प्रश्रितं प्रश्रयाभासोपेतम्, एवं धर्मार्थसहितत्वं चाभासरूपमेव । तत्र “मामेव यदि पूर्वम्” इत्यादि हिताभासो ऽर्थाभासश्च । धर्माभासो राजहेत्यादि । परुषत्वं तु मुख्यमेव । निहतेन विरुद्धेन ॥ ४।१८।१,२ ॥
धर्मार्थगुणसंपन्नमित्यब्रवीदिति क्रियाविशेषणम् । अधिक्षिप्तः परुषमुक्तः ॥ ४।१८।३ ॥
लौकिकं समयं लोकाचारम् ॥ ४।१८।४ ॥
अविज्ञाने हेतुमाह– अपृष्ट्वेति । आचार्यसंमतान्स्वस्वकुलाचारशिक्षकान् । वानरत्वादेवैतदभावः । वानरत्वप्रयुक्तचापल्यादेवं वादस्तवेत्यर्थः । इच्छस्यैषीः ॥ ४।१८।५ ॥
इयं भूमिरिक्ष्वाकूणां मनुना ऽस्मत्कुलकूटस्थेन दत्तेत्यर्थः । तथा मृगादिपर्यन्तं निग्रहानुग्रहेष्वधिकारो ऽपि दत्त इति शेषः ॥ ४।१८।६ ॥
तां पितृपितामहादिक्रमागतां भुवम् । निग्रहानुग्रहे दुष्टशिष्टयोरिति शेषः ॥ ४।१८।७ ॥
यथा दृष्टो ऽपरोक्षानुभवसिद्धः स राजा ऽस्मिन्काले सर्वभूमेरिति शेषः ॥ ४।१८।८ ॥
ततः किं तत्राह– तस्येति । धर्माय कृत आदेशो नियोगो येषां ते । धर्मसन्तानं धर्मवृद्धिम् । धर्मपदमधर्मनिवृत्तेरप्युपलक्षणम् ॥ ४।१८।९ ॥
धर्मविप्रियं धर्मनाशं कश्चरेदाचरितुं शक्नुयात् ॥ ४।१८।१० ॥
ते वयमिदानीन्तनमूलप्रभुभरताज्ञया मार्गविभ्रष्टं चिन्तयामो विचारयामः । “निगृह्णीमः” इति पाठान्तरम् ॥ ४।१८।११ ॥
ततः किं तत्राह– त्वं तु कर्मणा चारित्रेण गर्हितो लोके निन्दितः, अत एव संक्लिष्टः पीडितो धर्मो येन तादृशः । कामतन्त्रं कामरूपः पुरुषार्थः स एव प्रधानो मुख्यो यस्य सः ॥ ४।१८।१२ ॥
तदुपपादयति ज्येष्ठ इति । विद्यां त्रय्यादिविद्याम् । धर्मे च पथि वर्तिनो धर्ममार्गे वर्तो वर्तनं यस्य तस्य ॥ ४।१८।१३ ॥
अत्र चिन्तने । तथा धर्मो धर्मज्ञानमेव कारणम् ॥ ४।१८।१४ ॥
तच्च न सर्वेषां सुलभमित्याह सूक्ष्म इति । सतां सूक्ष्मो यो धर्मः स परा सद्गुरूपदेशादिजा मा शोभा येषां तैरेव विज्ञेयः, अन्यैः परमत्यर्थमविज्ञेय एव । किं चेश्वर एव तज्ज्ञ इत्याह हृदिस्थ इति । सर्वभूतानामात्मा तत्त्वभूतो व्यापकश्च, अत एव सर्वप्राणिहृदिस्थः स सर्वभूतानां सर्वप्राणिनां शुभाशुभं वेद । एवं चान्तर्यामित्वात्तव पापमहं जाने इति व्यङ्ग्यमत्र ॥ ४।१८।१५ ॥
त्वं तु धर्मज्ञानप्रसक्तिहीन एवेत्याह चपल इति । जात्यन्धो जात्यन्धैरिव चपलैरकृतात्मभिराचार्याशिक्षितैर्वानरैः सह मन्त्रयन्निश्चिन्वन्किं नु कथं नु प्रेक्षसे ज्ञास्यसि, धर्ममिति शेषः । “रक्षसे नु किम्” इति पाठे रक्षणीयप्रजाजातं किं नु रक्षसि, न किमपि । अतो धर्मभ्रष्टो राजदण्ड्यस्त्वमिति भावः ॥ ४।१८।१६ ॥
अथ धर्मभ्रष्टत्वं व्यक्तमेव वक्तुमाह– अहं त्विति । अस्य वचनस्य चपलश्चपलैरिति वचनस्य व्यक्तताम् । व्यक्तो ऽर्थो ऽस्येत्यर्श आद्यजन्तं व्यक्तपदम् । तद्भावो व्यक्तता तदर्थस्तं ब्रवीमि ॥ ४।१८।१७ ॥
पश्य युक्तमयुक्तं वेति चिन्तय । वर्तसि वर्तसे ॥ ४।१८।१८ ॥
ननु “भ्रातुर्ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥ " इत्यग्रे प्रायोपवेशसमयेऽङ्गदोक्तेः सुग्रीवस्यापि ज्येष्ठभ्रातुः पितृसमस्य भार्यावमर्शनं तुल्यमित्यत आह– अस्य त्वमिति । धरमाणस्य प्राणान्धारयत एव जीवतस्त्वया निश्चीयमानजीवनस्यैव पत्न्यां तव स्नुषाभूतायां रुमायां यतो वर्तसे, अतस्त्वं स्पष्टं पापकर्मकृत् । सुग्रीवस्तु तव जीवननिश्चयाभावात्त्वत्पत्न्यां तारायां प्रागवर्तिष्ट अतः परं वर्त्स्यति च । किञ्च त्रैवर्णिकेष्वपि देवरस्य मृतभ्रातृस्त्रियामपुत्रायां वृत्तिदर्शनात्तिर्यग्योनिषु तस्यां वृत्तिर्न दोषः । तथावृत्तौ च मरणज्ञानमेव प्रयोजकं तिर्यक्ष्विति भगवदाशयः । अनेन त्रैवर्णिकेतरस्त्रीणां मृतभर्तृकाणां तरुणीनां स्वजातीयपुरुषाङ्गीकारो नाधर्म इति सूचितम् । दृश्यते च तथा व्यवहारः शूद्रादिजातौ । न च मनुष्याधिकारस्य निषेधादिशास्त्रस्य कथं तिर्यक्षु प्रवृत्तिरिति वाच्यम् । तिर्यग्योनेरपि मनुष्यवद्राजादिव्यवहारदर्शनेन मनुष्यतुल्यज्ञानवत्त्वादस्त्येवायं दोष इत्याशयात् । किञ्च धर्मेऽनधिकारिणामपीन्द्रादीनां वृत्रवधादौ ब्रह्महत्यादिदोषस्मरणेन निषेधेषु तदतिक्रमप्रायश्चित्तादौ च देवानामधिकारवदेषामप्यधिकारे बाधकाभावः । किञ्च देवादीनां स्वयजनीयेन्द्रान्तराभावादनधिकार इति पूर्वमीमांसायां निर्णीतम् । एवं च तदनपेक्षदानादिधर्मेषु ब्रह्मविद्यायां चाधिकारोऽस्त्येवेत्युत्तरमीमांसायां स्पष्टम् । तद्वदीदृशानां ज्ञानवतां तिरश्चामप्यधिकारे बाधकाभावः । किञ्च सर्वदेवतावाचकपदानामन्तर्यामीश्वरवाचकत्वेन सर्वत्र देवानामधिकारोऽस्त्येव । न च ब्राह्मणत्वाद्यभावात्तेषामनधिकारः, तेषामपि क्षत्रियत्वाद्वैवस्वतमन्वादेरिव । अत एव चन्द्रवरुणादीनां यज्ञः स्मर्यते पुराणेषु । तत्र तत्र कर्मण्यर्थवादतः फलकल्पनवत्पुराणस्यार्थवादैस्तदधिकारस्यापि कल्पयितुं युक्तत्वात् । किञ्च त्रैवर्णिकस्याधिकार इत्यत्र त्रैवर्णिकपदं वेदतदर्थज्ञानवत्परम् । अतो देवादीनां तदधिकारः सिद्ध इति भगवतो व्यासवाल्मीकिप्रभृतीनां चाशयः । जैमिनेस्त्वेतदंशेऽज्ञानमेव । अत एव तद्दूरीकरणार्थं मार्कण्डेयेनात्मानं प्रति धर्मान्पृच्छतो जैमिनेर्विन्ध्यारण्यवासितत्त्वज्ञपक्षिमुखेन धर्मबोधनं कृतम् । तेन हि पक्षिणां ज्ञानानधिकार इति स्वोक्तेस्तस्याविश्वासे जातेऽन्यत्रापि व्यासादिविरुद्धे स्वोक्तेऽर्थे तस्याप्रामाण्यग्रहो भविष्यतीति तदाशय इत्यन्यत्र विस्तरः । अत एव गृध्रराजस्य भगवता दाहादि कृतम्, अग्रे च संपातिना तद्भ्रात्रा कारिष्यमाणमुदकदानादि नासंगतमिति दिक् ॥
४।१८।१९ ॥
उपसंहरति– तदिति । तस्माद्धर्माद्व्यतीतस्य धर्मभ्रष्टस्य । एवं चेदृशे व्यवहारे प्राणान्तो दण्ड इति सूचितम् ॥ ४।१८।२० ॥
लोकवृत्ताल्लोकव्यवहारमर्यादातो ऽपेयुषो ऽपगतवतः । दण्डादन्यत्र ततो ऽन्यमित्यर्थः । केचित्तु– अनेन तिर्यग्येनिव्यवहारमर्यादाप्येषैवेति ध्वनितम् । दृश्यते च गृहे पाल्यमानेषु पारावतादिष्वन्यं स्वभार्यासहितं दृष्टवत्सुपरस्परं युद्धम् । भार्याया बहुप्रकारताडनादिदण्ड इत्याहुः ॥ ४।१८।२१ ॥
क्षत्रियो ऽहं, दण्डाधिकारीत्यर्थः । दण्डादन्यत्र निग्रहं न पश्यामीत्युक्ते ऽर्थे स्मृतिं प्रमाणयति– औरसीमिति ॥ ४।१८।२२,२३ ॥
गुरुर्महान्यो धर्मस्तं व्यतिक्रान्तं तत्प्रच्युतं निघ्नन्निति शेषः । प्राज्ञो विद्वान्धर्मेण पालयन् धर्मयुक्तमिति शेषः ॥ ४।१८।२४ ॥
भरतादेशावधिं कृत्वा भरतादेशं त्वदाज्ञामवधिं प्रमाणं कृत्वा । ननु भरतेन रामं प्रत्याज्ञाया अकृतत्वान्मृषोक्तिरेषेति चेन्न, अस्मादेव भगवद्वाक्यात्तथा भरतोक्तेरनुमानेनाक्षतेः । यद्वा राज्यमूलप्रभौ पर्यवस्थिते सर्वेषां तदीयानां दण्ड्यदण्डनादावनुक्ता ऽपि तदाज्ञा सिद्धैवेति न दोषः । अपि च स्वराज्ये भगवता भरतस्य पालनाज्ञायां दत्तायामर्थात्स्वस्मिन्प्रधानराजपुरुषत्वसिद्धौ तदाज्ञार्थसिद्धैवेति न दोषः ॥ ४।१८।२५ ॥
अथ कारणान्तरमपि वालिवधे दर्शयति– सुग्रीवेणेति । लक्ष्मणेन यथा तथा सुग्रीवेणापि मम सख्यमस्ति । यस्मात्ततः स सुग्रीवो दारराज्यनिमित्तं स्वदारप्राप्त्यर्थं राज्यप्राप्त्यर्थं च मे मम निःश्रेयसकरो मन्निःश्रेयसविषये कृतप्रतिज्ञः ॥ ४।१८।२६ ॥
तत्प्रतिज्ञोत्तरं मया ऽपि तदभिमतविषया प्रतिज्ञा दत्ता कृता च । सा प्रतिज्ञा मद्विधेन कथमनवेक्षितुमसमापयितुं शक्या ॥ ४।१८।२७ ॥
एभिरुक्तैः कारणैरेकैकमेव तव वधे पर्याप्तम्, किं पुनर्मिलितानि । तस्माद्यत्तव मया शासनमिदं कृतम् तद्युक्तं शास्त्रसंमतमिति भवानप्यनुमन्यतां चिन्तयतु । तव भ्रातृभार्यापहारकत्वेन दण्ड्यत्वात्सखिकार्यस्य स्वकार्यत्वात्क्षत्रियस्य प्रतिज्ञाहानौ च महतो ऽधर्मस्य श्रवणात्त्वद्वधो मे आवश्यको धर्मश्चेत्याशयः ॥ ४।१८।२८ ॥
सर्वथा मया यः कृतस्तव निग्रहः स धर्म एवेति त्वया द्रष्टव्यः । दुष्टनिग्रहफलकत्वादवतारग्रहणस्येत्याशयो गूढः । किं च धर्ममेवानुपश्यता जानता मित्रस्योपकर्तव्यम् । मित्रोपकारकरणमपि धर्म एवेति सुग्रीवोपकाररूपत्वाद्वधस्य धर्मत्वमिति भावः ॥ ४।१८।२९ ॥
किं चानुतापादिना धर्ममनुवर्तता एतद्दुष्कर्मप्रायश्चित्तरूपधर्मानुवृत्तिं कुर्वता त्वया ऽपि तत्कार्यं मत्कृतनिग्रहरूपं कार्यं शक्यं राजप्रार्थनापूर्वं कारयितुं शक्यम् । सत्यनुतापे त्वया प्रार्थनापूर्वमयं दण्डः स्वस्य कारणीय एवेति त्वत्करणीयस्यैव मया कृतत्वान्नात्र क्षोभः कार्य इति भावः । पापिनामेवं स्वदण्डप्रार्थना स्मृतिसिद्धेत्याह– श्रूयत इति । चारित्रवत्सलौ चरित्रप्रतिपादनतत्परौ धर्मकुशलैर्गृहीतौ च । भवतस्तत्तदर्थतत्त्वमेव तथा शास्त्रोक्तप्रकारेणैव मया चरितं कृतम् ॥ ४।१८।३० ॥
तौ श्लोकावाह राजभिरिति । अनेन स्वकृतदण्डस्य शास्त्रसंमतत्वं दण्ड्यहितत्वं चोक्तम् ॥ ४।१८।३१ ॥
त्वया ऽपि प्रार्थनापूर्वमयमर्थः कारणीयः स्यादित्यर्थप्रतिपादकं श्लोकमाह– शासनाद्वेति । पापो ऽहं मे दण्डं कुर्विति प्रार्थनया स्वसमीपमागतस्य पापिनः शासनाद्दण्डकरणाद्वा मोक्षाद्दयया विसर्जनाद्वा । स्तेन इति पापोपलक्षणम् । तत्र द्वितीयः पक्षो राज्ञो दोषायेत्याह राजा त्विति । राजा तु पापस्याशासन्पापनिग्रहमकुर्वन् । अनेन त्वद्दण्डकरणमस्मादृशामावश्यकमिति ध्वनितम् ॥ ४।१८।३२ ॥
अथात्रार्थे शिष्टाचारमपि प्रमाणयति आर्येणेति । मम कूटस्थेन मान्धात्रा त्वया यत्प्रकारं पापं कृतं तत्प्रकारे पापे केनचिच्छ्रमणेनार्हतेन कृते सति कर्तुमीप्सितं घोरं व्यसनं दण्डरूपं मान्धात्रा कृतम् ॥ ४।१८।३३ ॥
अन्यैरपि वसुधाधिपैः प्रमत्तपुरुषैः कृतं पापं प्रति शुद्धये दण्डनं कृतमित्यध्याहारः । न केवलं राजदण्ड एव पापप्रायश्चित्तम्, अन्यदपि मन्वाद्युक्तमित्याह प्रायश्चित्तं च कुर्वन्ति कृतपापा इति शेषः । तेन कर्त्रनुष्ठितप्रायश्चित्तेन ॥ ४।१८।३४ ॥
धर्मतः शास्त्रतः । न वयं स्ववशे स्थिताः किंतु शास्त्राधीना इति शेषः । एतेनादर्शनपूर्वकं वधो ऽधर्म इति यदुक्तं तदपि समाहितम् । दण्डार्थवधे दर्शनानपेक्षणात् । एवं वालिनः सन्ध्योपासनाद्यनुष्ठानेन शास्त्रज्ञत्वमवलम्ब्य समाहितम् ॥ ४।१८।३५ ॥
अथ केवलशाखामृगत्वमवलम्ब्यापि समाधत्ते– शृणु चापीति । छन्नेनानभिमुख्यस्य निःशङ्कवधे कारणं शृण्वित्यर्थः । तन्महत्कारणं श्रुत्वा मन्युं न कर्तुमर्हसि ॥ ४।१८।३६ ॥
तत्र प्रच्छन्नवधे मनस्तापः कथमेवं कृतमिति पश्चात्तापो न । नापि वधस्य कारणं मन्युर्मम क्रोधः, यद्वा मन्युः शोकः । मृगाणां तादृशवधस्य राज्ञां स्वभावतया न दोष इत्याह वागुराभिरिति । विविधैः कूटैस्तृणाच्छन्नश्वभ्रादिसंपादनरूपैः ॥ ४।१८।३७ ॥
पर्णाद्याच्छादितत्वादिरूपैः प्रतिच्छन्ना इत्यन्वयः । विस्रब्धान्विश्वस्तान् । अतिविष्ठितान्स्वपालितमृगैर्विष्ठितान्विरोधेन स्थितान् । युध्यमानानिति यावत् ॥ ४।१८।३८,३९ ॥
न दोष इत्यत्र शिष्टाचारं प्रमाणयति यान्तीति । मृगयां नानाप्रकारमृगवधयुक्तां कर्तुं राजर्षयो धर्मकोविदा यान्ति । प्रतियुध्यन्नन्येन युद्धं कुर्वन् । मांसादिलोभाभावे ऽपि क्षत्रियस्वाभाव्यात्तव वधो मया कृतः इतरव्याघ्रादितिर्यग्जन्तुवत् । तत्र मे न कश्चिन्महान्दोषः, अल्पस्तु प्राणायाममात्रापनेय इति भावः ॥ ४।१८।४० ॥
शुभस्यैहिकाभ्युदयस्य । राजानः क्षात्रियाः ॥ ४।१८।४१ ॥
न हिंस्यात् रणव्यतिरेकेणेत्यर्थः । आक्रोशो निन्दा आक्षेपो ऽवमाननम् अप्रियवादः प्रतिकूलवचनम् त्वं तु न तादृशो राजेति भावः । एतेन राज्ञो वधादौ ब्रह्मवधादिदोष इति सूचितम् ॥ ४।१८।४२,४३ ॥
प्रव्यथितो भगवति मिथ्यादोषोक्त्या प्रव्यथितो न दोषं राघवे दध्यौ तथाध्यानस्यापि पापावहत्वादिति भावः । यद्वा ध्यानेना ऽपि नाविन्दत् शुद्धबुद्धमुक्तस्वभावत्वादिति भावः । धर्मे ऽधिगतनिश्चयो भगवद्वचनादेव धर्मविषये जातनिश्चयः ॥ ४।१८।४४,४५ ॥
प्रकृष्टे प्रकृष्टज्ञानैश्वर्ये । अपकृष्टः मादृश इति शेषः । यत्प्रमादाद्वाक्यमुक्तं तदयुक्तमेव ॥ ४।१८।४६ ॥
तत्राप्यज्ञानजाप्रियोक्तावपि दोषं कर्तु दोषं भावयितुम् । तत्र हेतुः त्वं हीति । दृष्टेनापरोक्षानुभवेनार्थतत्त्वस्य धर्मादितत्त्वस्य ज्ञाता । कार्यं दण्डः, कारणं तद्धेतुभूतं पापम्, तयोः सिद्धौ निश्चये तव बुद्धिरन्तःकरणं प्रसन्ना निर्मला वैषम्यरहितेत्यर्थः ॥ ४।१८।४७ ॥
धर्मादेव व्यतिक्रान्तानां पुरस्कृतमग्रेसरम् । अवगतं तदग्रेसरत्वेन प्रसिद्धं मामपि पापिष्ठतरं धर्मसंहितया वाचा परिपालय, उत्तमलोकान्प्राप्नुहीति वाचानुगृहाणेत्यर्थः ॥ ४।१८।४८ ॥
उवाच पुत्रादिमायाकृष्टः सन्नुवाचेत्यर्थः ॥ ४।१८।४९ ॥
न त्वात्मानं भगवता त्वया हतत्वाद्भुक्तभोगत्वात् न तारां सुग्रीवस्यापि तस्यामनुरागात् न बान्धवान् सुग्रीवतो ऽपि सेवया जीवनलाभात् पुत्रं शोचामि बालत्वात् ॥ ४।१८।५० ॥
मया लालितः स ममादर्शनाच्छोषं गमिष्यति । पीताम्बुः सस्याद्युपयोजिताम्बुः ॥ ४।१८।५१ ॥
तारेयस्तारापत्यम् । एकपुत्रत्वेनातिललितत्वम् ॥ ४।१८।५२ ॥
मतिमुत्तमाम् “मरणान्तानि वैराणि” इति न्यायेनेति भावः । सुग्रीवे च तत्रैवेत्यर्थः । भातृस्नेहोद्बोधेन वा तत्राप्यनुग्रहप्रार्थनम् । कार्यविधौ गोप्ता आकार्यविधौ शास्ता ॥ ४।१८।५३,५४ ॥
मद्दोषकृतदोषां मत्कृतसुग्रीवापकारदोषानुसरणमात्रेण कृतदोषां न तु स्वतः कृततदपकाराम् । तपस्विनीं शोच्याम् । अवस्थातुमवस्थापयितुम् ॥ ४।१८।५५ ॥
राज्यं वानरराज्यम् ॥ ४।१८।५६ ॥
शक्यमिति । स्वाराज्यमपि त्वत्प्रसादलभ्यमिति भावः । अहं त्वदुपदेशतस्त्वद्दर्शनतश्चेदानीं क्षीणपापस्त्वत्तो वधमुत्तमलोकराज्यफलकमाकाङ्क्षन्नपेक्षमाण इदानीमस्मि । अतस्तारया वार्यमाणो ऽपि यद्भ्रात्रा युद्धमुपागतः प्राप्तस्तत्पूर्वकृतपुण्यपरिपाकेनेति शेषः ॥ ४।१८।५७,५८ ॥
व्यक्तदर्शनमुद्बुद्धबोधम् ॥ ४।१८।५९ ॥
न वयं गुप्तवधरूपाकृत्यकारित्वेन चिन्त्याः । नाप्यात्मा भ्रातृभार्यापहरणरूपाकृत्यकारित्वेन । तत्र हेतुः– वयमित्यादि । भवद्विशेषेण त्वदपेक्षया विशेषेण विशेषज्ञत्वेन । धर्मतो धर्मशास्त्रमार्गेण । कृते त्वत्कृतपापे स्वकृतवधद्योतकत्वरूपे व्यापारे च निश्चयो ऽत्र पापे ऽयमेव दण्ड इति निश्चयो येषां तादृशाः ॥ ४।१८।६० ॥
अत्रार्थे स्मृतिमुपन्यस्यति– दण्ड्ये य इति । कार्यकारणेति भावप्रधानो निर्देशः । कार्यत्वं दण्ड्यत्वम्, कारणत्वं दण्डयितृत्वं, ताभ्यां सिद्धार्थौ निष्पन्नपरलोकप्रयोजनौ, अत एव नावसीदतः । एवं न्याय्यदण्डकर्तृत्वान्नाहमकृत्यकारी, जातदण्डत्वाच्च त्वमपि न तथेति भावः ॥ ४।१८।६१ ॥
तदेवाह– स्वां प्रकृतिं स्वकीयं शुद्धस्वभावत्वम् । दण्डदिष्टेन दण्डबोधकशास्त्रोक्तेन मार्गेण ॥ ४।१८।६२ ॥
भयं भ्रातृभार्याहरणकर्मजनितनरकभयं मद्दूषणनिमित्तपरलोकभयं च दण्डेन कर्मणो नाशान्मद्दूषणस्य मया क्षान्तत्वाच्च । शोकमोहौ तारातारेयविषयौ । विधानं प्राग्भवीयं कर्म । अत्रान्ते दण्डस्यैव संहारात्तिरश्चामपि ज्ञानवतां शास्त्रार्थे ऽधिकारो दृढः कृत इति बोध्यम् ॥ ४।१८।६३ ॥
तथा वर्तेत पितृवदेव तं पालयिष्याव इति भावः । अस्मत्तस्तथा वृत्तिः प्राप्नुयादित्यक्षरार्थः ॥ ४।१८।६४ ॥
तस्य वाक्यमात्मनः सुगतेः पुत्रपालनस्य च प्रतिपादकम् ॥ ४।१८।६५ ॥
इदं प्रभाषणम् ॥ ४।१८।६६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे ऽष्टादशः सर्गः ॥ ४।१८ ॥