गुहां किष्किन्धाख्याम् । प्रस्रवणं तदाख्यम् ॥ ४।२७।१ ॥
गिरिवर्णनम्– शार्दूलेति ॥ ४।२७।२,३ ॥
प्रत्यगृह्णत प्रत्यग्रहीत् ॥ ४।२७।४ ॥
समयं पूर्वोक्तम् । कालयुक्तं तत्कालोचितम् ॥ ४।२७।५ ॥
युक्तमारुतोचितवाता ॥ ४।२७।६ ॥
वर्षरात्रं जातावेकवचनं वार्षिका मासा इत्यर्थः ॥ ४।२७।७ ॥
नदीसंबन्धिदर्दुरैः संयुतम् ॥ ४।२७।८ ॥
वृक्षषण्डैश्चारु सुन्दरम् ॥ ४।२७।९,१० ॥
गुहाया नातिदूरे भविष्यति । भाविवारिपूरवृद्धया गुहासमीपवर्तिनी भविष्यतीत्यर्थः ॥ ४।२७।११ ॥
प्रागुदक्प्रवण ईशानदिङ्नम्रवति देशे वर्तमाना गुहा साधु सम्यग्भविष्यति, सुखसाधनमिति शेषः । पौरस्त्यवर्षवातप्रवेशाभावाच्च साधुत्वं बोध्यम् । तेन निर्ऋतिद्वारत्वं सूचितम् । पश्चाद्भागे चैषोन्नता, अत एव पुरोवातनिरोधकत्वान्निवाता च ॥ ४।२७।१२ ॥
गुहाद्वारे इति । तेन बहिरुपवेशनसौकर्यम् ॥ ४।२७।१३ ॥
उत्तरत उत्तरभागे ॥ ४।२७।१४ ॥
श्वेतमिवाम्बरं श्वेतवस्त्रमिव स्थितम् । “श्वेतमिवापरम्” इति पाठे ऽपरं शृङ्गं श्वेतमिव रूप्यमिव स्थितमित्यर्थः ॥ ४।२७।१५ ॥
त्रिकूटे पूर्वोषितात्रिकूटाचले । जाह्नवीपदेन तत्रत्या जाह्णवीसदृशी मन्दाकिन्याख्या नदी ॥ ४।२७।१६ ॥
अतिमुक्तः पुण्ड्रकः । पद्मकश्चन्दनभेदः सरलः पीतद्रुमः ॥ ४।२७।१७१९ ॥
एकैकमनुरक्तैः परस्परानुरागयुक्तैः ॥ ४।२७।२०२२ ॥
पारिप्लवा जलपक्षिणः ॥ ४।२७।२३ ॥
सुरुचिरा इव इवो ऽप्यर्थे । शोभमानाश्चन्दनवृक्षपङ्क्तीरपि पश्य । मनसा सङ्कल्पेन सममेवोदिताः । ककुभानां वृक्षविशेषाणां पङ्क्त्य इति शेषः ॥ ४।२७।२४२६ ॥
नातिदूरत्वगमकम् गीतेत्यादि । मृदङ्गाडम्बरैर्मृदङ्गशब्दैः ॥ ४।२७।२७,२८ ॥
बहूनि दृश्यान्युत्तमवस्तूनि यत्र ता दर्यः कुञ्जाश्च यस्मिन्निति गिरिविशेषणम् ॥ ४।२७।२९ ॥
बहुद्रव्ये सुखसाधनबहुद्रव्यवति । रतिः सुखम् ॥ ४।२७।३० ॥
उदये उदयपर्वते ऽभ्युदितमुदयं प्राप्तम् ॥ ४।२७।३१,३२ ॥
अनुनयमनुनयवत् ॥ ४।२७।३३ ॥
व्यथां गत्वालम् व्यथा मास्त्वित्यर्थः ॥ ४।२७।३४ ॥
क्रियापरो नित्यकर्मानुष्ठाता देवपरायणो देवपूजकः व्यवसाय्युद्यमी ॥ ४।२७।३५ ॥
अव्यवसितः शोकेनोद्यमहीनस्त्वं हन्तुं न समर्थः । विक्रमे विक्रमस्थाने रणे जिह्मकारिणं कुटिलम् ॥ ४।२७।३६ ॥
अतः शोकं समुन्मूलय । व्यवसायमुद्योगम् ॥ ४।२७।३७ ॥
परिवर्तनमधरोत्तरीकरणम् ॥ ४।२७।३८,३९ ॥
दीप्तैः दीपकैर्वाक्यैरिति शेषः । काले होमकाले ॥ ४।२७।४०,४१ ॥
अनुरक्तेनानुरागयुतेन स्निग्धेन तत्कालोचितप्रियपरेण हितेनोदर्कहितैषिणा सत्यविक्रमयुक्तेनामोघविक्रमयुक्तेन ॥ ४।२७।४२ ॥
विक्रमकालेषु तेजः सहजमिति शेषः । प्रोत्साहयामि वर्धयामि । अधुना त्वाच्छन्नमिव तदिति भावः ॥ ४।२७।४३ ॥
शरत्कालं तत्प्रान्तम् । सुग्रीवस्य प्रसादं चित्तसौमनस्यम् नदीनां चामलोदकत्वरूपम् ॥ ४।२७।४४ ॥
उपकारेण युक्तो वीरो ऽवश्यं प्रतिकारेण प्रत्युपकारेण युज्यते । केनचित्कृतोपकारो वीरपुरुषो ऽवश्यं प्रत्युपकरोत्येवेति भावः । कुत एवं निश्चयस्तत्राह– अकृतज्ञो भूत्वा यद्यप्रतिकृतो ऽकृतप्रत्युपक्रियो भवति तदा सत्त्ववतामस्मादृशां मनो हन्ति मैत्रीं नाशयत्येव । अतो मित्रत्वादवश्यं स प्रत्युपकर्तेति भावः ॥ ४।२७।४५ ॥
तदेव रामवाक्यमेव युक्तं प्रणिधाय, निश्चित्यात्मनः शुभं शुभां बुद्धिं प्रदर्शयन्नुवाच ॥ ४।२७।४६ ॥
जलप्रपातं वर्षाकालम् । धृतः स्थिरनिश्चयः ॥ ४।२७।४७ ॥
किं तु सुग्रीवेणाद्यैव रावणं हनिष्यामीत्युक्त्वा कुतो विलम्ब्यत इत्येवं क्रुद्धं राममालक्ष्याह नियम्येति । शरत्तदन्तः संवर्तयन्नुक्तकालं क्षपयन् ॥ ४।२७।४८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥ ४।२७ ॥