०२० ताराविलापः

अन्तकरेण मृत्युकारिणा ॥ ४।२०।१,२ ॥

उन्मूलमुत्पाटितमूलं पतितमिति शेषः ॥ ४।२०।३ ॥

प्लवतां वानराणां श्रेष्ठ इदानीं पुरोभागामेतस्मिन्काले कृतापराधां मत्वा ऽद्य नाभिभाषसे किमित्यन्वयः ॥ ४।२०।४६ ॥

हे वीर धर्मतः संप्रवर्तता धर्मेण युद्धमाचरता त्वया ऽद्य स्वर्गमार्गे स्वर्गसाधनरणभूमौ किष्किन्धेवान्या रम्या पुरी निर्मिता । नो चेत्कथं किष्किन्धां विहायात्र शेष इत्यर्थः । कतकस्तु धर्मतः प्रवर्तिता रक्षिता किष्किन्धेवान्या ऽपि स्वर्गमार्गे स्वर्गरूपदेशे निर्मितेत्यर्थमाह ॥ ४।२०।७ ॥

यानि त्वया सार्धं विहृतानि तेषामत्र काले त्वयोपरमः समाप्तिः कृता ॥ ४।२०।८,९ ॥

मह्यं मम हृदयं सुस्थितमतिदृढम्, यत्त्वां पतितं दृष्ट्वा न स्फुटते ॥ ४।२०।१० ॥

स विवासित इति यत्तत्प्रसिद्धं कर्म, तस्य कर्मण इयं व्युष्टिः परिपाकः प्राप्त इत्यर्थः ॥ ४।२०।११ ॥

यैषा ऽहं हितं वाक्यमब्रुवम्, सा त्वया मोहाद्विगर्हिता अस्वीकृतवचना कृतेति यावत् ॥ ४।२०।१२ ॥

दक्षिणानां विदग्धानां समर्थानां वा चित्तानि प्रमथिष्यसि प्राप्तदिव्यदेहेनाप्सरसां काममोहजननेनेति शेषः ॥ ४।२०।१३ ॥

कालः प्राप्त इति शेषः । अवपन्नः प्रापितो ऽसि । कालविशेषणं निःसंशय इति । तत्तदायुर्विषयसन्देहरहित इत्यर्थः ॥ ४।२०।१४ ॥

न सन्तप्यति तदस्थाने ऽयुक्तम् ॥ ४।२०।१५ ॥

कृपणाकृपणा ऽतिशयेन कृपणा, आबाधायां वा द्वित्वम् । पूर्वमदुःखोपचिता, अदुःखं दुःखरहितं यथा भवति तथोपचिता वर्धिता ॥ ४।२०।१६ ॥

मे मया लालितः । कामवस्थां प्राप्य वत्स्यत इत्यर्थः ॥ ४।२०।१७ ॥

पितरं सुदृष्टं कुरुष्व ॥ ४।२०।१८ ॥

मूर्ध्न्यैनमुपाघ्राय सन्देशं कर्तव्योपदेशं सन्दिशस्वेत्यन्वयः । प्रस्थितः प्रस्थातुकामः ॥ ४।२०।१९ ॥

प्रतिश्रवे प्रतिज्ञाविषये । अनेन रामस्य वालिवधविषयदोषाभावो ध्वनितः ॥ ४।२०।२० ॥

शस्तो हिंसितः ॥ ४।२०।२१,२२ ॥

तस्या विलपितं ताराया विलापम् ॥ ४।२०।२३ ॥

किमङ्गदं साङ्गदवीरबाहो साङ्गदो वीरहन्ता बाहुर्यस्य तादृश । गुणसंनिकृष्टं गुणैस्तव प्रत्यासन्नम् प्रियश्चारुर्वेषो यस्य तं पुत्रं विहाय चिरं प्रवासं गन्तुं न युक्तमित्यन्वयः ॥ ४।२०।२४ ॥

असंप्रधार्याविचार्य । हरिवंशानां वानरसमूहानां नाथ व्रजामि स्पृशामीत्यर्थः ॥ ४।२०।२५ ॥

यत्र वाली तत्रोपभुवि तद्भूसमीपभुवि प्रायमुपवेष्टुं प्रायोपवेशं कर्तुं व्यवस्यत निश्चितवती ॥ ४।२०।२६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे विंशः सर्गः ॥ ४।२० ॥