०२४ सुग्रीवविलापः-तारासान्त्वनं च

तां ताराम् । आशु वेगेन शोकमहार्णवेनाभिप्लुतां खिन्नाम् । अप्रतिमेनासदृशेन । आत्मन इति शेषः ॥ ४।२४।१ ॥

बाष्पपूर्णेन मुखेनोपलक्षितां तारां पश्यन्निर्विण्णमनाः खिन्नः संपरिदूयमानः सम्यगनुतप्यमानः ॥ ४।२४।२ ॥

उदात्तं धीरोदात्तस्वभावम् । लक्षणैः सामुद्रिकशास्त्रोक्तराजलक्षणैर्लक्षितमङ्गं यस्य तम् ॥ ४।२४।३ ॥

दृष्टफलं राज्यभोगफलं कर्म वालिवधरूपम् । हतजीवितेन कुत्सितजीवितेन साध्येषु भोगेष्वित्यन्वयः ॥ ४।२४।४ ॥

अस्यां तारायाम् । पुरे तत्स्थे जने ऽतिविक्रोशत्यत्यन्तं रुदति । अङ्गदे संशयिते पितृवियोगात्संशयितजीविते ॥ ४।२४।५ ॥

अतिविप्रधर्षाद्भातृकृताधिकपराभवाद्धेतोर्ममोत्पन्नात्क्रोधादमर्षादसहिष्णुतया च सुतीक्ष्णमतिशयेन प्रतप्स्ये तपामि ॥ ४।२४।६ ॥

यथातथा येनकेनापि प्रकारेण । स्ववृत्त्या स्वजात्युचितवृत्त्या वर्तयतो जीवत ऋष्यमूकवास एव श्रेयो मन्ये, न तु त्रिदिवस्य लाभ इत्यन्वयः ॥ ४।२४।७ ॥

तद्वचस्तस्यैवानुरूपम् । ईषत्करघाते ऽपि मयि तदकृत्वान्तरभ्रातस्नेहबद्धतया त्वां न जिघांसामि । कदापि चर गच्छेति यत्तद्वच इत्यर्थः । इदं कर्म भ्रातृवधरूपं वचस्तदर्थमाकारणरूपम् ॥ ४।२४।८ ॥

कामः पुरस्कृतो येन तादृशो ऽपि भ्राता राज्यस्य तत्सुखस्य दुःखस्य भ्रातृवधे भाविदुःखस्य सारं तारतम्यं विचिन्तयन्विचारयन्कथं भ्रातुर्वधं रोचयेत । एवं चाहं तत्तारतम्यानभिज्ञ इति भावः ॥ ४।२४।९ ॥

उक्तमेव विवृणोति– वधो हीति । मां हन्तुं तस्य मतिर्नासीदित्यर्थः । तत्र

हेतुः– स्वमाहात्म्यव्यतिक्रमादनुचितकर्मकारी वालीत्ययशःप्रसङ्गभयात् । प्राणहारी भ्रातुरिति शेषः । व्यतिक्रमो ऽन्यायः ॥ ४।२४।१० ॥

द्रुमशाखया ऽवभग्नः पलायितः, अत एव मुहूर्तं परिनिष्टनंस्त्वामाक्रोशन्यदा ऽभवं तदा तेन भ्रात्रा सान्त्वयित्वा पुनरेवं दुश्चेष्टां कर्तुं नार्हसीत्युक्तः, न पुनार्मां हतवानित्यर्थः ॥ ४।२४।११ ॥

अत एव भ्रातृत्वमित्यादि ॥ ४।२४।१२ ॥

अचिन्तनीयं चिन्तयितुमप्ययोग्यम् अत एवार्यैर्नित्यं परिहरणीयं यत्किञ्चिदुपाधिनाप्यनीप्सनीयम् आत्मकर्तृकमपि सर्वथा ऽनवेक्षणीयं दर्शनानर्हमिदं प्राप्तो ऽस्मि । इदंपदार्थमाह– पाप्मानमिति । हे वयस्य भ्रातुर्ज्येष्ठस्य भ्रातुर्वधात्पाप्मानं तद्रूपं वस्त्वित्यर्थः । त्वाष्ट्रो विश्वरूपः ॥ ४।२४।१३ ॥

प्रतिपत्तुं प्राप्तुं क इच्छेत्को वा सहेत ग्रहीतुं शक्नुयादित्यर्थः ॥ ४।२४।१४ ॥

प्रजानां संमानं ताभिः क्रियमाणं स्वसंमाननमपि नार्हामि पापग्रस्तत्वात् । न यौवराज्यं ज्येष्ठस्य पुत्रमङ्गदं राज्ये कृत्वा यथाप्राप्तं यौवराज्यमित्यर्थः । एवंविधं कर्म कृत्वा राज्यं सर्वथा नार्हामीत्यन्वयः ॥ ४।२४।१५ ॥

क्षुद्रस्य क्षुद्रयोग्यस्य लोके इहलोके विगर्हितस्य निन्दितस्य लोकापकृतस्य परलोके ऽपरमार्थसाधनस्य पापस्य कर्ता ऽस्मि । अतो महाञ्शोको मामिव तथाभिवर्तते यथा वृष्टेरम्बुवेगो निम्नम् । इवशब्दस्तथाशब्दार्थे ॥ ४।२४।१६ ॥

सोदर्यघात एवापरगात्रभागो वालश्च यस्य तज्जसन्ताप एव हस्ताक्षिशिरोविषाणं यस्य सः दृप्तो मत्तः प्रवृद्धो महान् ॥ ४।२४।१७ ॥

हे नृवर इदमहं पापम् । बत खेदे । अविषह्यं सोढुमशक्यं प्राप्य मे हृदि स्थितं साधु वृत्तं जन्मान्तरार्जितपुण्यं निवर्तते । विवर्णम् अत एवाग्नौ परितप्यमानं जातरूपमविषह्यमशक्यसहावस्थानं प्राप्य किट्टं मलं यथा निवर्तते तथेत्यर्थः । यथा बलवतोत्तमेनाधमः स्थातुं न शक्नोति, तथा बलवता ऽधमेन सहोत्तमो ऽपीत्याशयः । एवं चानेन पापेन सर्वपुण्यक्षयो जात इति तात्पर्यम् । केचित्तु– अग्नौ परितप्यमानं जातरूपं स्वर्णं यथा विवर्णं विवर्णताकारकं किट्टं दाहकक्षारद्रव्यं प्राप्य निवर्तते भस्म भवति तथेत्यर्थ इत्याहुः ॥ ४।२४।१८ ॥

मन्निमित्तम् मयैतत्स्वामिवधादिति भावः । अपि चास्याङ्गदस्य शोकतापाच्च । इतीव मन्य इत्यत्प्रेक्षाबोधकम् ॥ ४।२४।१९ ॥

सुलभ्यः सुलभ इत्यर्थः ॥ ४।२४।२० ॥

अङ्गदो न जीवेत् । यदि जिवेत्तदा माता तारा पुत्रपालनाय जीवेत् । तदभावे तु सा सर्वथा न जीवेदित्यर्थः ॥ ४।२४।२१ ॥

सख्यं समानत्वम् । निदेशे त्वदाज्ञायाम् ॥ ४।२४।२२ ॥

अनुजानीहि अग्निप्रवेशायेति शेषः ॥ ४।२४।२३ ॥

सञ्जातबाष्पो दुःखिप्राणिदर्शनेन । महतामयं स्वभावः ॥ ४।२४।२४ ॥

तस्मिन्क्षणे तस्मिन्नवसरे तारां रुदन्तीमभीक्ष्णं वारंवारमवेक्षमाणो जीवन्तीमिच्छन्क्षितिरिव क्षमावान्समुत्सुकः शोकापनयनायेति शेषः ॥ ४।२४।२५ ॥

कपिसिंहनाथां कपिसिंहानां स्वामिनीम् ॥ ४।२४।२६,२७ ॥

पुरुषप्रधानं पुरुषश्रेष्ठम् । सो ऽङ्गदोक्तः काकुत्स्थो ऽयमिति प्रजज्ञ इति संबन्धः ॥ ४।२४।२८ ॥

परिविह्वलन्ती कष्टेन स्खलनपूर्वं गच्छन्ती ॥ ४।२४।२९ ॥

संभ्रान्तो विस्मृतः शरीरभावो राजस्त्रीत्वादिर्यया सा । रणेषु युद्धेषूत्कर्षणेन सर्वाधिकोत्कर्षेण लक्ष्यं येन । सर्वतो ऽधिकवेध्यवेधक इत्यर्थः ॥ ४।२४।३० ॥

अप्रमेयो देशतः कालतश्चापरिच्छेद्यो गुणेयत्तया दुर्ज्ञेयश्च । दुरासदो योगिभिरपि प्राप्तुमश्क्यः । उत्तमधर्मकः पुरुषोत्तमधर्मा । अक्षीणकीर्तिः पापवदाभासमानेनापि कर्मणेति शेषः । अत एव पुरुषोत्तमधर्मा क्षतजोपमाक्षो रक्ताक्षः ॥ ४।२४।३१ ॥

आत्तबाणासनश्चासौ बाणपाणिश्चेति कर्मधारयः । संहननं दृढगात्रता, तादृशेन त्वया हतो वाली मनुष्यदेहाभ्युदयं मनुष्यलोकवर्तिदेहप्राप्यमभ्युदयसुखं विहाय दिव्यदेहेन प्राप्यो यो ऽभ्युदयस्तेन युक्तः । समास आर्षः ॥ ४।२४।३२ ॥

अतः– येनैवेति । रमेत रंस्यते ॥ ४।२४।३३ ॥

पद्मस्यामलं यत्पत्रं तद्वन्नेत्र । समेत्याप्सरोभिस्ताः संप्रेक्ष्य च मामपश्यन्न रमेतेत्यन्वयः । उच्चावचैर्नानाप्रकारैस्ताम्रै रक्तपुष्पैः कृतः शेखरो याभिस्ता अप्सरसो नाभजिष्यन्न भेजिष्यति । रक्तपुष्पधारणं वालिवशीकरणाय ॥ ४।२४।३४ ॥

तटावकाशे तटदेशे ॥ ४।२४।३५ ॥

यद्वनिताहीनो दुःखं प्राप्नोति तत्त्वं वेत्थ, अतस्तज्जानंस्त्वं मां जहि । कुमारः सुन्दरः पुरुषः । यद्वा दुःखहेतुमाह कुमार इति । कुत्सितो मारो यस्य मारकत्वेन मदनस्य प्रसिद्धेः, अथा कुत्सितो मारो मरणं यस्य मरणादपि दुःखजनकत्वादेवमुक्तिः । भावे घञ् ॥ ४।२४।३६ ॥

मह्यं स्त्रीघातदोषो भवेदिति भवान्महात्मा मन्येत तदपि न । इयं तारा ऽस्य वालिन आत्मेति ज्ञात्वा जहि । एवं च तदभिन्नत्वान्मम न ते स्त्रीवधदोष इति भावः । महात्मेत्येनेन ताटकावधादिकृतवतः स्त्रीवधो ऽकिञ्चित्कर इत्यपि सूचितम् ॥ ४।२४।३७ ॥

स्त्रीणां पुरुषात्मत्वमेव साधयति– शास्त्रेति । शास्त्रे शास्त्रीययागाद्यनुष्ठाने प्रकर्षेण सहैव योगादधिकारात् । विविधाच्च वेदात् । “अर्धो वा एष आत्मनो यत्पत्नी” इति श्रुतेः । अनन्यरूपा अभिन्नरूपाः । न केवलं दोषाभावमात्रम्, अपि तु स्त्रीदानफलमपीत्याह– दारेति । अन्यदधिकं दानं नेति भावः ॥

४।२४।३८ ॥

त्वं चापीति । एवं च “धर्मेण पापमपनुदति” इति न्यायेनापि हे वीर ते न मद्वधाद्दोष इति भावः । यद्वा मम वीरस्य पत्युश्छलेन घातात्प्राप्तमधर्मसंबन्धं न लप्स्यसे । किं च तत एव मच्छापतः प्राप्तमधर्मयोगमधर्मफलयोगं स्त्रीवियोगरूपं न लप्स्यसे ममावधे तु लप्स्यस एव । अत एव क्वचित्पठ्यते “अचिरेणैव कालेन त्वया वीर्यबलाहृता । सा सीता मम शापेन न चिरात्त्वयि वत्स्यति ॥ " इति ॥

४।२४।३९ ॥

अपनीयमानाम् प्रियसकाशादन्यत इति शेषः । अहन्तुं नार्हसि अपि तु हन्तुमेवेत्यर्थः । तत्र हेतुः अहं हीति ॥ ४।२४।४० ॥

वरार्होत्तमहेममालिना श्रेष्ठयोग्योत्तमस्वर्णमालावता ॥ ४।२४।४१ ॥

विमतिं मरणविषयां विरुद्धमतिम् । सर्वो लोको विधात्रा विहितो ऽहरादौ सृष्टस्तं लोकं सुखदुःखाभ्यामवर्ज्याभ्यां योगो ऽस्य तं तेनैव विधात्रा कृतम् । लोक्यते ऽनेनेति लोको वेदो ऽब्रवीत् । “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति” इति श्रुतेः ॥ ४।२४।४२ ॥

त्रयो ऽपि लोका लोकत्रयवासिनो ऽपि जना विधातृविहितं विधानं नातिक्रमन्ते । हि यतस्तस्य वशगा ब्रह्मादिस्थावरान्ताः । वाली परां प्रीतिं त्वत्संबन्धजां प्राप्स्यति मत्सङ्कल्पात् । किं च भवत्यपि वालिसंबन्धजां प्रीतिं सुग्रीवसंबन्धात्प्राप्स्यसि । ते पुत्रो यौवराज्यं प्रप्स्यति च । चेनाहमपि सापं प्राप्स्याम्येवेति ॥ ४।२४।४३ ॥

धात्रेदं विधानं तथैव विहितम्, यथा मयोक्तं कृतं च । अनेन सर्वज्ञत्वशक्तिराविष्कृता । एवमीश्वरकृतं सर्वं ज्ञात्वा शूरपत्न्यो न शोचन्ति । ध्वनता मुखेनोपलक्षिता विरराम त्यक्तपरिदेवना ऽभूत् ॥ ४।२४।४४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥ ४।२४ ॥