आख्यात्याख्यातवान् तन्निमित्तमिति शेषः ॥ ४।६।१ ॥
तत्किं तत्राह– यन्निमित्तमिति ॥ ४।६।२ ॥
त्वया लक्ष्मणेन च वियुक्ता तव भार्या सीतान्तरं प्रेप्सुना छिद्रं दिदृक्षुणा हृता, तेन लोकरावणेन रक्षसा त्वं भार्यावियोगजं दुःखं प्रापित इति चाख्यातवान् ॥ ४।६।३,४ ॥
रामेण स्ककार्यसाधने प्रतिज्ञाते सति स्वयमपि तत्कार्यसाधनं प्रतिजानीते– भार्येत्यादि । न चिरान्नष्टां मधुकैटभहृतां देवस्य धर्मस्य ब्रह्मणश्च ज्ञानसाधनभूता श्रुतिस्त्रयी तामिव । दीर्घं आर्षः ॥ ४।६।५ ॥
वर्तन्तो वर्तमानाम् ॥ ४।६।६ ॥
तथ्यं तथ्यमेवावेहीत्यन्वयः ॥ ४।६।७ ॥
विषकृतं विषमिश्रितम् ॥ ४।६।८ ॥
या दृष्टा सा मैथिलीत्यनुमानात्त्वद्भार्यात्वानुमापकाद्रामेत्याक्रोशाल्लिङ्गाज्जानामीत्यन्वयः ॥ ४।६।९,१० ॥
आत्मना पञ्चमं मन्त्रिचतुष्टयसहितं मामित्यर्थः ॥ ४।६।११ ॥
आनयिष्याम्यानेष्यामि । दृष्टेत्यत्र प्रमाणप्रदर्शनमिदम् ॥ ४।६।१२,१३ ॥
गहनां दुष्प्रवेशाम् ॥ ४।६।१४१६ ॥
हा प्रियेतीत्यत्र सन्धिरार्षः ॥ ४।६।१७ ॥
हृदीति प्रियासंबन्धेन प्रीत्यतिशयात् ॥ ४।६।१८२० ॥
शाद्वलभूम्युत्सर्गे लिङ्गमाह– तथा रूपमीति । अभग्नतया यथा पूर्वरूपमित्यर्थः ॥ ४।६।२१ ॥
नाहमिति । ऊर्ध्वदृष्ट्या परस्त्रीत्वेन कदाप्यदर्शनादिति भावः ॥ ४।६।२२,२२ ॥
कं देशम् उद्दिश्येति शेषः । प्राणप्रिया प्राणेभ्यो ऽपीष्टा प्राणसंबन्धस्य तदधीनत्वादिति भावः ॥ ४।६।२४ ॥
यन्निमित्तं प्रियापहारि तन्निमित्तम् ॥ ४।६।२५,२६ ॥
विमथ्य वञ्चयित्वा ॥ ४।६।२७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षष्ठः सर्गः ॥ ४।६ ॥