०१९ तारागमनम्

हेतुमद्वाक्यैर्हेतूपन्यासयुतैर्वाक्यैः । प्रत्युक्त उक्तप्रत्युत्तरः ॥ ४।१९।१ ॥

जीवितान्ते तत्समये । मुमोह विसंज्ञो ऽभूत् ॥ ४।१९।२,३ ॥

अप्रियमिति छेदः । सपुत्रा, पुत्रो ऽङ्गदः । गिरिकन्दरं गिरिगह्वरं किष्किन्धाख्यम् ॥ ४।१९।४,५ ॥

सा तारा । आपततः पलायमानान् ॥ ४।१९।६ ॥

इषुभिरनुबद्धानिवानुसृतानिव । रामवित्रासितान्रामाद्वित्रस्तान् ॥ ४।१९।७ ॥

वचनमाह– वानरा इति । यस्य वालिनः । दुर्गता वस्त्रादिकमपश्यन्तः ॥ ४।१९।८ ॥

भ्राता प्रयोजककर्ता । रामः प्रयोज्यकर्ता । बाणः करणम् । दूराद्दूरे स्थित्वा तैः स पातितश्चेत्किं युष्माभिः पलायितमिति शेषः । तत्सेवयैव भवज्जीवनसंभवादिति भावः ॥ ४।१९।९ ॥

प्राप्तकालं कालोचितम् । अविश्लिष्टं सर्वसंमतिपूर्वमेकरूपम् । “अविक्लिष्टम्” इति पाठे व्यक्तमित्यर्थः । अङ्गनां वालिन इति शेषः ॥ ४।१९।१० ॥

पुत्रं रक्षस्व रामादिति शेषः । कुतः पुत्रस्य भयं तत्राह– अन्तक इत्यादि । नयति यमपुरमिति शेषः ॥ ४।१९।११ ॥

वृक्षान्वालिप्रहितान् । अयं सर्वो ऽपि संभाव्यवादः । एवं बहुबाणत्यागवादो ऽपि ॥ ४।१९।१२ ॥

अभिभूतमिव द्रुतम् । वानरं वानराणामिदम् ॥ ४।१९।१३ ॥

पदस्थं वानरराज्यपदस्थं पुत्रमङ्गदं भजिष्यन्ति । अन्यथा ऽराजके ऽत्रास्माभिरवस्थातुमश्क्यमिति भावः ॥ ४।१९।१४ ॥

अथवेति । सरामे सुग्रीवे किष्किन्धामागच्छत्यभिषिक्तेनाप्यङ्गदेनास्मत्पालनमश्क्यमेवेति नेह स्थातुं योग्यमिति शेषः । हे रुचिरानने यद्यपीदं स्थानं ते तुभ्यं रुचितमभीष्टम्, तथापीह किष्किन्धायां विद्यमानानि दुर्गाण्यद्यैव वानराः सुग्रीवहनुमदादय आविशन्ति, वर्तमानसामीप्ये लट् । तेषु प्रविष्टेषु ये अभार्याः सभार्याश्च वानराः सुग्रीवावलम्बिनः प्रागस्माभिः कृतवैरास्ते च प्रवेक्ष्यन्ति । ततश्च लुब्धेभ्यो राज्यादिविषये विप्रलब्धेभ्यः पूर्वमस्माभिर्वञ्चितेभ्यो ऽस्माकं तुमुलं महद्भयमस्ति, यत इति शेषः । केचित्तु इह ते स्थानमस्माकमरुचितमनभिमतम् । इतरत्पूर्ववदित्याहुः ॥ ४।१९।१५,१६ ॥

अल्पान्तरगतानां नातिदूरवर्तिनाम् । “अवान्तरगतानाम्” इति पाठे मध्येमार्गमागतानामित्यर्थः । तेषां वानराणां वचनं श्रुत्वा ऽ ऽत्मनः प्रतिरूपं कालोचितं बभाषे ॥ ४।१९।१७२१ ॥

पर्वतेन्द्राणां क्षेप्तारम्, रणेष्विति शेषः । रणभेदमपेक्ष्य वज्राणामिति बहुवचनप्रयोगः । महता वातेन समं तुल्यमाविष्टमावेशो यस्य रणेषु तम् ॥ ४।१९।२२ ॥

शक्रतुल्यं पराक्रान्तं पराक्रमो यस्य तम् । वृष्ट्वेव जलमुत्सृज्याविरतं नर्दतां मध्ये भीमं नर्दन्तं मृगराजं प्रभूतमांसादिमत्त्वेन मृगश्रेष्ठम् । शार्दूलो व्याघ्रः ॥ ४।१९।२३ ॥

सर्वलोकस्य सर्वलोकेनार्चितं चैत्यं चतुष्पथवर्ति वल्मीकं नागहेतोरन्तर्विद्यमाननागभक्षणार्थं सुपर्णेन गरुडेन यथोन्मथितं तथा सुग्रीवस्य राज्यभोगहेतो रामेणोन्मथितमित्यर्थः ॥ ४।१९।२४,२५ ॥

तानतीत्य मार्गस्थान्रामादीनतीत्या ॥ ४।१९।२६ ॥

संवीतं बद्धम् ॥ ४।१९।२७,२८ ॥

इति श्रीरामाभिरामे श्रीरामाभिरामे रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥ ४।१९ ॥