तत इति ॥ ४।२१।१ ॥
जन्तुः फलहेतुकं स्वर्गनरकादिफलसाधनं स्वार्थे कः । गुणैः शमादिभिः, दोषेण रागादिना वा कृतं यत्स्वकर्मास्ति तत्तस्य शुभाशुभरूपं फलं प्रेत्याव्यग्रो ऽनाकुलो ऽवाप्नोति । गुणदोषकृतं ज्ञानाज्ञानकृतमित्यर्थ इति कश्चित् ॥ ४।२१।२ ॥
शोच्या पापपुण्यकर्मपाशवशगत्वेन शोचनीया त्वं कमन्यं शोच्यं शोचसि । कर्मवशगं भर्त्रादिकम् । कर्मफलवशतो दीना त्वं कमन्यं पुत्रादिकमनुकम्पसे । बुद्बुदोपमे देहे ऽतीते कः कस्यानुशोच्यो ऽस्ति । उपलक्षणं, कस्य को नु शोचको ऽस्तीत्यपि बोध्यम् । विदुषो नोचितः शोक इति भावः ॥ ४।२१।३ ॥
द्रष्टव्यः वालिशोकनिवृत्त्यर्थमिति शेषः । अस्य वालिनो मरिष्यमाणस्यायत्यां मरणोत्तरतत्काले यानि विधेयानि कार्याणि समर्थानि श्रेष्ठानि तानि त्वं चिन्तय विचारय ॥ ४।२१।४ ॥
अनितयतामव्यवस्थिताम् । तस्माच्छुभं परलोकसुखावहं यत्तत्कर्तव्यम् । हे पण्डिते इह पतिपित्रादिवियोगकाले न लौकिकं बहुरोदनादि कर्तव्यम् । प्रीतिमात्रबोधकतया मृतेष्टासाधनत्वेन च तस्य लौकिकत्वम् ॥ ४।२१।५ ॥
यस्मिन् जीवतीति शेषः । कृताशानि कृतभोग्याशानि । वर्तयन्ति जीवन्ति । दिष्टान्तमायुर्दायरूपकल्पितकालान्तरम् ॥ ४।२१।६ ॥
न्यायेन नीतिशास्त्रेण दृष्टो ऽर्थो राजकार्यं येन । सामादिपरो वानरेषु धर्मजितां धर्मेण भूमिं जितवतां राज्ञां भूमिं स्थानं गतः, गन्तेत्यर्थः । अतो नैतच्छोक उचितः ॥ ४।२१।७ ॥
त्वमपि न शोककरणार्हेत्याह सर्वे चेति । त्वत्सनाथं त्वयैवैकया सनाथम् ॥ ४।२१।८ ॥
ताविमौ सुग्रीवाङ्गदौ शनैः प्रेरय उत्तरकार्यकरणायेति शेषः ॥ ४।२१।९ ॥
सन्ततिरङ्गदो यथा दृष्टा यत्प्रयोजनकतया शास्त्रे दृष्टा, यच्च राज्ञः सांप्रतं परलोकहितं कृत्यं तत्क्रियताम् एष कालस्येदानीन्तनकालस्योचितो निश्चयो ऽनुष्ठाननिश्चयः ॥ ४।२१।१० ॥
तदेवाह संस्कार्य इति । रामबाणस्यामोघत्वान्मरणनिश्चयेनैवमुक्तिः ॥ ४।२१।११,१२ ॥
यदुक्तम् “पुत्रेण सुखिनी भव” इति तत्प्रत्याख्याति तारा अङ्गदेति । अङ्गदतुल्यानां पुत्राणां शतमेकतः सुखसाधनैककोटौ, हतस्यापि पत्युर्गात्रसंश्लेषो ऽपरकोटौ तयोर्मध्ये द्वितीयो वरमतिशयितमुखसाधनम्, परलोके परमानन्दहेतुत्वात् । तस्मात्सहगमनं करिष्य इति भावः ॥ ४।२१।१३ ॥
राज्यं त्वदधीनमिति यदुक्तं तन्निराचष्टे न चेति । न राज्यस्य प्रभवामि न योग्या स्त्रीत्वात् । अङ्गदस्य व राज्यदाने न प्रभवामि अनन्तरः समर्थो मत्तः प्रत्यासन्नश्च ॥ ४।२१।१४ ॥
एषा बुद्धिर्मत्कर्तृकाभिषेकबुद्धिः । पिता तत्तुल्यः सुग्रीवो बन्धुः सुखदानाधिकारी न मातेत्यर्थः ॥ ४।२१।१५,१६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकविंशः सर्गः ॥ ४।२१ ॥