क्लिन्नवाससमार्द्रवाससम् । शाखामृगमहामात्रा वानरबलप्रधानाः ॥ ४।२६।१५ ॥
कार्याणि राजकार्याणि । यथाविधि जातो राज्याभिषेकाभिषिक्तः ॥ ४।२६।६,७ ॥
स्वामिसंबन्धं वानरस्वामित्वसंबन्धम् । सुग्रीवस्य राज्याभिषेकेणेति शेषः ॥ ४।२६।८१० ॥
अभिषिच्यताम् । मदाज्ञया त्वयेति शेषः ॥ ४।२६।११,१२ ॥
यतो ज्येष्ठस्य ज्येष्ठः सुतो विक्रमेण ज्येष्ठस्य सदृशश्च, तस्माद्यौवराज्ये योग्यः ॥ ४।२६।१३ ॥
सीतान्वेषणोद्योगं सुग्रावस्यालक्ष्याह– पूर्वो ऽयमिति । ये चत्वारो वार्षिकसञ्ज्ञकाः प्रवृत्तास्तेषामयं पूर्व इति योजना ॥ ४।२६।१४,१५ ॥
युक्तमारुता मारुतेन युक्तेत्यर्थः । अस्यां स्थास्यामीति शेषः ॥ ४।२६।१६ ॥
यत यतस्व । एष नः समय इति आश्विने ऽतियत्नारम्भरूपः सङ्केत इत्यर्थः ॥ ४।२६।१७२० ॥
मूर्ध्रा प्रणम्य नम्रीभूय वसुधायां दण्डवत्पतिताः । उत्थाप्य वसुधायां पतिता इति शेषः ॥ ४।२६।२१ ॥
प्रविष्टं भीमविक्रान्तमिति “प्रविश्य त्वभिनिष्क्रान्तम्” इति पाठे प्रविश्यान्तःपुरगतशोकादिकं दृष्ट्वा ऽभिषेकाय तु पुनर्निष्क्रान्तं प्रतिनिवृत्तं सभामागतमित्यर्थः ॥ ४।२६।२२२४ ॥
क्षीरवृक्षप्ररोहा अधोजटाः ॥ ४।२६।२५ ॥
गन्धान्गन्धद्रव्याणि ॥ ४।२६।२६,२७ ॥
सभालम्भनमनुलेपनद्रव्यम् । तदेवाह– गोरोचनमित्यादि ॥ ४।२६।२८,२९ ॥
ततः कुशेति । अनेनाग्निसाध्यकर्माधिकारं तेषां दर्शयति । मनुष्यसदृशसर्वव्यवहाराद्वेदज्ञत्वाच्च ॥ ४।२६।३०,३१ ॥
मन्त्रैः स्थापयित्वा । “वसवस्त्वा गायत्रेण च्छन्दसा” इत्यादिमन्त्रैरासने स्थापयित्वेत्यर्थः ॥ ४।२६।३२ ॥
अप आहृत्य मिलिताः कृत्वा विमलं जलं कुम्भेषु निधायेति संबन्धः ॥ ४।२६।३३ ॥
महर्षिविहितेन बौधायनादिविहितेन ॥ ४।२६।३४३६ ॥
हृष्टाः प्रचुक्रुशुः किलकिलाशब्दं कृतवन्तः ॥ ४।२६।३७३९ ॥
तादृशे तत्रवर्तिनि । अभिषिक्ते सुग्रीवे ऽङ्गदे च, तत्र किष्किन्धायां वर्तिनि वर्तमाने सतीत्यर्थः ॥ ४।२६।४०४२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षड्विंशः सर्गः ॥ ४।२६ ॥