संरब्धं क्रोधावेशादेव क्षुभितचित्तम् । हितकाम्यया ऽ ऽत्महितेच्छया ॥ ४।१०।१५ ॥
विषादात्प्राविशमित्यन्वयः ॥ ४।१०।६ ॥
अभिषिक्तो बलान्न कामेन न मदीयराज्येच्छया तत्तस्मान्मे दैवागतापराधं क्षन्तुमर्हसि । यथा पुरा तव सेवकस्तथैव सदा इदानीमपीत्यर्थः ॥ ४।१०।७ ॥
राजभावे राज्ये ऽयं मम नियोगो मन्त्रिभिस्त्वद्विरहात्कृतः । अमात्यपौरसहितं नगरं निहतकण्टकम् अराजत्वप्रयुक्तदोषरहितं कर्तुमिति शेषः । तच्चेदं त्वदीयराज्यं मयि न्यासभूतं स्थितम् अहं तव निर्यातयामि, मा रोषं कृथा इत्यन्वयः ॥ ४।१०।८१० ॥
शून्यदेशस्य राजहीनदेशस्य या परेषां जिगीषा तया तन्निवृत्तिहेतुना । “मशकार्थो धूमः” इतिवदयं प्रयोगः ॥ ४।१०।११ ॥
तत्तदुवाच अवाच्यवचनजातमित्यर्थः । प्रकृतीः स्वीयप्रजाः ॥ ४।१०।१२ ॥
मां प्रति परमं गर्हितं वाक्यं सुहृदां मध्य आह, मम विगर्हणाहेतुं च सभासदो ऽभ्येत्याह– विदितं व इति । युष्माकं विदितं प्रत्यक्षसिद्धम् ॥ ४।१०।१३,१४ ॥
सद्वितीयं भ्रात्रा ससहायम् ॥ ४।१०।१५१७ ॥
शक्तिरिच्छाशक्तिः । प्रतीक्ष प्रतीक्षस्व ॥ ४।१०।१८ ॥
स्थितो ऽयं बिलद्वारीति शेषः ॥ ४।१०।१९ ॥
अनिर्वेदात्संवत्सरान्वेषणे ऽपि दर्शनाभावाद्भयावहः स तु कथञ्चिद्दृष्टो निहतश्च । समुच्चयालङ्कारः ॥ ४।१०।२० ॥
भुवस्तले ऽधस्तले पाताले स्तनतः शब्दं कुर्वतस्तस्यास्यात्प्रवृत्तेन रुधिरौघेण पूर्णं तद्बिलं दुराक्रममासीत् ॥ ४।१०।२१ ॥
विक्रान्तं शूरं तं प्रसिद्धं मायाविनं सुखं सूदयित्वा त्विहागन्तुं निष्क्रामं निर्गममार्गं न पश्यामि । यतो बिलस्य सुखं पिहितम् ॥ ४।१०।२२,२३ ॥
तेन पथा बिलद्वारमार्गेण ॥ ४।१०।२४ ॥
आत्मनो राज्यं मृगयता मार्गयतानेन तत्र बिलद्वारे संरुद्धो निरुद्धगतिकः कृतः ॥ ४।१०।२५ ॥
एकेन वस्त्रेणेति । अन्यत्सर्वं मम हृत्वेत्यर्थः ॥ ४।१०।२६ ॥
अपविद्धो निरस्तः ॥ ४।१०।२७ ॥
ऋष्यमूकं प्रविष्टो ऽस्म्यन्यत्र निर्भयस्थितिमलभमानः । अत्र निर्भयस्थितिः कथं तत्राह दुराधर्षमिति । मतङ्गशापलक्षणे कारणविशेषे सति वालिना दुराधर्षं दुष्प्रवेशम् ॥ ४।१०।२८ ॥
वैरानुकथनं वैरकारणम् ॥ ४।१०।२९ ॥
वालिन इति पञ्चमी ॥ ४।१०।३०,३१ ॥
रुषान्विता रुष्टेन मया पातिताः ॥ ४।१०।३२ ॥
चारित्रदूषकः निषिद्धानिषिद्धज्ञानवत्त्वे सति जीवतो भ्रातुर्भार्यापहारात् ॥ ४।१०।३३ ॥
आत्मानुमानात् । अयं शोकाब्धिमग्नो रिपुहृतदारत्वान्मद्वदित्यनुमानम् । बाढं प्राप्स्यसि भार्यां पुष्कलं राज्यं च ॥ ४।१०।३४,३५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे दशमः सर्गः ॥ ४।१० ॥