०१६ वालिवधः

तामिति ॥ ४।१६।१ ॥

सुसंरब्धं भावे निष्ठा सुसंरम्भमित्यर्थः । केनापि न केनापि त्वदुक्तकारणेनेत्यर्थः ॥ ४।१६।२ ॥

धर्षणामर्षणं सहनम् ॥ ४।१६।३ ॥

संयुगे संरम्भम् । संयुगनिमित्तं संरम्भमित्यर्थः ॥ ४।१६।४ ॥

राघवं प्रति राघवनिमित्तभयमालक्ष्य मत्कृते त्वया विषादो न कार्यः यतो धर्मज्ञत्वादिगुणः सः । पापं मद्वधरूपम् ॥ ४।१६।५ ॥

कथं भूयो ऽनुगच्छसि निवर्तस्वेत्युच्यमानापीति भावः । भक्तिरनुरागः ॥ ४।१६।६ ॥

दर्पं च दर्पमेव । वियोक्ष्यते वियोजयिष्यते । सोदरत्वात् ॥ ४।१६।७ ॥

उक्तमेव विवृणोति ईप्सितं त्वदीप्सितं दर्पमोचनेनेत्यर्थः । वृक्षैर्वृक्षप्रहारैः ॥ ४।१६।८ ॥

गर्वितं दर्पम् आयस्तं तत्प्रवृत्तं दृढयत्नं भावे निष्ठा । सहायत्वं बुद्धिसाचिव्यम् ॥ ४।१६।९ ॥

जनेन स्वपरिवारजनेनालं जित्वा जयमात्रं कृत्वा निवर्तिष्ये नतु वधमित्यर्थः । “अहं जित्वा” इति पाठस्त्वसांप्रदायिकः ॥ ४।१६।१०,११ ॥

मन्त्रवित्स्वस्त्ययनमन्त्रवेत्री । देवांशत्वात्तद्वेदनम् ॥ ४।१६।१२,१३ ॥

सर्वतो दृष्टिं चारयन् । स्थित इति शेषः ॥ ४।१६।१४ ॥

सुसंवीतं बद्धकच्छम्, अवष्टब्धं युयुत्सया दृढं भूमिमाक्रम्य स्थितम् ॥ ४।१६।१५,१६ ॥

गाढं संवितो दृढं बद्धकच्छः ॥ ४।१६।१७ ॥

सुग्रीवो ऽपि वालिनं समुद्दिश्य श्लिष्टं दृढबद्धं मुष्टिमुद्यम्य किंञ्चित्संमुखमागतः ॥ ४।१६।१८।१९ ॥

वेगविमुक्तः त्वदुपरीति शेषः ॥ ४।१६।२० ॥

एवमुक्तो वालिना तव प्राणान्हरन्नेष मुष्टिर्मामकस्तव मूर्ध्नि पतत्वित्यब्रवीत् ॥ ४।१६।२१ ॥

सुग्रीवमभिक्रम्याक्रम्य स्थितेन वालिना वेगतस्ताडितः सुग्रीवः सापीडः सनिर्झरः पर्वत इवाभवत् ॥ ४।१६।२२ ॥

निःशङ्कं शोणितोद्गारजदुःखसंबन्धरहितं यथा तथा ऽभिहतो वाली सागरे नौरिव विह्वलो ऽभवत् ॥ ४।१६।२३,२४ ॥

सुपर्णेन समं वेगितं वेगो ययोस्तौ । प्रकृष्टं युद्धं ययोस्तौ । चन्द्रसूर्याविवेति यद्यर्थातिशयोक्तिरेषा ॥ ४।१६।२५,२६ ॥

परिहीयत । अडभाव आर्षः ॥ ४।१६।२७ ॥

राघवं दर्शयामास स्वहानिमिति शेषः ॥ ४।१६।२८,२९ ॥

युध्येतामयुध्येताम् ॥ ४।१६।३०,३१ ॥

स रामः शरं वीक्षते स्म ॥ ४।१६।३२,३३ ॥

पत्ररथाः पक्षिणः ॥ ४।१६।३४ ॥

मुक्तो बाणः पातित इत्यर्थः ॥ ४।१६।३५,३६ ॥

आश्वयुक्समये आश्वयुगाश्वयुजी पौर्णमासी यत्र मासे तस्मिन्नाश्विने मासि पौर्णमास्यामिन्द्रध्वजोत्सवान्ते उद्धूत उत्क्षिप्त इन्द्रध्वजो यथा भूमौ पपात तद्वद्वाली ग्रीष्मान्ते पतित इत्यर्थः । अत एव सुग्रीवाभिषेकसमये श्रावणो मासो ऽधुना वर्तते इति वचनेन न विरोधः ॥ ४।१६।३७ ॥

उक्तमुपसंहरति नरोत्तम इति । मुखतः मुखस्थललाटनेत्रेणेत्यर्थः ॥ ४।१६।३८ ॥

शोणिततोयस्य विस्रवैः स्रुतिभिः । प्रभ्रंशित उत्सवान्ते पातितः ॥ ४।१६।३९ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षोडशः सर्गः ॥ ४।१६ ॥