इदानीं वालिनो बलमाह रामस्येति । वचनं वालिवधविषयम् ॥ ४।११।१ ॥
राघवं प्रशशंसेत्युक्तं तां प्रशंसामाह असंशयमिति ॥ ४।११।२ ॥
पौरुषं बलवैभवम् । वीर्यं परसंहारशक्तिः । धृती रणे धैर्यम् ॥ ४।११।३ ॥
अनुदिते सूर्ये क्रामति । ब्राह्मे मुहूर्त उत्थायेति शेषः ॥ ४।११।४ ॥
ऊर्ध्वमुत्पात्य कन्दुकवदिति भावः ॥ ४।११।५,६ ॥
महिषस्तद्रूपधरः ॥ ४।११।७,८ ॥
ऊर्मिमन्तमूर्मिमत्त्वाद्याकारवन्तं समुद्रमतिक्रम्याविगणय्य तं तदधिष्ठातृदेवतामुवाच ॥ ४।११।९१४ ॥
गजेन्द्र ऐरावतः ॥ ४।११।१५१८ ॥
युद्धे असमर्थ इतिच्छेदः ॥ ४।११।१९ ॥
अनुक्तपूर्वमितः पूर्वं नोक्तो युद्धदातास्य तमसुरम् ॥ ४।११।२०,२१ ॥
एकः सशब्दः प्रसिद्धपराक्रमार्थकः ॥ ४।११।२२२८ ॥
हरीणामीश्वरः अहमस्मीति शेषः ॥ ४।११।२९ ॥
नगरद्वारम् । मामकमिति शेषः । मे विदितो ऽसि मया ज्ञातबलो ऽसि, अतः प्राणान्रक्ष ॥ ४।११।३०३२ ॥
स्त्रीसमूहगतो युद्धाय नाह्वातव्य इति स्मृत्वा पक्षान्तरमाह अथवेति । स्वैरं कामभोगेषूदयस्तावत्पर्यन्तं कालो मत्प्रोक्तो ऽवधिर्गृह्यताम् उदयपर्यन्तं त्वां प्रतीक्ष इत्यर्थः ॥ ४।११।३३ ॥
वानरान्परिष्वज्य तेभ्यः संप्रदानं प्रीतिदानं दीयताम् । संसाधयामन्त्रयस्व । पाठान्तरे ऽप्युक्तार्थ एव ॥ ४।११।३४ ॥
सुदृष्टां पुनर्दर्शनासंभवात् आत्मसमं पुत्रादिकं राज्यरक्षायै राजानं कुरुष्व क्रीडस्व आ उदयम् ॥ ४।११।३५ ॥
मत्तं पानादिना । प्रमत्तमनवहितम् । रहितमायुधादिभिः । त्वद्विधं त्वामिव स्त्रीमध्यगम् । मदमोहितं स्त्रीभोगार्थं कृतमधुपानादितिकर्तव्यतामूढम् ॥ ४।११।३६,३७ ॥
मदो ऽयं स्त्रीगोष्ठीजनितो ऽपि वीरपानम् वीरै रणे मनउत्साहार्थं क्रियमाणः पानविशेषः समर्थ्यतां ज्ञयताम् ॥ ४।११।३८ ॥
उत्क्षिप्य कण्ठे प्रतिमुच्य । एषा हि माला सङ्ग्रामजयदा ॥ ४।११।३९ ॥
अविध्यत क्षिप्तवान् ॥ ४।११।४० ॥
व्यापादयाञ्चक्रे पातितवान् । पात्यतः पात्यमानस्य ॥ ४।११।४१ ॥
अस्यैव प्रपञ्चः तयोरित्यादि ॥ ४।११।४२,४३ ॥
हीनो हीनबलः ॥ ४।११।४४ ॥
उद्यम्य हस्ताभ्यामूर्ध्वीकृत्य । “उत्साद्य” इति पाठे उत्पाटितविषाणं कृत्वेत्यर्थः ॥ ४।११।४५ ॥
स्रोतोभ्यो नासादिद्वारेभ्यः ॥ ४।११।४६ ॥
तोलयित्वा हस्तग्रहणेन भारं ज्ञात्वा । योजनं तावद्दूरम् ॥ ४।११।४७,४८ ॥
तस्य विप्रुषः कर्तारं को न्वयमिति चिन्तयामास ॥ ४।११।४९ ॥
चिन्ताया एवाभिनयः ये नेत्यादि ॥ ४।११।५०५२ ॥
अप्रवेष्टव्यम्, न प्रवेष्टव्यमित्यर्थः ॥ ४।११।५३ ॥
आसुरीं तनुं क्षिपता येनेमे पादपाः संभग्ना इत्यन्वयः । स यदि मामकमाश्रमं तदागमनमुद्दिश्य समन्तात्परिसरवर्ति पूर्णं योजनं तत्पर्यन्तम् ॥ ४।११।५४ ॥
आक्रमिष्यति पद्भ्यां स्प्रक्ष्यति तर्हि न भविष्यति न जीविष्यतीत्यर्थः ॥ ४।११।५५ ॥
तैर्वालिसचिवैः श्रुत्वा मदुत्सृष्टं शापम् ॥ ४।११।५६ ॥
शापमेव हेतूपन्यासपूर्वमाह वने इति । फलाद्यभावाय तन्नाशाय जायन्ते यतः, अतः शपिष्यामि ॥ ४।११।५७ ॥
अद्य दिवसो ऽयं दिवसः । मर्यादा दास्यमानशापस्य । तदेवाह यमिति । अस्म्यहं यं वानरं वालिसंबन्धिनं श्वो द्रष्टा स शैलो भविष्यति ॥ ४।११।५८६१ ॥
याचते स्मायाचत शापमोक्षमिति शेषः ॥ ४।११।६२ ॥
शापधारणेन शापविषयदोषज्ञानेन ॥ ४।११।६३६५ ॥
अस्थिनिचयः शुष्ककायः ॥ ४।११।६६ ॥
इमे विपुला विशालमूलस्कन्धाः शाखावलम्बिनः प्रशस्तबहुशाखावन्तः । यत्र येषु । एकमेककालमेव वाली औजसा ओजोयुक्तकम्पनेन सर्वान्निष्पत्रयितुं पत्रहीनान्कर्तुं घटते चेष्टते । त इमे सप्त साला इत्यर्थः । अनेन वायोरप्यधिकं बलं सूचितम् । नहि वायोर्युगपत्कम्पनेन सकलार्द्रपत्रपातनं क्वचिद्दृष्टचरम् । कश्चित्तु निष्पत्रयितुं निष्पत्रीकर्तुमित्यर्थः । एकं सालं शरेण भित्त्वा शरो निष्पत्रं यथा गच्छति तथा कर्तुम् अतिव्यथयितुमिति यावत् । “सपत्रनिष्पत्रादतिव्यथने” इति शास्त्रादप्राकृतकपित्वाच्च बाणव्यापारस्यापि संभव इति व्याचख्यौ ॥ ४।११।६७ ॥
उक्तं वालिवीर्यमुपसंहरति– एतदिति ॥ ४।११।६८ ॥
प्रहसन् भगवद्वीर्याज्ञानदेवं वाद इति हासः ॥ ४।११।६९ ॥
एवमुक्तप्रकारेणैकैकश एकैकस्मिन्काले सप्तापि स वाल्यसकृद्विव्याथ पीडितवान् आर्षं परस्मैपदम् । सकृत्कृतेः काकतालीयत्वव्युदासायासकृदिति । “विव्याध” इति पाठान्तरम् । तुल्यो ऽर्थः ॥ ४।११।७० ॥
एकेन बाणेनैषामेकं द्रुममपि चेन्निरदारयेत्तदापि वालिनं हतं मन्ये । तद्वधयोग्यतासंभावनयेति भावः । पादेन अस्थि हस्तेन स्पर्शायोग्यत्वात् । तरसा बलेन प्रक्षिपेदपि चेत्तदापि रामस्य विक्रमं दृष्ट्वा वालिनं हतं मन्य इति संबन्धः ॥ ४।११।७१,७२ ॥
ध्यात्वा रामवीर्यस्याप्रत्यक्षत्वाद्रामेण वालिवधः शक्यो न वेति सञ्चिन्त्य ॥ ४।११।७३ ॥
पुनर्मित्रभावेनाह शूरश्चेति ॥ ४।११।७४ ॥
यानि वालिकर्माणि सञ्चिन्त्य भीतस्तेन सह रणाय भीतः ॥ ४।११।७५ ॥
उक्तमेव भीत्या पुनराह तमजय्यमिति ॥ ४।११।७६,७७ ॥
त्वां मित्रभूतम् ॥ ४।११।७८ ॥
यदि मामाश्रितस्तर्हि त्यज वालिभयम् तत्राह– किं त्विति । तद्बलं ज्ञातं त्वद्बलं चाज्ञातमतो भयमित्यर्थः ॥ ४।११।७९ ॥
तुलये त्वद्बलपरीक्षां न कुर्वे इति भावः । नावमन्ये न भीषये च, किं तु स्वकातर्यादेव पुनर्ब्रवीमीति भावः ॥ ४।११।८० ॥
वाणी वालिवधविषया प्रमाणं विश्वसनीया । यतो धैर्यमकातर्येण तृणीकृत्य वादः । आकृतिरनुभवसिद्धो दिव्यविग्रह एते द्वे । परं तेजः सकलजगत्संहारकं तेजः काममतिशयेन सूचयन्ति सूचयतः । भस्मच्छन्नानलोपमया गुप्तावस्थितिमहाशक्तिमत्त्वं सूचितम् ॥ ४।११।८१,८२ ॥
अस्मासु विक्रमे ऽस्मन्निष्ठविक्रमे । प्रत्ययो विश्वासः ॥ ४।११।८३८५ ॥
अर्थवदुपपत्तियुक्तमिदं वचनमब्रवीत् अनुत्पन्नप्रत्यय इति शेषः ॥ ४।११।८६ ॥
तदेवाह– आर्द्र इति । प्रत्ययो नूतनः मत्तेन भोगार्थं पीतमदेन ॥ ४।११।८७,८८ ॥
बलाधिक्यनिर्णये हेतुमाह आर्द्रमिति ॥ ४।११।८९ ॥
यद्बलम् तत्रेति शेषः । “यद्बले” इति पाठे यदित्यव्ययम् । यः संशयो ऽस्थिप्रक्षेपात्प्राग्बलविषय आसीत्, सो ऽद्याप्यस्त्येवेत्यर्थः । तर्हि किं ते प्रत्ययकारकं तत्राह सालमेकमिति । एकं सालमुक्तेषु विनिर्भिद्य बलाबलविषये व्यक्तिः प्रकटता भवेत् ॥ ४।११।९०,९१ ॥
त्वया प्रहितः क्षिप्तः शर इमं सालं विदारयिष्यति । अत्र न सन्देहः, तस्मात्त्वया विमर्शो विचारो न कर्तव्यः । मया सख्या संप्रति शापितः शपथपूर्वं नियुक्तः, अतो मम प्रियं ध्रुवं कुरुष्वेत्यर्थः ॥ ४।११।९२ ॥
तेजःसु तेजस्विषु । विक्रमे वरः श्रेष्ठत्वेनाभिमतो ऽसि भवसीत्यर्थः । सालभेदने सतीति शेषः ॥ ४।११।९३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे एकादशः सर्गः ॥ ४।११ ॥