अथेति ॥ ४।१५।१ ॥
एकपदे तत्क्षणे । आपादितः संपादितः ॥ ४।१५।२ ॥
कनकप्रभस्य क्रोधादतिरक्तत्वे सहजप्रभानाशेनोपरक्तादित्योपमेयता, एतदादीन्यासन्नमृत्युलक्षणानि ॥ ४।१५।३ ॥
उत्पतितपद्मेत्येकदेशे तन्त्रम् । उत्पतितैरुद्धतैः पद्मैरुत्पतिता नष्टा पद्मकृतशोभा यस्य तादृशो मृणालसहितो ह्रद इव दंष्ट्रा मृणालस्थानीया ॥ ४।१५।४ ॥
दुर्मर्षणं दुःसहम् । वेगेन युक्तैः पदन्यासैः ॥ ४।१५।५ ॥
त्रस्तसंभ्रान्ता । कर्मधारये पुंवत्त्वम् । त्रस्ता भीता संभ्रान्ता क्षुभितचित्ता हितोदर्कं हितरूपोत्तरकालफलम् ॥ ४।१५।६ ॥
काल्यं प्रातःकाले शयनादुत्थितो मुक्तास्रजमिव त्यज क्रोधम् ॥ ४।१५।७ ॥
काल्यं प्रातःकाले सङ्ग्रामं कुरु । हे वीर यद्यपि सङ्ग्रामे शत्रोर्बाहुल्यं त्वत्त आदिक्यं न विद्यते, नापि तव फल्गुता लघुता विद्यते, अथापि सहसा हठात्तवाद्य निष्क्रामो निष्क्रमणं मम न रोचते । कुतस्तत्राह– श्रूयतामिति ॥ ४।१५।८,९ ॥
पूर्वं क्रोधादापतितः सुग्रीवो युद्धाय त्वामाह्वयत, तदा ते त्वया निष्पत्य निरस्तो हन्यमानश्च दिशो गतः ॥ ४।१५।१० ॥
तस्य तथा निरस्तस्य पुनरेत्याह्वानं शङ्कां जनयत्येव ॥ ४।१५।११ ॥
कुतस्तत्राह दर्पश्चेति । दर्पो गर्वः । व्यवसायो युद्धविषयः । यादृशश्च नर्दतो निनादस्य संरम्भो वृद्धिरेतदेतस्य कारणं नाल्पम् । अयं दर्पादिः कारणविशेषपूर्वकः कार्यविशेषत्वादित्यनुमितम् ॥ ४।१५।१२ ॥
कारणविशेषं दर्शयति नेति । अवष्टब्धसहायः परिगृहीतसहायः सर्वथा सहायसंबन्धमूलो ऽयं संरम्भ इति भावः ॥ ४।१५।१३ ॥
नन्विति तस्य बुद्धिः कुतस्तत्राह प्रकृत्येति । निपुणः उचितकृत्यनिष्पादने समर्थस्तत्क्षमबुद्धिमांश्च । ननु सहायवन्तं वधिष्यामीति चेत्तत्राह– अपरीक्षितशत्रुनाशकवीर्येण पुंसा सुग्रीवः सख्यं नेष्यति । अतस्तत्साहयभूतः शङ्कनीय एव ॥ ४।१५।१४ ॥
न केवलं मदनुमित एवायमर्थः, किंतु शब्दप्रमाणादप्यवगत इत्याह पूर्वमेवेति । यन्मया पूर्वमङ्गदस्य कुमारस्य वचः श्रुतं तत्तव हितमद्य त्वां वक्ष्यामि ॥ ४।१५।१५ ॥
तदेवाह अङ्गदस्त्विति । वनान्तं वनमध्यं या तस्मै चारैर्निवेदिता प्रवृत्तिरासीत् । प्रवृत्तिः सुग्रीववृत्तान्तः । सा तेन मम कथिता ॥ ४।१५।१६,१७ ॥
तत्र तयोर्मध्ये यस्तव भ्रातुः सहायो विख्यातः । हि यतः स परबलामर्दी । साधूनां निवासवृक्ष आश्रयः । आपन्नानां शरणागतानां गतिः शरणम् ॥ ४।१५।१८,१९ ॥
आर्तानां शत्रुपीडितानाम् तन्नाशाय संश्रयः संश्रयार्हः । ज्ञानं ब्रह्मज्ञानम् धर्मविषयं विज्ञानं शिल्पनैपुणं वा निदेशे निरत इत्यनेन स्वराज्यमरक्षितवतः कुतः पररक्षणसामर्थ्यमित्यपास्तम् ॥ ४।१५।२० ॥
तत्तस्मात्तेनोच्यमानगुणकेन रामेण तव विरोधो न क्षमो न युक्तः ॥ ४।१५।२१ ॥
दुर्जयेनेत्याद्यर्धं पूर्वान्वयि । किञ्चिद्वक्ष्यमाणं त्वया ऽभ्यसूयितुं नेच्छामि कथमियं मां प्रति वदतीति मदसूया न कर्तव्येत्यर्थः । आर्षत्वादसमानकर्तृत्वे ऽपि तुमुन् ॥ ४।१५।२२,२३ ॥
तेन बलीयसा रामेण ॥ ४।१५।२४,२५ ॥
तत्र तस्मिन्दूरदेशे वा सन्विद्यमानः, इहस्थस्त्वत्समीपस्थो वा भुवि न पश्यामि तवेति शेषः ॥ ४।१५।२६ ॥
प्रत्यनन्तरं स्वाधीनम् ॥ ४।१५।२७ ॥
भ्रातृसौहृदमालम्ब्यैव तव गतिः नान्या गतिरस्तीत्यर्थः ॥ ४।१५।२८ ॥
यदि ते यदि त्वयेत्यर्थः ॥ ४।१५।२९,३० ॥
तदा हीत्यादि कविवाक्यम् ॥ ४।१५।३१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥ ४।१५ ॥