००५ राम-सुग्रीवसख्यम्

ऋष्यमूकादिति । ऋष्यमूके सुग्रीववासस्थाने राघवौ स्थापयित्वा, ततः सुग्रीवानयनार्थं ऋष्यमूकैकदेशं मलयाख्यं गिरिं गत्वेत्यन्वयः ॥ ४।५।१ ॥

अयं रामः मलयस्थसुग्रीवदृष्टिपथवर्तित्वादेवं निर्देशः । पुनराहादरात्– रामो ऽयमिति । सत्यविक्रमत्वदृढत्वाभ्यां त्वच्छत्रुनिरसनक्षमता व्यज्यते ॥ ४।५।२ ॥

इक्ष्वाकूणामित्यनेन स्वरूपकथनम् । धर्मे स्वसत्यपरिपालनरूपधर्मनिमित्तम् । निगदितः प्रेरितः पित्रेति शेषः । अत एव तस्य पितुर्निर्देशकारकः ॥ ४।५।३,४ ॥

स्त्रीहेतोः पित्रा स्त्रियै दत्तस्य वरस्य पालनहेतोः ॥ ४।५।५,६ ॥

प्रगृह्य दर्शनाकाङ्क्षिणोर्दर्शनं दत्त्वा ॥ ४।५।७ ॥

दर्शनीयतमो भूत्वा इच्छावशादिति शेषः ॥ ४।५।८ ॥

धर्मविनीतो धर्मे शिक्षितः ॥ ४।५।९ ॥

एष मन्मैत्रीच्छारूपः । तदेवाह यत्त्वमिति । वानरेण तिर्यग्योनिना ऽपि ॥ ४।५।१० ॥

रोचते यदीति । कार्यवशादिति शेषः । ध्रुवा मर्यादानुल्लङ्घनीयो ऽन्योन्यकार्यसंपादनविषयो निश्चयः । बध्यतां बुद्ध्या विचार्य प्रतिज्ञायताम् ॥ ४।५।११ ॥

हस्तं पीडयामास दक्षिणहस्तेन दक्षिणहस्तं गृहीतवान् ॥ ४।५।१२ ॥

पीडितं पर्यष्वजत गाढमालिङ्गितवान् । कृतसौहार्दस्थैर्याय दनूपदिष्टाग्निसाक्षिकत्वसिद्धये च रामप्रेरितहनूमतः प्रवृत्तिः तत इति । भिक्षुरूपं परित्यज्य “तौ त्वया प्राकृतेनेव गत्वा ज्ञेयौ प्लवङ्गम” इति सुग्रीवाज्ञाकरणप्रतीतये रामागमननिवेदनसमये पुनः कृतं भिक्षुरूपं परित्यज्य ॥ ४।५।१३ ॥

स्वेन रूपेण वानररूपेण काष्ठयोररण्योरग्निं जनयामास । ततो दीप्यमानमग्निं तयोर्मध्ये निदधौ । निहितं च तं पुष्पैरभ्यर्च्य सत्कृतं परिस्तरणादिसत्कृतं चाकरोत् ॥ ४।५।१४ ॥

प्रदक्षिणं चक्रतुः मैत्रीदार्ढ्यायेति शेषः ॥ ४।५।१५,१६ ॥

हृद्यो हृदयप्रियः । एकं समानमित्यर्थः ॥ ४।५।१७ ॥

प्रहृष्टवत्प्रहृष्टः सन्नेतावत्पर्यन्तं सम्यग्विश्वासाभावात्सुग्रीवः पृथगासनस्थ एवासीदिति ज्ञायते । तदाह ततः सुपर्णेति ॥ ४।५।१८ ॥

आस्तीर्य राघवायेति शेषः । सराघवो निषसाद स्वयं तत्र स्थित इत्यर्थः ॥ ४।५।१९ ॥

लक्ष्मणाय विषादपरिहारार्थं चन्दनशाखास्तरणदानम् । अथ कार्यमर्यादाबन्धनाय प्रवृत्तिः तत इति ॥ ४।५।२० ॥

इह वने इत्यन्वयः ॥ ४।५।२१,२२ ॥

अभयं कुर्वभयप्रतिज्ञां कुरु ॥ ४।५।२३ ॥

तदेव दार्ढ्याय पुनराह कर्तुमिति ॥ ४।५।२४ ॥

लीलाविसृष्टैकेषुमात्रसाध्यत्वात्प्रहसन्निवेति । उपकारः फलं यस्य तम् ॥ ४।५।२५,२६ ॥

वेगिताः सञ्जातवेगाः ॥ ४।५।२७२९ ॥

मम वैरिणमग्रजं तथा कुरु, यथा पुनः स मम न हिंस्यात् ॥ ४।५।३० ॥

सीतादीनां राजीवादिभिः क्रमेणान्वयः । कपीन्द्रो ऽत्र वाली । पुंसां वामनेत्रस्पन्दो ऽशुभशंसी, स्त्रीणां स शुभशंसी ॥ ४।५।३१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चमः सर्गः ॥ ४।५ ॥