०२८ प्रावृड्वर्णनम्

स तदेति ॥ ४।२८।१ ॥

स विरहिप्रमाथकः स कस्तत्राह– अद्य जलागमः समयः संप्रवृत्तस्तं संपश्य । नभ आकाशम् ॥ ४।२८।२ ॥

समुद्राणां रसं जलं भास्करस्य गभस्तिभिर्द्यौः पीत्वा कार्तिकादिनवमासधृतं गर्भं जलरूपं रसायनं लोकजीवानुभूतं प्रसूते त्यजति । गर्भमाहात्म्यात्सामुद्रस्य क्षारस्यापि स्वादुता ॥ ४।२८।३ ॥

दिवाकरो ऽलङ्कर्तुं शक्यः सुकर इत्यर्थः ॥ ४।२८।४ ॥

सन्ध्यारागोत्थितैरुद्भिन्नसन्ध्यारागैः, अत एव ताम्रैरन्तेषु पर्यन्तभागेषु श्वेतैः स्निग्धैः । किञ्चिज्जलसंबन्धात् अभ्रपटच्छेदैरभ्ररूपैश्छिन्नपटैर्बद्धव्रणमिवेत्युत्प्रेक्षा ॥ ४।२८।५ ॥

मन्दमारुत एव निःश्वासो यस्य तम् । सन्ध्यारूपेण चन्दनेन हरिचन्दनेन रञ्जितम् । आपाण्डुजलदं शान्तपाण्डुजलदम् । जलदस्थाने कामातुरस्य कपोलादि ॥ ४।२८।६ ॥

धर्मेण रवितेजसा परिक्लिष्टा सन्तप्ता । बाष्पमूष्माणं बाष्पं नेत्रजलं च ॥ ४।२८।७ ॥

मेघैः स्वोदराद्विनिर्मुक्ता इति मन्दता । कर्पूरलिप्तदलवच्छीतलाः केतगन्धिनो वाताः । अञ्जलिभिः पातुमित्यादरातिशयादुक्तिः । जलवच्छ्रान्तिहरत्वाच्च ॥ ४।२८।८ ॥

फुल्लाः पुष्पिता अर्जुना यस्मिन् । धारा जलधाराः । अत्र शैलस्यारिर्वनदाहकत्वाद्दावाग्निः ॥ ४।२८।९ ॥

धारा वर्षधारास्तद्रूपयज्ञोपवीतधराः । मारुतापूरितत्वेन शब्दवत्ता । प्राधीताः उपक्रान्ताध्ययना वटव इवेत्यर्थः ॥ ४।२८।१० ॥

अन्तर्गतस्तनितरूपो निर्घोषः कशाप्रहारे क्रियमाणः शब्दो यस्य तत् । सवेदनमित्यस्योत्तमाश्वमिति शेषः ॥ ४।२८।११,१२ ॥

घनैरनुलिप्ता इव, अत एव नष्टा अदृश्या ग्रहादयो यासु ताः, प्रतिहताः प्रतिहतप्राचीत्वादिज्ञानाः, इमा दिशो मन्मथवतां मन्मथोत्सवसाधनप्रियासहितानां हिताः सुखजनिकाः ॥ ४।२८।१३ ॥

बाष्पाभिसंरुद्धान्नववारिसेकजमहीसमुद्गतोष्मणा वृतान्वर्षाया आगमेन समुत्सुकान्सहर्षान्सानुषु स्थितानित्यन्वयः ॥ ४।२८।१४ ॥

सहिमः सशीतः । निदाघस्य ग्रीष्मस्य दोषप्रसरास्तापादयः । स्थिता स्तब्धा निवृत्तेति यावत् । स्वदेशान्यान्ति प्रियावियुक्तैः स्थातुमश्क्यत्वात् ॥ ४।२८।१५ ॥

मानसं सरः । अभीक्ष्णमतिशयितं यद्वर्षोदकं तेन विक्षतेषु क्लिष्टगमनेषु मार्गेष्विति शेषः, यानानि रथादीनि न संपतन्ति न गच्छन्ति ॥ ४।२८।१६ ॥

शान्तमहार्णवस्य निस्तरङ्गसमुद्रस्य ॥ ४।२८।१७ ॥

सर्जादिपुष्पैर्मिश्रं पर्वतसंबन्धिधातुभिस्ताम्रं ताम्रवर्णं मयूरशब्दैरनुप्रयातमनुसृतं जलं नद्यः शीघ्रं वहन्ति समुद्वहन्ते ॥ ४।२८।१८ ॥

रसाकुलं रसवत् । षट्पदसंनिकाशं भ्रमरसदृशवर्णम् । प्रकामं यथेच्छं यथा भवति तथा प्रभुज्यते जनैरिति शेषः । आम्रफलस्यातिपक्वत्वात्स्वत एव भूमौ पातः ॥ ४।२८।१९ ॥

बलाकमालया तत्पङ्क्त्या सहिताः । कूटः शिखरं तदाकारसदृशाकाराः ॥ ४।२८।२० ॥

प्रवृत्तेत्यादि । नृत्तोत्सवप्रवृत्तमयूराणि नितरां वृष्टा बलाहका येषु तानि ॥ ४।२८।२१ ॥

सलिलातिभारं सलिलरूपभारम् । भारवत्वाच्च विश्रम्य विश्रम्य गमनम् ॥ ४।२८।२२ ॥

गर्भार्थं मेघेष्वभिकामो यस्याः सा । परिसंपतन्ती नभसि गच्छन्ती, अत एव संमोदिता हर्षवती । बलाकपङ्क्तिरित्यार्षो ह्रस्वः । तदुत्प्रेक्षा व्रातेत्यादि । वरा श्रेष्ठा पौण्डरीकी श्वेतपद्मसंबन्धिनी लम्बा रुचिराम्बरस्य मालेवा ॥ ४।२८।२३ ॥

वालैरिन्द्रगोपैरन्तरे मध्ये मध्ये चित्रितेन शाद्वलेन युता भूमिः स्वतः शुकवर्णेन मध्ये मध्ये लाक्षाबिन्दुयुतेन कम्बलेन गात्रानुपृक्तेन गात्रसंपृक्तेन वृता नारीव ॥ ४।२८।२४ ॥

निद्रेति । आषाढ्यां स्वापोत्सवाद्धृष्टा गर्भधारणार्थम् ॥ ४।२८।२५ ॥

शिखिनां सुष्ठु प्रनृत्तं येषु ते सकदम्बाः सकदम्बपुष्पाः शाखा येषाम् समानकामाः उभये ऽपि कामवन्त इत्यर्थः सस्यैर्वनैश्चाभिरामा ॥ ४।२८।२६ ॥

वहनादिक्रियाणां नद्यादीनां च क्रमेणान्वयाद्यथासङ्ख्यमत्रालङ्कारः । प्लवङ्गमाः समाश्वसन्ति सुग्रीवराज्यलाभात् ॥ ४।२८।२७ ॥

वननिर्झरे क्रीडया केतकगन्धमाघ्राय प्रहर्षिताः । प्रपातशब्दः प्रपतन्निर्झरशब्दः ॥ ४।२८।२८ ॥

पुष्परसैस्तदास्वादैरवगाढं वृद्धं मदं क्षणेनोत्सवेनार्जितम् ॥ ४।२८।२९ ॥

अङ्गारः शान्ताग्निस्तच्चूर्णस्य य उत्करस्तत्समैः । अनेन फलानामतिमहत्वं सूचितम् । अत्युक्तिरत्रालङ्कारः ॥ ४।२८।३०,३१ ॥

पृष्ठतो मेघरवं निशम्य श्रुत्वा प्रतिनादशङ्की शत्रुभूतगजान्तरनादशङ्की प्रतिनिवृत्तः ॥ ४।२८।३२ ॥

अनेकाश्रयिणो ऽनेकभावाश्रयिणः ॥ ४।२८।३३ ॥

कन्दलं स्थलोत्पलम् मधुवारि मधुसदृशवारि आपानभूमिर्मद्यपानभूमिस्तस्यामपि कदम्बादिपुष्पाणि मद्यपूर्णता मत्तजनशब्दस्तन्नृत्यं च ॥ ४।२८।३४ ॥

विवर्णच्छदनाः जलसेकतो विवर्णपक्षाः ॥ ४।२८।३५ ॥

षट्पदो भ्रमरस्तद्धनिरूपं तन्त्रीणां मधुरमभिधानं गीतं यस्मिन् प्लवङ्गमानां भेकानामुदीरितमेव कण्ठतालं सूत्रधारमुखशब्दतालो यस्मिन् मेघशब्दा एव मृदङ्गनादास्तैराविष्कृतं प्रकटितं संगीतं वनेषु प्रवृत्तमिव ॥ ४।२८।३६ ॥

प्रनृत्तैरारब्धनृत्तैः उन्नदन्तो गायकास्तैः वृक्षाग्रनिषण्णकायास्ते संगीतोपलक्षितनृत्यद्रष्टारः ॥ ४।२८।३७ ॥

चिरसंनिरुद्धां चिरसंपादिताम् । शुष्कमृत्तिकास्विति शेषः, प्लवगा भेकाः अनेकरूपाकृतिः संस्थानं वर्णो नीलपीतादिर्नादश्च येषाम् ॥ ४।२८।३८ ॥

कामातुरयुवतिवृत्तान्तं नदीष्वारोपयति– नद्य इति । वारिपूरेण समुद्वाहिता उन्नमिताश्चक्रवाकरूपस्तनायाभिः । शीर्णानि तटानि रोधकजरतीस्थानीयान्यपवाहयित्वा निरस्य नवप्रावृतपूर्णभोगावृत्तं नवं प्रावृतं पुष्पाद्युपहारात्पूर्णभोगायादृतं स्वीकृतम् । उपोपयन्ति “प्रसमुपोदः पादपूरणे” इति द्वित्वम् ॥ ४।२८।३९ ॥

नीलेषु मेघेषु सक्ता नीलमेघाः प्रतिभान्ति । दवाग्निदग्धेषु शैलेषु तादृशाः शैला यदि सक्ता भवन्ति तदा ते इव । बद्धमूला इत्युभयान्वयि ॥ ४।२८।४० ॥

प्रमत्तशब्दवन्मयूरवन्ति । शक्रगोपः इन्द्रगोपः ॥ ४।२८।४१,४२ ॥

गवेन्द्रा वृषभाः । निभृतास्त्यक्तोद्योगाः सर्वत्र जाता इति शेषः । सुरेन्द्रो देवन्द्रः प्रक्रीडितः कर्तरि निष्ठा ॥ ४।२८।४३ ॥

समुद्भूतस्तिरस्कृतः समुद्रनादो यैः । अपवाहयन्ति प्रवहज्जलानि कुर्वन्ति ॥ ४।२८।४४ ॥

वर्षप्रवेगा वृष्टयः । विप्रतिपन्नः प्रतिबद्धो मार्गो नृणां याभिस्ताः ॥ ४।२८।४५ ॥

रूपं निर्मलमाकारम् । श्रियं विविधधातुयुक्तत्वरूपां दर्शयन्तीव ॥ ४।२८।४६ ॥

घनोपगूढत्वाद्गगनस्य तारारविदर्शनाभावः । वितृप्ता जामितां ? प्राप्ता ॥ ४।२८।४७ ॥

प्रपातैर्निर्झरैः ॥ ४।२८।४८ ॥

प्रपतन्तीति प्रपाता निर्झराः । विकीर्यन्तस्त्रुट्यन्तः ॥ ४।२८।४९ ॥

निर्धौतं क्षालितं शृङ्गाणामुपतलं यैस्ते ॥ ४।२८।५०,५१ ॥

ज्ञायते ऽनुमीयते । अनुमानालङ्कारः ॥ ४।२८।५२ ॥

वृत्ता निवृत्ता । “पृक्ता” इति पाठे ऽप्ययमेवार्थः । प्रस्थितापि सेना पथ्येव वर्तते । समीकृताः निरुद्धत्वं साधारणधर्मः ॥ ४।२८।५३ ॥

प्रौष्ठपदो भाद्रपदः । ब्रह्म वेदं विवक्षतामध्येतुमिच्छताम् अध्यायसमय उपाकरणकालः ॥ ४।२८।५४ ॥

निवृत्तं कर्म छादनादि कर्म यस्य तादृशमायतनं यस्य । सञ्चिताः सञ्चया जीवनसाधनानि येन स भरत आषाढीं प्राप्याभ्युपगतः कृतयत्किञ्चिद्व्रतसङ्कल्पः ॥ ४।२८।५५ ॥

मामायान्तं समीक्ष्य । वनतः प्रतिनिवृत्तमिति शेषः ॥ ४।२८।५६ ॥

वर्षाः प्राप्येति शेषः ॥ ४।२८।५७ ॥

नदीकूलं कर्तृ ॥ ४।२८।५८ ॥

वर्षाश्च विस्तीर्णा इत्यनुकर्षः । अपारो दुष्प्रापवैरनिर्यातनपरः ॥ ४।२८।५९ ॥

अयात्रां वर्षवशाद्यात्राभावम् । कार्योन्मुखतया सुग्रीवे प्रणते ऽपि मया सीतान्वेषणाद्युद्दिश्य किञ्चिदपि नोक्तम् ॥ ४।२८।६० ॥

अपि च तदानीं गरीयसे आत्मकार्याय वक्तुमनुचितमित्याह– अपि चेति । अपिपरिक्लिष्टमतिपरिक्लिष्टम् गरीयस्त्वादल्पकालाल्पयत्नासाध्यत्वात् नेच्छामि नैषिषम् ॥ ४।२८।६१ ॥

वेत्स्यते प्रत्युपकारकः स्मरिष्यति शेषं व्याख्यातम् ॥ ४।२८।६२६६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे ऽष्टाविंशः सर्गः ॥ ४।२८ ॥