तेन वाक्येन “अनृतं नोक्तपूर्वं मे” इत्यादिवाक्येन ॥ ४।८।१ ॥
उपपन्नः संपन्नः ॥ ४।८।२,३ ॥
सभाज्यः पूज्यः । यस्य येन राघववंशजं मित्रं लब्धम् ॥ ४।८।४ ॥
अनुरूपो योग्यः । ज्ञास्यसे आनुरूप्यमिति शेषः । न तु वक्तुं समर्थः “आत्मप्रशंसा मरणं मम” इति न्यायात् ॥ ४।८।५ ॥
भूयिष्ठमधिकं प्रीतिर्निश्चला भवति । वयस्यानामिति शेषः । आत्मवतां स्वाधीनानाम् ॥ ४।८।६ ॥
साधूनां वयस्यानाम् । साधवो वयस्याः । रजतमित्याद्युपलक्षणम् ॥ ४।८।७ ॥
वयस्यः परमा गतिः । वयस्यस्येति शेषः ॥ ४।८।८ ॥
तथाविधं स्वरसतो धनादित्यागप्रवर्तकमित्यर्थः ॥ ४।८।९ ॥
तत्तथेति । यदुक्तं वयस्ययोर्धनविभागादिकं तन्ममापि संमतमित्यब्रवीदित्यर्थः । लक्ष्म्या कान्त्या युतो रामो वासवस्येव वासवसदृशस्य लक्ष्मणस्येत्यन्वयः । लक्ष्मणस्याग्रत इत्यनेन यथा मम लक्ष्मणस्य मैत्री तथैव तवापीत्यपि सूचितम् ॥ ४।८।१० ॥
ततस्तद्दिनापगमोत्तरं द्वितीयदिन इत्यर्थः । स्थितं दृष्ट्वा भूमाविति शेषः ॥ ४।८।११ ॥
ईषत्सुपुष्पं पत्राढ्यं पत्रबहुलम् ॥ ४।८।१२ ॥
सराघवः सुग्रीवो निषसाद ॥ ४।८।१३,१४ ॥
सुखोपविष्टं रामं तु दृष्ट्वेति शेषः ॥ ४।८।१५,१६ ॥
अहं विनिकृत इति पूर्वदिवसोक्तार्थस्मारणं तदर्थस्थावश्यानुष्ठेयत्वाभिप्रायेण ॥ ४।८।१७२० ॥
ननु भ्रातृत्वमरित्वेन विरुद्धमिति जनाशङ्कायां स्वयमेवोत्तरयति उपकारेत्यादि । उपकाररूपफलमेव मित्रत्वे प्रयोजकम्, न त्वेकोदरे जन्मेत्याशयः ॥ ४।८।२१ ॥
कार्तिकेयस्य स्कन्दस्योत्पत्तिक्षेत्रभूतं वनं शरवणं तत्रोत्पन्नकाण्डाः ॥ ४।८।२२ ॥
शोभनानि पर्वाणि येषां ते ॥ ४।८।२३ ॥
भ्रातरममित्रमप्येकोदरजन्ममात्रेण तथा व्यवहृतं पश्य द्वित्रैर्दिवसैरिति शेषः ॥ ४।८।२४,२५ ॥
दुःखाशयात्पुनराह रामेत्यादि । शोकार्तगतित्वाद्वयस्यत्वाच्च त्वयि देवनम् ॥ ४।८।२६ ॥
वयस्यत्वमुपपादयन्करुणामुत्पादयति त्वं हीति । अग्निसाक्षिकं पाणिप्रदानेन वयस्य इत्यन्वयः ॥ ४।८।२७ ॥
अवक्तव्यमपि वयस्य इति कृत्वा विस्रब्धो विश्वस्तो वदामि । हरति क्षीणं करोति ॥ ४।८।२८ ॥
न शक्नोति नाशक्नोत् ॥ ४।८।२९३१ ॥
वालिविनिकारं सङ्क्षेपेणाह– पुरा ऽहमिति । स्वाद्राज्याद्विद्यमानज्येष्ठोचिताद्वानरराज्यात् अवरोपितो ऽपहृताधिकारः, निर्धूतो भर्त्सितः ॥ ४।८।३२ ॥
बन्धनेषु बन्धनागारेषु संयता बद्धाः ॥ ४।८।३३ ॥
तत्प्रयुक्ता मद्वधाय तत्प्रेरिताः ॥ ४।८।३४ ॥
एतया शङ्कया मद्वधाय वालिप्रेरितत्वशङ्कया । नोपसर्पामि नोपासर्पम् । भये यत्किञ्चिद्भयप्राप्तौ बिभ्यति सर्वत एवेति शेषः ॥ ४।८।३५३७ ॥
सङ्क्षेपस्त्वेष इत्येतच्छब्दार्थः स मे ज्येष्ठ इति ॥ ४।८।३८ ॥
तद्विनाशे ऽपीति । यद्यपि भ्रातृनाशो दुःखाय, तथाप्यनन्तरं संप्रति विद्यमानं मे दुःखं तद्विनाशे एव प्रमृष्टं स्यात् । अपिरेवार्थे । तदेवाह– सुखमिति ॥ ४।८।३९,४० ॥
तन्निमित्तं तत्त्वतः श्रोतुमिच्छामीत्यन्वयः ॥ ४।८।४१ ॥
तव तेन वैरस्य कारणं श्रुत्वा युवयोर्बलाबलं च श्रुत्वा, आनन्तर्यात्तदनन्तरोत्पन्नविमार्शात्संप्रधार्य निश्चित्य हि निश्चयेन तव सुखं त्वत्सुखसाधनं वालिवधं विधास्यामि ॥ ४।८।४२ ॥
अम्भःसंबन्धी प्रावृट्कालिको वेग इव मे ऽमर्षो वर्धते ॥ ४।८।४३ ॥
यावदारोप्यते आरोपयिष्यामि । सृष्टो विसृष्टः रुपुर्निरस्तश्च । समुच्चयालङ्कारः, व्यङ्ग्यातिशयोक्तिश्च ॥ ४।८।४४,४५ ॥
तत्त्वं तात्त्विकं वैरस्य कारणमित्यन्वयः ॥ ४।८।४६ ॥
इति श्रारामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे ऽष्टमः सर्गः ॥ ४।८ ॥