०२५ रामसान्त्वनम्

समानशोकः सुग्रीवादिभिरिति शेषः ॥ ४।२५।१ ॥

शोकयुक्तः परितापस्तेन शोकश्चित्तधर्मः । तावन्मात्रेणैव न मृतस्य श्रेयः समाधातुमनुष्ठातुम् ॥ ४।२५।२ ॥

लोकवृत्तं लोकाचारो ऽप्यनुष्ठेय एव । तच्च बाष्पमोक्षणरूपं कृतं युष्माभिरिति शेषः । यद्वा कृतं पर्याप्तम् । बाष्पमोक्षणमिति द्वितीया तृतीयार्थे । यतः कालात्तत्तत्कर्मणि विहितात्कालादुत्तरं परम्, तस्मिन्नतिक्रान्त इति यावत् । किञ्चिदपि परं कर्म विहितं कर्मोपासितुं कर्तुमशक्यं कालस्योपादेयकारणत्वात् । अकाले कृतस्याकृतप्रायत्वादिति भावः ॥ ४।२५।३ ॥

कालस्य मुख्यत्वं दर्शयति नियतिरिति । नियतिः नियम्यते ऽनयेति नियतिः कालः । कालकृता व्यवस्था निमेषादिपरार्धान्ता । कालस्त्वीश्वर एव । लोके लोकसृष्ट्यादिव्यवहारे । कर्मणो लौकिकालौकिकर्मप्रवृत्तेर्दिनादिरूपेण कारणं काल एव । सर्वभूतानां नियोगाधिकृतप्राणिमात्रस्य नियोगेषु ज्योतिष्टोमादिषु नियतिर्वसन्तादिः कारणम् ॥ ४।२५।४ ॥

कालातिरिक्तं न साक्षात्प्रवर्तकमित्याह न कर्तेत्यादि । कस्यचित्कृष्यादेः कश्चित्कर्ता न नियतिनिरपेक्षः कर्ता न । तथा नियोगे नियोगानुष्ठाने ऽपि नियतिनिरपेक्षः कश्चिदीश्वरो न नियतिनैरपेक्ष्येण समर्थो न । यतो लोको लोकव्यवहारः स्वभावे ईश्वरसहिते प्राक्कृतस्वकर्मणि वर्तते तदधीनो वर्तते । तस्य च स्वभावस्य कालः परायणम् । सहकारीत्यर्थः । तदुक्ते सूतसंहितायां शिववाक्येन “स्वभावादेव संभूतं समस्तमिति केचन । तन्न सिध्यति विप्रेन्द्रा देशकालाद्यपेक्षणात् ॥ मत्तः कर्मानुरूपेण जगज्जन्मादि जायते । एष स्वभावो विप्रेन्द्रा इति वेदार्थनिर्णयः ॥ न मया केवलेनापि न च केवलकर्मणा । प्राणिनां कर्मपाकेन मया च मुनिसत्तमाः । जगतः संभवो नाशः स्थितिश्च भवति द्विजाः ॥ " इति ॥

४।२५।५ ॥

कालात्मा भगवानेव सर्वकर्मप्रवर्तक इत्याह न काल इति । कालो भगवानीश्वरः कालं स्वकृतां कालव्यवस्थां जन्ममरणादिरूपां नात्येति नातिक्रामति, स भगवान्कालो न परिहीयते । अनुक्षणं जगद्धानिकरस्य हानिकारणाभावात् । स्वभावमुक्तलक्षणं समासाद्य किञ्चिदत्युत्कृष्टमपि जीवजातं नातिवर्तते । उत्पत्तियोग्यमुत्पद्यते नश्वरं नश्यत्येवेत्यर्थः ॥ ४।२५।६ ॥

स च भगवान्न पक्षपातस्वभाव इत्याह न कालस्येति । न कालस्य बन्धुत्वमस्ति । प्राप्तकालं वस्तु सर्वथा संहरत्येव । न तु पक्षपातेन किमपि त्यजतीत्यर्थः । न हेतुः स्वसृज्ये स्वनाश्ये वा स्वकृतव्यवस्थातिरिक्तकारणानिरपेक्ष इत्यर्थः । यद्वा प्राप्तकालसंहारनिवर्तने न कश्चिदपि हेतुर्मन्त्रतन्त्रौषधादिः प्रभवतीत्यर्थः । तस्यैव प्रपञ्चः न पराक्रमः । महापराक्रमवतामपि कालं प्राप्ते संहारो भवत्येव । न मित्रज्ञातिसंबन्धो न बहुमित्रता न बहुज्ञातिता प्राप्तकालसंहारनिवर्तने हेतुः । सो ऽपि भगवानात्मनः प्रत्यग्वर्गस्य जीवजातस्य न वशस्तदिच्छाधीनो न, किंतु परमस्वतन्त्र एव । तेन च भगवता कालेन क्रियमाणो नियत्यधीनः स्वस्वकर्मपरिणाम एव सर्वसुखदुःखादिलाभ इत्येव साधु पश्यता सुमतिना विवेकवता द्रष्टव्यो ज्ञातव्यः, नतु विषादहर्षौ कर्तव्यौ नापि स्वसामर्थ्यनिन्देति भावः । एवं धर्मादयो ऽपि, चादधर्मादयो ऽपि, कालक्रमेणैव समाहिताः संपादिता भवन्ति ॥ ४।२५।७,८ ॥

प्रकृतमाह इत इति । सामदानाभ्यामर्जितैरर्थसंयोगैरैश्वर्यैः पवित्रं शुभं क्रियाफलं भोगमिह लोके प्राप्तवान्वाली इतो लोकाद्देहाच्च गतो ऽपगतः स्वां प्रकृतिं गतः प्राप्तः । कार्याणां कारणे लयात् । एवं चन्द्रलोकं गतो वालीति सूचितम् ॥ ४।२५।९ ॥

स्वधर्मस्य संयोगात्तेन महात्मना वालिना पूर्वं स्वर्गो जितो ऽर्जितः । युद्धे प्राणानपरिरक्षतेदानीं परिगृहीतश्च प्राप्तश्च ॥ ४।२५।१० ॥

एषा नियतिः कालकृतव्यवस्थाप्राप्तिः । प्राप्तकालम् कर्मेति शेषः ॥ ४।२५।११,१२ ॥

अस्य प्रेतकार्यं कुर्वित्यन्वयः । दहनं प्रति दहननिमित्तम् यतस्वेति शेषः ॥ ४।२५।१३ ॥

वालिसंस्कारनिमित्तं काष्ठान्यानेतुं समाज्ञापयति संबन्धः ॥ ४।२५।१४ ॥

त्वं सुग्रीव अङ्गदं समाश्वासय ॥ ४।२५।१५ ॥

कः कुत्राज्ञापनीयस्तत्राह अङ्गदस्त्विति । समनन्तरमपेक्षि तत् ॥ ४।२५।१६ ॥

तारः सचिवः । संभ्रमाद्वेगात् । हि यतो ऽस्मिन्काले विशेषतस्त्वरा युक्ता, सैव चेदृशे ऽवसरे गुणवतीति संबन्धः ॥ ४।२५।१७ ॥

समर्था बलिनः शिबिकावाहनोचिता ये निर्हरिष्यन्ति ते सज्जीभवन्त्वित्यन्वयः । निर्हारो दहनदेशनयनम् ॥ ४।२५।१८२१ ॥

भद्रासनयुतां मध्ये राजोचितमहार्हासनवतीम् । पक्षिकर्मभिः पक्षिप्रतिकृतिभिरासमन्ताच्चित्रां चित्रवतीम् द्रुमकर्मभिर्द्रुमप्रतिकृतिभिर्भूषिताम् ॥ ४।२५।२२ ॥

चित्रपत्तीभिश्चित्रपदातिभिः दीर्घ आर्षः, सुनिविष्टां सुसंनिवेशाम् जालवातायनयुतां जालवन्निर्मितवातमार्गयुताम् ॥ ४।२५।२३ ॥

सुनियुक्तां सुश्लिष्टाम् । शिल्पिभिर्विशालां कृतामेवमुक्तरीत्या सुकृताम् । दारुनिर्मितक्रीडापर्वतयुक्ताम् । चारुकर्मभिः परिष्क्रियाकर्मभिः परिष्कृताम् ॥ ४।२५।२४ ॥

तदेवाह वराभरणहारैरिति । युक्तामिति शेषः । गुहागहनशब्देन शिबिकोपरि प्रसार्यमाणं पञ्जरमुच्यते ॥ ४।२५।२५,२६ ॥

विनीयतां दहनदेशमिति शेषः ॥ ४।२५।२७ ॥

उद्यम्य हस्ताभ्यां भूमेरूर्ध्वं कृत्वा ॥ ४।२५।२८ ॥

शिबिकामारोप्य शिबिकायां स्थापयित्वा ॥ ४।२५।२९ ॥

आज्ञापनप्रकारः और्ध्वदेहिकमित्यादि । और्ध्वदेहिकं तत्क्रियायोग्यं स्थानमनुकूलतो नदीतीरसमीपतः क्रियतामित्युत्तरमिति द्रष्टव्यम् ॥ ४।२५।३० ॥

विश्राणयन्तः क्षिपन्तः । इत्याज्ञापयदित्यन्वयः ॥ ४।२५।३१ ॥

तादृशौ ऋद्धिविशेषैः सत्क्रियां कुर्वन्तु ॥ ४।२५।३२,३३ ॥

प्राणिहिताः समेताः ॥ ४।२५।३४३६ ॥

विक्रोशन्तीव प्रतिध्वनिनेति शेषः । जलसंवृते समन्ताज्जलावृतभूदेशे ॥ ४।२५।३७४० ॥

महार्ह उत्तमभोगार्ह ॥ ४।२५।४१,४२ ॥

रणे सुग्रीवेण सह युद्धे ॥ ४।२५।४३ ॥

अप्लवगाः प्लुतगतिमजानन्त्यः । विकृष्टं दूरम् ॥ ४।२५।४४४६ ॥

यथापुरं यथापूर्वं क्रीडामहे । त्वया सहेति विललापेति शेषः ॥ ४।२५।४७४९ ॥

अपसव्यमपसव्यपरिक्रमणम् ॥ ४।२५।५० ॥

विधिवद्देवांशत्वेन स्वयंज्ञातवेदत्वाज्ज्ञानवत् तिर्यग्देहोचितविधिवदित्यर्थः, विधिवदग्निहोत्रविधिनेत्यर्थ इत्यन्ये ॥ ४।२५।५१,५२ ॥

प्रेतकार्याणि जलदानादिरूपाण्यकारयत् तदितिकर्तव्यतामुपदिष्टवानित्यर्थः ॥ ४।२५।५३,५४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥ ४।२५ ॥