०२२ वालिमरणम्

सर्वतो वीक्षमाणः स आत्मजस्याग्रतः स्थितं सुग्रीवमेवादौ ददर्श ॥ ४।२२।१ ॥

आभाष्य सुग्रीवेति संबोध्य ॥ ४।२२।२ ॥

हे सुग्रीव मां किल्बिषात्प्राग्भवीयदुष्कृतवशाद्भविष्येण भविष्यता ऽवश्यंभाविना बुद्धिमोहेन त्वयि शत्रुबुद्धिरूपेण बलात्कृष्यमाणं मां ज्ञात्वा त्वं दोषेण स्वापकारदोषवत्त्वेन मां गन्तुमवगन्तुं नार्हसि ॥ ४।२२।३ ॥

कार्यानुमितं कर्मप्राबल्यं दर्शयति– युगपदिति । भ्रातृयुक्तं भ्रात्रोर्युक्तमुचितं सौहार्दं सुखं च राज्यसुखं चावयोः कर्मणा युगपन्न विहितमिति मन्ये, यतस्तदिदमुचितमपि सौहार्दं सुखं चान्यथा जातम् विघटितमित्यर्थः ॥ ४।२२।४ ॥

अथ रामशरक्षीणपापत्वात्प्राप्तदिव्यप्रकृतिः स्वयमेव सुग्रीवाय स्वानन्तरं प्राप्तं राज्यं ददाति प्रतिपद्येति । प्रतिपद्यस्वेत्यर्थः । वैवस्वतक्षयं यमगृहम् । ननु राजनि मृते तत्पुत्र एव राज्याधिकारी न तु तत्कनीयान्भ्रातेति चेन्न, पुत्रस्य बालत्वेन राज्यरक्षणासामर्थ्याद्बलवदाश्रितत्वाच्च पुत्रनाशो मा भूदिति तथोक्तेः । भगवता रामेणापि राज्यरक्षणासामर्थ्येनाङ्गदस्य सुग्रीवो ऽभिषिक्तो राज्ये । यौवराज्ये चाङ्गदः । सुग्रीवानन्तरं त्वङ्गदस्यैव राज्याधिकारः, न तु सुग्रीवपुत्राणामज्येष्ठपुत्रत्वादित्याहुः ॥ ४।२२।५ ॥

अगर्हितं यशः प्रशस्तं यशो वाली केनाप्यवध्य इत्येवम् । तच्च प्रजहामि एकेनैव शरेण रामहतत्वादिति प्राञ्चः । अन्ये तु– चस्त्वर्थे यश इत्युत्तरं बोध्यः । अगर्हितं यशस्तु प्राप्नोमीति शेषः । वाली भगवता रामेण छन्नेन हत इत्येवंरूपं च यश इत्याहुः ॥ ४।२२।६ ॥

अस्यामवस्थायां चरमदशायां यद्यप्यसुकरं मयात्यन्तमपकृतत्वात्, तथापि कर्तुमर्हस्येवेति योजना । सात्त्विकत्वात्सात्त्विकसमाश्रयणाच्चेत्याशयः । स्वयं राज्यस्य दत्तत्वाद्राजन्निति संबोधनम् ॥ ४।२२।७ ॥

तदेवाह सुखर्हमिति । अबालिशं समर्थम् ॥ ४।२२।८ ॥

प्राणैः प्राणेभ्यो मम पुत्रं स्वमौरसं पुत्रमिवाहीनार्थमक्षीणैहिकसकलप्रयोजनं यथा तथा सर्वतः सर्वत्र देशे काले च पालय । स्वानन्तरमस्यैव राज्यं देहीति व्यङ्ग्यम् ॥ ४।२२।९ ॥

पालनप्रकारमेव दर्शयति– त्वमपीति । सर्वत्र भवेति शेषः ॥ ४।२२।१० ॥

उक्तं स्वपुत्रस्याबालिशत्वं दर्शयति एष इति । रक्षसां वधे रामप्रत्युपकारप्रसङ्गप्राप्ते ॥ ४।२२।११ ॥

अनुरूपाणि मदनुरूपाणि ॥ ४।२२।१२ ॥

तारारक्षणं तत उपकारमादर्श्य सूचयति सुषेणेति । तद्दुहिता तारा अर्थानां मध्ये सूक्ष्मः परमदुर्ज्ञेयो यो ऽर्थस्तस्य निश्चये, औत्पातिके विविधे नानाप्रकारोत्पातमूचितापत्कालिकानुष्ठेयनिश्चये, सर्वत ऐहिकामुष्मिकनिश्चये च, परिनिष्ठिता ऽतिसमर्था ॥ ४।२२।१३ ॥

ततः किं तत्राह यदिति । तत्कार्यं त्यक्तसंशयं कार्यमनुष्ठेयम् । तदेव द्रढयति नहीति । मदनुभवसिद्धमेतदिति भावः । अनेन त्रैवर्णिकेतरत्वेन तरुणत्वेनावश्यं कर्तव्यपुरुषान्तरस्वीकारायास्ताराया देवरत्वात्सुग्रीवस्य स्वीकारो ऽप्यनुमत इति गम्यते ॥ ४।२२।१४ ॥

अथ भ्रात्रे वक्तव्यमुपदेशमाह राघवस्येति । अकरणे ऽधर्मः स्यात् मिथ्याप्रतिज्ञात्वापत्तेरिति भावः । एवं पारलौकिकमनिष्टं प्रदर्श्यैहिकमपि तदाह– त्वां चेति । मामिव धर्मभ्रष्टत्वादिति भावः ॥ ४।२२।१५ ॥

अथ राज्यानुमतिं क्रियया ऽपि दर्शयति इमां चेति । उदारा प्रशस्ता श्रीर्जयलक्ष्मीरस्यां स्थिता महेन्द्रानुग्रहात्, हि यतो मृते मयि शवस्पर्शादेनां सा श्रीर्जह्यात् अत इदानीमेवेमां गृहाणेति भावः ॥ ४।२२।१६ ॥

एवं वालिवचः श्रुत्वा, पूर्वं वाली दुष्ट इति बुद्ध्या तद्वधे जातं हर्षमिदानीमेव सौमनस्यदर्शनेन त्यक्त्वा दीनः विषण्णो ऽभूदित्यर्थः । ग्रहग्रस्तो राहुग्रस्तः ॥ ४।२२।१७ ॥

तद्वालिवचनात्तादृशवालवचनेन शान्तः शान्तवैरो युक्तं भ्रातृस्नेहोचितदर्शनादिव्यवहारमतन्द्रितः कुर्वन्मालाग्रहणे वालिना ऽभ्यनुज्ञातो मालां जग्राह ॥ ४।२२।१८ ॥

प्रेत्यभावाय संसिद्धो निश्चितमरणः ॥ ४।२२।१९ ॥

देशकालौ तत्तत्कर्मोचितौ भजस्व जानीहि । प्रियाप्रिये इष्टानिष्टयोगजे काले सेवाकाले सुग्रीववशगस्तत्सेवापरो भव ॥ ४।२२।२० ॥

विपक्षे बाधकमाह यथा हीति । बालतया केवलं लालितो यथा सेवोचितकाले ऽपि सेवारहितो ऽवर्तिष्ट, तथा सेवाराहित्येन वर्तमानं त्वां सुग्रीवो न बहु मन्येत, अतः सेवां कुर्वित्युपदेशः ॥ ४।२२।२१ ॥

किं चास्य सुग्रीवस्यामित्रैरनुपकारकैस्तथा शत्रुभिरपकारकैश्च गतं संगतं सख्यं मा गच्छेः मा गच्छ । भर्तुः सुग्रीवस्यार्थपरः प्रयोजनसाधनपरः ॥ ४।२२।२२ ॥

नातिप्रणयः पुत्रत्वात् अप्रणयश्च न कार्यः अस्मद्वधादिना ऽन्तरदृक् “अत्यासत्तिर्विनाशाय त्वतिदूरं तु निष्फलम् । सेवा मध्यमभावेन राजवह्निगुरुस्त्रियाम् ॥ " इति न्यायेन मध्यममार्गमवलम्बस्वेत्याशयः ॥

४।२२।२३,२४ ॥

हतो यूथपो येषां तादृशाः परिदेवयमाना विचुक्रुशुरित्यन्वयः ॥ ४।२२।२५ ॥

अस्यैव प्रपञ्चःकिष्किन्धेत्यादि ॥ ४।२२।२६,२७ ॥

गोलभत्य तदाख्यस्य । महद्युद्धं पञ्चदशवर्षावध्यहोरात्रमविश्रमं युद्धम् । तदेवाहनैवेति ॥ ४।२२।२८ ॥

दंष्ट्राकरालवान् आर्षः स्वार्थे मतुप् दंष्ट्राकराल इत्यर्थः । अस्माकं सर्वाभयंकरः सर्वेभ्यो ऽभयङ्करः स एष वीरः कथं निपातितः ॥ ४।२२।२९ ॥

वनेचराः प्लवङ्गमा न शर्म लेभिरे इत्यन्वयः । अपरं वनेचरा इति गवां विशेषणम् ॥ ४।२२।३० ॥

“समीक्ष्य सा” इति पाठः ॥ ४।२२।३१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्कान्धाकाण्डे द्वाविंशः सर्गः ॥ ४।२२ ॥