०२९ हनुमत्-सुग्रीवसंवादः

ईदृशं व्योम समीक्ष्य हरीश्वरमुपागम्य हनूमानब्रवीदित्युत्तरेण नवमश्लोकस्थेनान्वयः ॥ ४।२९।१ ॥

मन्दो धर्मार्थयोः सङ्ग्रहो यस्य तम् । असतां मार्गं कामप्रवृत्तिलक्षणम् अत्यर्थमाश्रयन्तमिति शेषः । एकान्तगतमानसं कामभोगार्हैकान्तदेशगतचित्तम् ॥ ४।२९।२ ॥

निवृत्तकार्यं निष्पन्नवालिवधरूपस्वकार्यम् । सिद्धार्थं प्राप्तराज्यम् । अभिप्रेतानीप्सितानर्थान्प्राप्तवन्तम् ॥ ४।२९।३ ॥

स्वां पत्नीं रुमाम् ॥ ४।२९।४,५ ॥

उच्छिन्नराज्यसन्देहं मन्त्रिसौष्ठवेन नष्टराज्यपालनसन्देहम् । निश्चितार्थो निश्चितसर्वं शास्त्रार्थः, अत एवार्थतत्त्वज्ञः कर्तव्याकर्तव्यसकलार्थतत्त्वज्ञः । कालेति कालोचितं धर्मविशेषमनुष्ठेयं वेत्ति तादृशः ॥ ४।२९।६ ॥

वाक्यैः प्रसादप्रयोजनैः ॥ ४।२९।७ ॥

हितं तत्कालहितम् । पथ्यं कालान्तरहितम् । तथ्यं सत्यम् । सामादिचतुष्कवदेतच्चतुष्टयं वाक्यविशेषणम् । प्रणयत्वं प्राप्तया प्रीत्या संयुक्तम् । विश्वासे स्ववचनप्रामाण्ये कृतनिश्चयमीदृशं हरीश्वरमित्यन्वयः ॥ ४।२९।८ ॥

तत्र प्रसादप्रयोजनवाक्यान्याह राज्यं प्राप्तमित्यादि । कौली कुलक्रमागता ॥ ४।२९।९ ॥

शेषः कर्तव्यशेषः । कालज्ञः प्रत्युपकारकालज्ञः साधु वर्तते साध्वनुष्ठानवान्वर्तते ॥ ४।२९।१० ॥

दण्ड्यते ऽनेन दण्डः सैन्यम् । आत्मा सकरणग्रामः समानि स्ववशत्वेन समत्वम् । “समवेतानि” इति पाठे मिलितानीत्यर्थः । न त्वेकमपि पृथग्भूतमिति भावः ॥ ४।२९।११ ॥

निरत्यये निरपाये । अभिनीतार्थं प्रतिज्ञातार्थम् ॥ ४।२९।१२ ॥

संभ्रमात्त्वरया । विशेषेण कृतोत्साहः अन्यत्र कर्मणीति शेषः ॥ ४।२९।१३ ॥

कालव्यतितेषु करणोचितकालमतिक्रान्तेषु पश्चात्तेषु वर्तते तत्सिद्ध्यर्थं यतते स मित्रस्य महतो ऽर्थान्कृत्वा ऽपि मित्रार्थेन मित्रत्वप्रयोजनकार्थेन न युज्यते । उचितकाले ऽकृतम् । कृतमप्यकृतप्रायमिति भावः ॥ ४।२९।१४ ॥

तत्कालातीतम् । भविष्यतीति शेषः । तस्मात्क्रियतामित्यादि ॥ ४।२९।१५ ॥

ननु तत्कार्यकालात्ययश्चेत्स तं ज्ञापयिष्यत्येवेत्याह न चेति । कालवित्कालज्ञो ऽपि स प्राज्ञत्वात्त्वदभिप्रायमेव केवलमनुगच्छेत् । तूष्णीं तिष्ठतीति भावः ॥ ४।२९।१६ ॥

त्वदीयस्य स्फीतस्य महतः कुलस्य हेतुर्वृद्धिहेतुः । दीर्घबन्धुरिदानीं कालान्तरे च बन्धुः । स्वयं च चाल्लक्ष्मणः ॥ ४।२९।१७ ॥

कृतम् तव कार्यमिति शेषः । आज्ञापयितुमर्हसि । रामनियोगात्पूर्वमिति शेषः ॥ ४।२९।१८ ॥

नन्वेवमपि कालव्यतिक्रमस्तुल्यो ऽत आह नहीति । चोदनादृते रामप्रेरणां विना जातो ऽपि कालातिक्रमो न दोषायेति भावः । तत्प्रेरणया यदि कार्यकरणं तदा कालव्यतिक्रमो भवेदेवेत्यर्थः ॥ ४।२९।१९ ॥

अकर्तुरप्यनुपकर्तुरपि कार्यस्य कर्ता अर्हे तृच् । प्रतिकर्तुरुपकर्तुः ॥ ४।२९।२० ॥

आज्ञायां किं नु सज्जसे किमर्थं तदाज्ञाप्रतीक्षया विलम्बसे ॥ ४।२९।२१ ॥

यद्यपि रामस्य न सहायापेक्षा, तथापि सपरिवारो ऽहं सीतामन्वेषयिष्यामीति त्वत्प्रतिज्ञामवेक्षते, सत्या ऽसत्या वेति परीक्षत इत्यर्थः ॥ ४।२९।२२ ॥

प्राणत्यागाविशङ्केनानपकारिवालिप्राणत्याजने तदनौचित्यशङ्कारहितेन मित्रकृत्यं स्वकृत्यमेवेति बुद्ध्या तव प्रियं कृतम् । मार्गामान्वेषयाम ॥ ४।२९।२३ ॥

भयमिति रणे इति शेषः ॥ ४।२९।२४ ॥

प्रतिकृतः कृतोपकारस्य । पिङ्गेश कपिराज ॥ ४।२९।२५ ॥

इदानीं सुग्रीवस्याज्ञावैभवं दर्शयति– नाधस्तादिति । तवाज्ञयाह्वाने सत्यस्माकं हरीणां मध्ये यः कश्चिदपि सज्जते विलम्बते तस्य कस्यचित्कस्यापि बलिनो दुर्बलस्य वा ऽधस्तात्पाताले ऽन्यत्र वा गतिर्जीवनं नास्ति ॥ ४।२९।२६ ॥

यदेवं तदाज्ञापय । आज्ञाप्रकारं पृच्छति– कः कपिस्ते किं कं नियोगं कुतो वापि । सार्वविभक्तिकस्तसिः । कुत्रापि स्थितो व्यवस्यत्वनुतिष्ठतु । आज्ञापनीया सेना कियत्यस्ति तत्राह– हरय इति । कोट्यग्रतः कोटिघटितसङ्ख्याया न्यर्बुदस्याग्र उपरि या सङ्ख्या समुद्राख्या तया सङ्ख्ययेत्यर्थः ॥ ४।२९।२७ ॥

मतिं तदनुष्ठानविषयाम् ॥ ४।२९।२८,२९ ॥

असङ्गेनाविलम्बेन । सेनाग्र्येण सेनानाथेन सहेति शेषः ॥ ४।२९।३० ॥

अन्तपाला दिगन्तवर्तिसेनापतयः समानयन्तु समागच्छन्तु । अनन्तरमानयनानन्तरम् । कार्यं सेनादर्शनगणनादि अनुपश्यतु संपादयत्विति यावत् ॥ ४।२९।३१ ॥

त्रिपञ्चरात्रात्पञ्चदशदिनादूर्ध्वं य आगच्छेत्तस्य दण्डस्तेन पक्षमध्ये सर्वैरागन्तव्यमिति भावः । कार्तिकशुक्लादावियमाज्ञेति बोध्यम् ॥ ४।२९।३२ ॥

वृद्धान्हरीन्साङ्गदो भवानुपयातु । संमाननार्थमिति शेषः ॥ ४।२९।३३ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥ ४।२९ ॥