००९ सुग्रीवेण वैरकारणकथनम्

उपक्रान्तमेवाह– वालीति । पितुः क्षेत्रिणः मात्रैक्याच्च भ्रातृत्वं भीमार्जुनादिवत् ॥ ४।९।१ ॥

कपीनां राज्ये इत्यन्वयः ॥ ४।९।२ ॥

पितृपैतामहम् आर्षत्वादुत्तरपदवृद्धिः ॥ ४।९।३ ॥

मायावीत्यन्वर्थं नाम । पूर्वजो ज्येष्ठः । स्त्रीकृतं स्त्रीनिमित्तम् । अयमितिहासः क्वचित्पुराणे शोधनीयो बहुदर्शिभिः ॥ ४।९।४ ॥

सुप्ते जने रात्रौ सुप्तजने भागे ऽर्धरात्रे रणनिमित्तम् ॥ ४।९।५१० ॥

तृणैरावृतं छन्नं विवरं बिलमासाद्य प्राप्य विष्ठितौ स्थितौ ॥ ४।९।११ ॥

बिलं प्रविष्टं दृष्ट्वा ॥ ४।९।१२,१३ ॥

एतद्वचो रिपुवधाय बिलप्रवेशवचनं याचितः सहप्रवेशमिति शेषः । स्वपादाभ्यां शपयित्वा स्वपादशपथपूर्वं सहप्रवेशान्निवार्य यावन्मदागमनं तावद्बिलद्वारि तिष्ठेति चोक्त्वेत्यर्थः ॥ ४।९।१४ ॥

साग्रः संवत्सरः किञ्चिदधिकः संवत्सरः, द्वारि स्थितस्य च मम स कालः साग्रः संवत्सरो व्यत्यवर्ततातिक्रान्तः । तावत्पर्यन्तं मया तत्रैव स्थितमित्याशयः ॥ ४।९।१५ ॥

ततो यदा हतं भ्रातरं न पश्यामि तदा ऽहं भ्रातरं नष्टं दर्शनाविषयं जातम् स्नेहादागतसंभ्रम आगतक्षोभो जातः, पापशङ्कि मरणशङ्कि मे मनो जातं च ॥ ४।९।१६,१७ ॥

सङ्ग्रामे रतस्य निरतस्य क्रोशतो ऽपि गुरोः स्वनो न श्रोत्रमागत इत्यनुकर्षः ॥ ४।९।१८ ॥

चिह्नैर्बिलद्वारि रुधिरनिःसरणासुरीयसङ्ग्रामक्रोशनादिभिर्भ्रातरं हतमवगतो ज्ञातवान् । पिधाय राक्षसनिर्गमशङ्कया ॥ ४।९।१९ ॥

यत्नतो गूहमानस्यापि मे तत्त्वं वालिवृत्तान्तविषयं मन्त्रिभिर्वालिमन्त्रिभिः श्रुतम् ॥ ४।९।२० ॥

समेतैर्मिलितैः । तस्य राज्यमिति बुद्ध्यैव न्यायतः प्रशासतो मम समीपमाजगाम स वानर इत्यन्वयः ॥ ४।९।२१,२२ ॥

मदीयान्मदभिषेककर्तृ़न् । निग्रहे समर्थस्यापि मे बुद्धिर्भ्रातृगौरवेण यन्त्रिता सङ्कुचिता सती तं पापं प्रति निग्रहाय न प्रावर्तत ॥ ४।९।२३ ॥

उक्तानुवादपूर्वमवशिष्टव्यापारकथनम्– हत्वेत्यादि ॥ ४।९।२४,२५ ॥

अपि तथापीत्यर्थः ॥ ४।९।२६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे नवमः सर्गः ॥ ४।९ ॥