप्तम्यन्ते वनविशेषणे । वनेष्विति शेषः । गृहीतेन चापेनोद्यते आरब्धे विरहिविषयके दण्डे चण्डः प्रचण्डः । प्रचण्डश्चापो यस्य सः इदं हेतुगर्भम् ॥ ४।३०।५६,५७ ॥
दर्शयन्तीति पद्ये समासोक्तिः स्पष्टैव व्यङ्ग्या ॥ ४।३०।५८६० ॥
यात्रा यात्राकाल इत्यर्थः । तथाविधं यात्रोपयोगिनमुद्योगं च तस्य न पश्यामीत्यनुकर्षः ॥ ४।३०।६१ ॥
श्यामास्तमालाः ॥ ४।३०।६२,६३ ॥
चत्वार इति । यद्यपि चतुर्थो मासो विद्यत एव, तथापि तत्रोद्योगाभावेन तस्यापि गतप्रायत्वाद्गता इत्युक्तिः ॥ ४।३०।६४ ॥
का सा सीता तत्राह चक्रेति । या विषमं दण्डकारण्याख्यं वनमुद्यानमिव ज्ञात्वा चक्रवाकी भर्तारमिव मां पृष्ठतो ऽनुगता ॥ ४।३०।६५,६६ ॥
कृपाया अकरणे हेतुमुन्नयति अनाथ इति । “दूरग्रहः” इति पाठे दूरवर्तिस्त्रीविषयो ग्रहो रावणो ऽभिनिवेशो वा यस्येत्यर्थः ॥ ४।३०।६७ ॥
वानरराजस्य वानरराजेन शेषे षष्ठी ॥ ४।३०।६८ ॥
परिसङ्ख्याय गणयित्वा न बुध्यते । समयमिति शेषः ॥ ४।३०।६९,७० ॥
उपपन्नानां बलवीर्यादियुक्तानामाशामभिमतार्थविषयां संश्रुत्य प्रतिज्ञाय ॥ ४।३०।७१ ॥
सत्येनामोघतया ॥ ४।३०।७२ ॥
न भवन्ति कार्यायेति शेषः । क्रव्यादाः श्वादयः ॥ ४।३०।७३,७४ ॥
संश्रोतुमिच्छसीत्युत्तरमिति सुग्रीवं ब्रूहीति संबन्धः ॥ ४।३०।७५ ॥
एवंगते इत्यस्य विवरणम्– पराक्रमे परिज्ञाते इति । त्वत्सहायस्य मे पराक्रमे ज्ञाते ऽप्यस्य सुग्रीवस्य चिन्ता वालिवन्मामपि मारयिष्यतीति चिन्ता कामं न स्यादित्याश्चर्यमिति भावः ॥ ४।३०।७६ ॥
यदर्थं सीतान्वेषणार्थमयमारम्भ एतत्सख्यरूपः कृतस्तद्विषयं समयं कृतार्थो निष्पन्नस्वप्रयोजनः नाभिजानाति न स्मरति ॥ ४।३०।७७ ॥
वर्षाः वर्षोत्तरकालं समयकालं सङ्केतविषयं कालं प्रतिज्ञाय । व्यतीतान्व्यतीतप्रायान् ॥ ४।३०।७८ ॥
पानं मद्यपानम् ॥ ४।३०।७९ ॥
उच्यतामित्युक्तं किं वक्तव्यमित्यत आह– यद्रूपमिति । मम रोषस्य यद्रूपमुचितमिति शेषः । तद्ब्रूया इदं वचश्च ब्रूयाः ॥ ४।३०।८० ॥
तद्वच आह– नेति । समये तिष्ठ । समयं मा हासीरित्यर्थः ॥ ४।३०।८१,८२ ॥
एवं तेन विहिते कार्ये यद्यद्धितमस्माकं तस्य च तत्तद्ब्रूहि । त्वराहेतुः– कालव्यतिक्रमः जायत इति शेषः ॥ ४।३०।८३ ॥
उपदेशसङ्क्षेपः– कुरुष्वेति । प्रेतगतः प्रेतत्वं प्राप्तः यमक्षये यमगृहे मा वालिनं पश्येः । मम शरैश्चोदितः प्रेरितः प्रेतत्वायेति शेषः । इति ब्रूहीत्यन्वयः ॥ ४।३०।८४ ॥
मानववंशवर्धनो लक्ष्मणः ॥ ४।३०।८५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रिंशः सर्गः ॥ ४।३० ॥