॥ ४।१२।१,२ ॥
स एकसालोद्देशेनैव क्षिप्तो ऽपि बाणः सप्तसालान्भित्त्वा तदाश्रमगिरिप्रस्थमपि भित्त्वा तदाधारभूमिमपि भित्वा सप्तभूमिरसातलं विवेशेत्यर्थः ॥ ४।१२।३ ॥
निष्पत्य रसातलपर्यन्तं गत्वा तत्रत्यासुरान्हत्वा तमेव तूणं पूर्वाधारं तूणम् । अनेन रामबाणानां चेतनपरशक्तिमद्देवताधिष्ठितत्वं सूचयति । तदुक्तम्– “युगपत्सप्ततालांश्च रघुनाथो बिभेद ह । पातालदानवान्हत्वा पुनस्तूणं विवेश च ॥ " इति ॥
४।१२।४,५ ॥
प्रलम्बी कृतभूषणः साष्टाङ्गप्रणामशाल्लम्बमानावस्थापन्नोरःकण्ठादिवर्तिसकलभूषणः । कृताञ्जलिः उत्थानानन्तरमिति शेषः ॥ ४।१२।६८ ॥
भूमिश्च चात्सप्तपातालास्तद्वर्तिनो ऽसुराश्च ॥ ४।१२।९११ ॥
लक्ष्मणानुगतम् तत्सममित्यर्थः । यद्वा लक्ष्मणवत्प्रियत्वेनानुगतं स्वीकृतं सुग्रीवमित्यर्थः ॥ ४।१२।१२ ॥
अस्मादृष्यमूकात् । भ्रातृगन्धिनमनर्थकभ्रातृव्यपदेशम् ॥ ४।१२।१३ ॥
आत्मानं स्वदेहान् ॥ ४।१२।१४ ॥
ह्वानकारणादाह्वाननिमित्तं गाढं परिहितं वस्त्रं येनेत्यर्थः । वाससा दृढं कटिं बद्धेत्यर्थः । वेगान्नादकारणप्राणवेगात् उत्पन्नैरिति शेषः ॥ ४।१२।१५ ॥
भास्करो ऽस्ततटादतिदूरमप्युदयपर्वतमत्यल्पेन कालेन याति, एवमदृश्यस्थानतया तत्तुल्यगुहातः क्षणेन बहिरागत इत्यर्थः । यत्त्वस्तपदेनोदयगिरिलक्षणम्, यदपि मेरूत्तरवासिनो ऽधिकृत्येयमुक्तिरिति व्याख्यानं तत्क्लिष्टमसङ्गतं चेति स्पष्टं सुधियाम् ॥ ४।१२।१६ ॥
बुधाङ्गारकयोरिव । “वज्रगोकर्णयोर्यथा” इति पाठान्तरम् । वज्रगोकर्णौ तदाख्यपर्वतौ । यथा तथेति शेषः ॥ ४।१२।१७ ॥
अशनिर्दम्भोलिः । वज्रं वज्रायुधम् ॥ ४।१२।१८,१९ ॥
नावगच्छत् विविच्येति शेषः ॥ ४।१२।२० ॥
राघवं नाथं रक्षकमित्यपश्यन्नजानन् ॥ ४।१२।२१,२२ ॥
वनं प्रविष्ठम् ऋष्यमूकस्येति शेषः । स निवृत्तः परावृत्तः ॥ ४।१२।२३,२४ ॥
ह्रीमान्पराभूतत्वात् ॥ ४।१२।२५ ॥
विक्रमं सालभेदनेन घातयित्वा युद्धप्रेरणद्वारा । किं कृतम् अनुचितमेव कृतमित्यर्थः ॥ ४।१२।२६ ॥
तामेव वेलाम् । सप्तम्यर्थे द्वितीया । वालिना युद्धप्रेरणवेलायाम् । ततस्तदेत्यर्थः । इतः ऋष्यमूकवनादित्यर्थः ॥ ४।१२।२७,२८ ॥
स बाणो वालिसंहारको बाणः ॥ ४।१२।२९ ॥
तदेव कारणमाह अलङ्कारेणेति ॥ ४।१२।३० ॥
वर्चः शरीरकान्तिः वां युवयोः ॥ ४।१२।३१ ॥
मोहित इति । नन्विदमनुचितं यद्भगवतो मोहः अमोहे मोह इत्यनृतकथनं च । किं च पलायनसमये ऋष्यमूकाभिमुकधावनेन व्यक्तिरस्त्येवेति चेन्न । वालिन आयुर्दायासमाप्त्या तथाकरणे ऽपि सुग्रीवसन्तोषाय स्वस्मिन्मानुष्यबुद्ध्यनुत्पादाय चात्मनि मोहोत्प्रेक्षया समाधानादक्षतेः । मोहित इत्यस्येवेति शेषः । ईदृशे विषय एवंविधानृतवचनं न दोषयेत्यप्यनेन ध्वनितम् । नोत्सृजामि नोदसृजम् ॥ ४।१२।३२ ॥
विशङ्कितः शङ्कावान् । हि निश्चयेन नावावयोर्द्वयोरपि त्वन्नाशेन मूलघातो न स्यान्मा भूदित्येतदर्थं मया कृतः शरानुत्सर्ग इति शेषः ॥ ४।१२।३३ ॥
मूलघातमेव दर्शयति– त्वयीति । मया विपन्ने मद्व्यापारतो नाशिते । अज्ञानमनिश्चयप्रवृत्तिः लाघवाच्चापल्यात् ॥ ४।१२।३४ ॥
बाधकान्तरमाह– दत्तमभयमस्मै स दत्ताभयस्तस्य वधो महत्पातकमिति नाम प्रसिद्धम् । स्वमूलघातमप्याह– अहमिति ॥ ४।१२।३५ ॥
मा माशङ्कीरित्याबाधायां द्वित्वम् ॥ ४।१२।३६३८ ॥
गजपुष्पी नागपुष्पी लता । शुभं सम्यग्लक्षयतीति शुभलक्षणा ताम् ॥ ४।१२।३९ ॥
व्यसर्जयन्निसृष्टवान् समर्पितवानित्यर्थः ॥ ४।१२।४० ॥
लतया शुक्लपुष्पनागपुष्पीलतया सन्ध्यारागसहिततोयद इव स्वयं बलाकानां मालयेव तया लतया शुशुभे ॥ ४।१२।४१ ॥
रामवाक्ये तत्करणे समाहित उद्युक्तः ॥ ४।१२।४२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्वादशः सर्गः ॥ ४।१२ ॥