००७ राम-सुग्रीवयोः परस्परं साहाय्यप्रतिज्ञा

एवमिति ॥ ४।७।१ ॥

तस्य पापरक्षसः पापं कृतवतो रक्षसो निलयं निलयस्थानं गुप्तवासस्थानं सर्वथा न जाने । नहीदृशं पापं कर्म कृत्वा राजधान्यां वस्तुमर्हतीति भावः । सामर्थ्यं शौर्यादि । विक्रमं विशेषेण क्रामति पादविक्षेपं करोति यत्र तद्वासनगरम् । दौष्कुलेयस्येत्यनेन रक्षःकुलजत्वं ध्वनितम् । तज्जाने एवेति शेषः । वाशब्दः त्वर्थे । अत एव लङ्काद्वीपं निर्दिश्य “स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ " इति हनूमदादिप्रेषणकालिकसुग्रीववचसा न विरोधः ॥

४।७।२ ॥

यद्यप्येतावज्जानामि, तथापि तदुपवर्णनं निष्फलम् तावन्मात्रज्ञाने ऽपि तद्वधासंभवात् । क्वचिद्गुप्ते स्थितिसंभवात् एतावत्त्ववगम्यतामित्याह सत्यं त्विति ॥ ४।७।३ ॥

परितोष्यं भवतः परितोषार्हम् । आत्मनः सपरिवारस्य मम पौरुषमवलम्ब्येति शेषः ॥ ४।७।४ ॥

न सदृशमयुक्तम् ॥ ४।७।५,६ ॥

तां प्रियाम् ॥ ४।७।७ ॥

सत्त्वयुक्तानां सत्त्वगुणवताम् ॥ ४।७।८ ॥

व्यसने इष्टवियोगजे, अर्थकृच्छ्रे धननाशे, भये चौरव्याघ्रादिजे, जीवितान्तगे जीवितनाशप्रापके विमृशन् प्रारब्धवेगमिति शेषः ॥ ४।७।९ ॥

यो बालिशः, यश्च नित्यं वैक्लव्यमनुवर्तते, स मज्जति । तुश्चार्थे । भाराक्रान्ता ऽतिभारवती ॥ ४।७।१० ॥

अन्तरमवसरम् ॥ ४।७।१११३ ॥

ब्रूमि ब्रवीमि ॥ ४।७।१४ ॥

प्रमार्जयत्प्रामार्जयत् ॥ ४।७।१५,१६ ॥

कर्तव्यं यत् शोकनाशार्थमिति शेषः ॥ ४।७।१७ ॥

प्रकृतिस्थः स्वभावस्थः दुःखहीन इत्यर्थः । अस्मिन्काले व्यसनकाले ॥ ४।७।१८ ॥

रावणस्य संहारे चेति शेषः ॥ ४।७।१९ ॥

मया च यदनुष्ठेयं तवेति शेषः । वर्षास्विव सुक्षेत्र उप्तं बीजमिति शेषः । संपद्यते सफलं भविष्यतीत्यर्थः । शैत्र्यप्रत्यायनाय वर्तमानप्रयोगः ॥ ४।७।२० ॥

इदं वाक्यं वालिनं वधिष्यामीति वाक्यमभिमानात्तत इव ॥ ४।७।२१ ॥

एतदनृतवचनाभावं सत्येन तत्साक्षितयेत्यर्थः ॥ ४।७।२२,२३ ॥

संपृक्तौ कृतसख्यसंपन्नौ आभाषतामभाषेताम् ॥ ४।७।२४,२५ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तमः सर्गः ॥ ४।७ ॥