गहने निबिडे दुष्प्रवेशे ॥ ४।१४।१३ ॥
वायोर्वेगः पुरःसरो यस्य स महामेघ इव । बालार्कसदृशो वर्णेन प्रतापेन च ॥ ४।१४।४ ॥
हरिरूपवागुरया व्याप्तां वागुराकारतया स्थितहरिकाम् ॥ ४।१४।५ ॥
ध्वजैर्यन्त्रैः प्राकारयुद्धापेक्षितैराढ्याम् ॥ ४।१४।६ ॥
यथा आगतः कालो ऋतुविशेषरूपो लतां प्राक्सुपुष्पां ततः सफलां करोति, तथा स्वकृतप्रतिज्ञां त्वमपि सफलां कुर्वित्यर्थः ॥ ४।१४।७ ॥
गजसाह्वया गजेन समाना आह्वा नाम यस्यास्तया ॥ ४।१४।८,९ ॥
नक्षत्रमालया ऽ ऽकाशे विपरीतो विशेषेण परीतो वेष्टितः सूर्य इव । कविविकल्पितोपमालीकोपमा । तेन तादृशः सूर्यो यदि भवेत्तदा तरुणार्कवर्णस्य कण्ठसक्तशुक्लपुष्पमालस्योपमा स्यादित्यतिशयोक्तिरत्र व्यङ्ग्या । केचित्तु विपरीते इति सप्तम्यन्तम् । “परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरा । पौर्णमासीगतश्चन्द्रः सूर्य इत्यभिधीयते ॥ " इति व्याचक्षते ॥
४।१४।१० ॥
प्रमोक्ष्यामि प्रमोचयिष्यामि ॥ ४।१४।११ ॥
चेष्टते लुठिष्यति । मद्दर्शनानन्तरमेवेति शेषः ॥ ४।१४।१२ ॥
यदि मद्दृष्टिपथं गतो जीवन्स विनिवर्तते ततस्तदा मा मां दोषेणोपलक्षितं गच्छेदवगच्छेन्मां गर्हेच्च । किं च मद्बिलस्य दृष्टत्वाद्वालिनं निहतमेवावेहीत्याह– प्रत्यक्षमिति ॥ ४।१४।१३ ॥
वेत्सि विद्धि । कृच्छ्रे ऽपि प्राणसङ्कटे ऽपि मे मया ॥ ४।१४।१४ ॥
धर्मलोभेन धर्मलिप्सया परीतेन व्याप्तचित्तेनेति पूर्वान्वयि ॥ ४।१४।१५ ॥
सफलां करिष्यामीत्यत्र दृष्टान्तः– प्रसूतमिति । अङ्कुरितमित्यर्थः । कलमक्षेत्रमिति व्रीहिक्षेत्रमित्यर्थः ॥ ४।१४।१६ ॥
जितकाशी जितश्वासो जितभयो वा । त्वया आधर्षितः सन्पुराद्येन निष्पतेत्तं शब्दं कुर्वित्यर्थः ॥ ४।१४।१७ ॥
ननु कृते ऽप्याह्वाने स्त्र्यादिसक्तो न निष्पतिष्यति तत्राह– निष्पतिष्यतीति । असङ्गेन स्त्र्यादिसङ्गपरित्यागेनेत्यर्थः । यतः प्रियसंयुगः । न मर्षयन्तीत्यस्य शूरा इति शेषः ॥ ४।१४।१८ ॥
विशेषतो न मर्षयन्तीत्यनुषङ्गः ॥ ४।१४।१९ ॥
गावो महान्तो वृषभाः । हतप्रभा हतशक्त्यः ॥ ४।१४।२० ॥
राजदोषेण प्रजारक्षणाभावरूपेण राजदोषेण परैरन्यैरामृष्टा, अत एवाकुल व्याकुलाः कुलस्त्रिय इव गावो यान्ति । ग्रहा देवाः ॥ ४।१४।२१ ॥
जीमूतवत्कृतप्रणादः । प्रतीतः रामे इति शेषः । शौर्ये पराक्रमकरणे विवृद्धं तेजो यस्य । सरित्पतिर्वा समुद्र इव ॥ ४।१४।२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥ ४।१४ ॥