०१३ सप्तजनाश्रमवर्णनम्

ऋष्यमूकादिति ॥ ४।१३।१३ ॥

संहतग्रीवो दृढबन्धबद्धग्रीवः हरियूथपानामपि यूथं पाति तादृशः ॥ ४।१३।४,५ ॥

कन्दराणि मन्दिराकारपर्वतविवराणि निर्दराणि शिलाविवराणि गुहा देवखातगिरिबिलानि दर्यो महराणि ॥ ४।१३।६ ॥

आकोशमग्रभागपर्यन्तं कुड्मलैर्मुकुलरूपैस्तेनेषद्विकसितैः पद्मैः शोभितानवलोकयन् ॥ ४।१३।७ ॥

कारण्डैः कारण्डवैः ॥ ४।१३।८ ॥

शष्पं तृणम् ॥ ४।१३।९ ॥

कूलघातित्वादेव तटाकवैरित्वम् । एकचरानसहायचरान् ॥ ४।१३।१० ॥

द्विरदप्रख्यान्गजतुल्यान् ॥ ४।१३।११,१२ ॥

द्रुमाणां षण्डः समूहो यस्मिंस्तादृशं वनम् ॥ ४।१३।१३ ॥

वृक्षषण्डो वृक्षसमूहः । मेघेत्याद्युत्तरान्वयि ॥ ४।१३।१४ ॥

त्वया कर्त्रा कौतूहलस्यौत्सुक्यस्यापनयनं निवर्तनं कर्तुं कारयितुमिच्छामि ॥ ४।१३।१५,१६ ॥

उद्यानैरुपवनैश्च संपन्नं युक्तम् ॥ ४।१३।१७ ॥

सप्तजना नाम सप्तजना इति प्रसिद्धा अधःशीर्षा भूप्रतिष्ठापितशिरसः ॥ ४।१३।१८ ॥

केवलवायुनैव सप्तरात्रे गते कृताहाराः सप्तभिर्वर्षशतैः सकलेवरा दिवं याताः ॥ ४।१३।१९ ॥

एतदाश्रमम् । अर्धर्चादिराश्रमशब्दः ॥ ४।१३।२० ॥

वर्जयन्ति न प्रविशन्ति पुनर्न निवर्तन्ति अत्रैव म्रियन्त इत्यर्थः ॥ ४।१३।२१ ॥

सकलाक्षराः कलाक्षराभिर्मधुराक्षराभिर्वाग्भिः सहिता भूषणरवाः अप्सरसामिति शेषः । दिव्यो गन्धश्च तासामेवानुभूयत इति शेषः ॥ ४।१३।२२ ॥

न केवलं भोगभूमिः, कर्मभूमिरपीत्याह त्रेतेत्यादि । कपोताङ्गवदरुणो धूसरो घन इव धूमो वृक्षाग्रान्वेष्टयन्व्याप्नुवन्दृश्यते ॥ ४।१३।२३,२४ ॥

तेषामुद्दिश्य तानुद्दिश्येति यावत् ॥ ४।१३।२५ ॥

तेषां प्रणमन्ति तान्प्रणमन्ति ॥ ४।१३।२६ ॥

महात्मानो महात्मनस्तानृषीनुद्दिश्याभ्यवादयन्नमस्कृतवान् ॥ ४।१३।२७ ॥

वानरा हनुमदादयः । एतत्कथाप्रश्नादिकं वाल्यायुःसमाप्तिकाललाभाय ॥ ४।१३।२८,२९ ॥

शस्त्राणि वानराणां शस्त्रं शिलादि ॥ ४।१३।३० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥ ४।१३ ॥