०१७ वालिकृतरामनिन्दा

तत इति ॥ ४।१७।१ ॥

मुक्तरश्मिर्मुक्तरथरज्जुबन्धनः ॥ ४।१७।२ ॥

मेदिनी तद्राज्यभूमिः ॥ ४।१७।३,४ ॥

प्राणाद्यहाने कारणमाह शक्रेति ॥ ४।१७।५ ॥

हैमया हैम्या सन्ध्यया सन्ध्यारागेणानुगतः पर्यन्तो यस्य । पयोधरसाम्यं तु वालिदेहस्य ॥ ४।१७।६ ॥

त्रिधा रचितेव त्रिधा विभक्तेव माला । देहशररूपा लक्ष्मीरिति यावत् ॥ ४।१७।७ ॥

स्वर्गमार्गप्रभावनं तत्प्रकाशकं सत्परमां गतिं ब्रह्मलोकमावहत्प्रापयति स्म । बाणा अस्यन्ते ऽनेनेति बाणासनं धनुः ॥ ४।१७।८,९ ॥

महेन्द्रमुपेन्द्रस्यैव वृत्रवधोत्तरमिदं नामेत्येके । महेन्द्र आजानदेवः । उपेन्द्रः कर्मदेव इत्यन्ये ॥ ४।१७।१० ॥

हरिलोचनं पीतनेत्रम् । हरिच्छब्दः पीतपर्यायः । “हरिद्राभः पालाशो हरितो हरित्” इति कोशः । आर्षस्तलोपः ॥ ४।१७।११,१२ ॥

बहुमान्य संमान्य । शनैरेवोपयातौ समीपं गतौ ॥ ४।१७।१३,१४ ॥

अल्पं तेजो ऽसवश्च यस्य सः । नष्टचेतनो नष्टचेष्टः । गर्वितं गर्वोपेतं यथा भवति तथा रणगर्वितं राममर्थयुक्तया वाचा परुषमब्रवीदित्यन्वयः ॥ ४।१७।१५ ॥

पराङ्मुखवधं युयुत्सया त्वदनभिमुखवधम् । तदेवाह युद्धसंरब्धो युद्धार्थमन्यस्मै कृतक्रोधः ॥ ४।१७।१६,१७ ॥

समयज्ञ उचितानुचितकालज्ञः ॥ ४।१७।१८ ॥

दमशमावन्तर्बाह्येन्द्रियनिग्रहः । क्षमा शक्यप्रतिक्रियापकारसहिष्णुता ॥ ४।१७।१९ ॥

तान्राजयोग्यान् । अभिजनं महाकुलप्रसूतत्वम् ॥ ४।१७।२० ॥

अन्येन संयुक्तम्, अत एव ते त्वयि प्रमत्तमसावधानं मां न वेद्धुमर्हसीति बुद्धिस्तवादर्शने तव दर्शनात्प्रागुत्पन्ना ॥ ४।१७।२१ ॥

विनिहतात्मानमधर्माचरणान्नष्टात्मानम् ॥ ४।१७।२२ ॥

प्रच्छन्नं भस्मनेति शेषः । छद्म व्याजः ॥ ४।१७।२३ ॥

विषये देशे । यदा यस्मात्पापं न करोमि । नेत्यस्यानुकर्षः । त्वां नावजाने तवावज्ञां च न करोमि ॥ ४।१७।२४,२५ ॥

लिङ्गं जटावल्कलधरत्वमस्ति मदहिंसासाधनमिति शेषः । तच्च प्रत्यक्षदृश्यमेवेत्याह दृश्यत इति ॥ ४।१७।२६,२७ ॥

अभव्यो ऽविनीतः ॥ ४।१७।२८,२९ ॥

एषा वनचरत्वादिरूपा प्रकृतिः स्वभावः पुरुषस्त्वम्, तेन ग्रामवासित्वादन्नाशित्वं व्यङ्ग्यम् ॥ ४।१७।३० ॥

रूपं रूप्यम् । कारणानि चेति आहुरिति शेषः । वने विद्यमानेषु मदीयेषु मूलेषु फलेषु वा कस्ते लोभो ऽपेक्षा न कापीत्यर्थः । एवं च वनचरत्वपुरचरत्वमृगत्वमनुष्यत्वमूलाशनत्वान्नाशनत्वनरेश्वरत्ववानरेश्वरत्वरूपवैधर्म्यान्नावयोर्विरोधप्रसक्तिरिति भावः ॥ ४।१७।३१ ॥

नयो नीतिः । विनयः प्रश्रयः । असङ्कीर्णा निग्रहानुग्रहादिविषये विपरीता ॥ ४।१७।३२ ॥

शरासनपरायणो यत्र क्वापि शराणामासनं त्यागस्तत्परायणः ॥ ४।१७।३३ ॥

अपचितिः पूजा । कामवृत्तः सन्निन्द्रियैः कृष्यस इति संबन्धः ॥ ४।१७।३४,३५ ॥

परिवेत्ता ज्येष्ठे ऽकृतदारे ऽकृताग्निहोत्रे च कृतदारः कृताग्निहोत्रो ऽनुजः ॥ ४।१७।३६ ॥

गच्छन्ते गच्छन्ति । तेषु प्रकृते राजहत्वं दोषो बोध्यः ॥ ४।१७।३७ ॥

यद्यपि क्षत्रियस्य मृगहननमप्यस्ति, तथापि मद्विषयमिदमप्रयोजनमित्याह अधार्यमिति । वर्जितम् अस्पृश्यत्वेन स्मृतिषूक्तमित्यर्थः ॥ ४।१७।३८ ॥

अभक्ष्याणीत्यत्र प्रमाणमाह पञ्चपञ्चेत्यादि । ब्रह्मक्षत्रेणेति समाहारद्वन्द्वः । शल्यकः खड्गी । शुक्तिकाकारशल्यावृतसर्वाङ्गो जन्तुविशेषः इत्यन्ये । श्वाविधः कण्टकाकारदीर्घरोमभिः शुनां वेधको जन्तुः ॥ ४।१७।३९ ॥

सो ऽहं पञ्चनखो हतः । अभक्ष्यः पञ्चनखो हत इत्यर्थः ॥ ४।१७।४०,४१ ॥

त्वं तु न राज्यार्ह इत्याह– त्वयेति ॥ ४।१७।४२ ॥

शठो गूढविप्रियकृत् । निकृतिं परापकारं चरतीति नैकृतिकः । मिथ्यैव प्रश्रितं मानसं यस्य सः अजितान्तःकरण इति यावत् ॥ ४।१७।४३ ॥

छिन्ना चारित्र्यस्य कक्ष्या मर्यादा येन स तथा । सतां धर्ममतिक्रान्तेन ॥ ४।१७।४४ ॥

वक्ष्यसे किं वक्ष्यसीत्यर्थः । किमित्यध्याहारः ॥ ४।१७।४५ ॥

अपकारिषु दारापहारिषु ॥ ४।१७।४६,४७ ॥

अदृश्येनाप्राप्तदर्शनेन त्वया पन्नगवन्निहतः अतस्त्वं पापवशं गत इत्यर्थः ॥ ४।१७।४८ ॥

एतदर्थं सीताया आहरणमुद्दिश्य मामेव पूर्वं प्राप्य यद्यचोदयस्तदा तव मैथिलीमहमेकाह्ना ऽ ऽनीतवान्भवेः भवेयमिति यावत् ॥ ४।१७।४९ ॥

अनिहतम् अनिहतमेवेत्यर्थः ॥ ४।१७।५० ॥

सागरतोये तन्मध्यवर्तिद्वीपे । श्वेतामश्वतरीमिव श्वेताश्वतरीरूपिणीं श्रुतिं मधुकैटभाभ्यां पाताले निगृहीतां यथा हयग्रीवो भुवमानयति स्म तद्वत् ॥ ४।१७।५१,५२ ॥

लोकः सर्वो ऽपि कालेन कालधर्मेण मृत्युना विनियुज्यते, एवंविधः स्वभावः काममस्तु तस्मान्मे मरणकृतो न विषादः, अपि तु भवता राज्यं प्राप्तं चेत्तदा मद्वधकारणस्य त्वद्राज्यस्य लोकैः प्रश्ने क्षमं युक्तमुत्तरं साधु सम्यग्विचिन्त्यताम् ॥ ४।१७।५३ ॥

उपसंहरति– इत्येवमिति । अस्य सर्गस्य तीर्थेन रामस्तुतिपरतया यद्योजनं तन्न कविनिबद्धस्य वक्तुर्वालिनस्तात्पर्यविषयभूतम् । “यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् । तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ॥ " इत्यग्रे वाल्युक्तेः । नापि वाल्मीकेस्तस्य दुरुक्त्यनुवादकत्वात् । अतात्पर्यविषयमपि बुद्धिवैभवादक्षरार्थत्वेन वर्ण्यत इति चेत्काव्यान्तरमेव भगवतः स्तावकं क्रियताम्, किमनेन प्रयासेनेति दिक् ॥

४।१७।५४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तदशः सर्गः ॥ ४।१७ ॥